मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — द्वारकामाहात्म्यम्, अध्याय ९

3
प्रभासखण्डः · द्वारकामाहात्म्यम् · 9

रुक्मिणीह्रदमाहात्म्यवर्णनम्

प्रह्लाद उवाच

ततो गच्छेद्द्विजश्रेष्ठाः सप्तकुण्डान्सुविश्रुतान् ॥

सर्वपापप्रशमनानृद्धिबुद्धिविवर्द्धनान्

॥१॥

आराधितः स च यदा हरिराविर्बभूव ह ॥

संस्तूयमानो मुनिभिर्लक्ष्म्या सह जगत्पतिः

॥२॥

अर्हणं च तदा चक्रुर्हरये सुरगङ्गया ॥

वामपार्श्वे स्थितां पद्मामभिषेक्तुं समुद्यताम्

॥३॥

सनकाद्या ब्रह्मसुताः सप्तैते मनसा द्विजाः ॥

पृथक्पृथग्घ्रदान्कृत्वा सिषिचुः सागरोद्भवाम्

॥४॥

ततो लक्ष्मीह्रदाः प्रोक्ता देव्या नात्रैव संज्ञिताः ॥

प्राप्ते तु द्वापरस्यांते रुक्मिणीसंश्रयेण तु

॥५॥

रुक्मिणीह्रदमित्येवं कलौ ख्यातिं गताः पुनः ॥

भृगुणा सेवितं यस्माद्भृगुतीर्थमिति स्मृतम्

॥६॥

तस्मिन्गत्वा महाभागाः प्रक्षाल्य चरणौ मृदा ॥

आचम्य च कुशान्गृह्य प्राङ्मुखो नियतः शुचिः

॥७॥

संपूर्णं चार्घ्यमादाय फलपुष्पाक्षतादिभिः ॥

रजतं च शिरे कृत्वा मन्त्रमेतमुदीरयेत्

॥८॥

भक्त्या चार्घ्यं प्रदास्यामि ह्रदे रुक्मिणिसंज्ञिते ॥

सर्वपापविनाशाय रुक्मिण्याः प्रीणनाय च

॥९॥

स्नानं कुर्य्यात्ततो विप्राः कृत्वा शिरसि तारकम् ॥

देवान्मनुप्यान्सन्तर्प्य पितॄनथ विशेषतः

॥१०॥

श्राद्धं ततः प्रकुर्वीत विप्रानाहूय भक्तितः ॥

दक्षिणां च ततो दद्याद्रजतं रुक्ममेव च

॥११॥

विशेषतः प्रदेयानि फलानि रसवन्ति च ॥

दम्पत्योर्भोजनं दद्यान्मिष्टान्नेन द्विजोत्तमाः

॥१२॥

विप्रपत्न्यस्तु संपूज्याः स्त्रियश्चान्याः स्वशक्तितः ॥

कञ्चुकै रक्तवस्त्रैश्च रुक्मिणी प्रीयतामिति

॥१३॥

एवं कृते द्विजश्रेष्ठाः कृतकृत्यो भवेन्नरः ॥

सर्वान्कामानवाप्नोति विष्णुलोकं स गच्छति

॥१४॥

वसते च सदा गेहे लक्ष्मीस्तस्य न संशयः ॥

आरोग्यं मनसस्तुष्टिर्न चोद्वेगः कदाचन

॥१५॥

पितॄणामक्षया तृप्तिः प्रजा भवति निश्चला ॥

हीनसत्त्वो नैव भवेद्दीर्घायुश्च भवेन्नरः

॥१६॥

आढ्यो भवति सर्वत्र यः स्नातो रुक्मिणी ह्रदे ॥

न लक्ष्म्या मुच्यते विप्रा नालक्ष्म्या व्रियते नरः

॥१७॥

न वैरं कलहस्तस्य यः स्नातो रुक्मिणीह्रदे ॥

गमनागमनं न स्यात्संसारभ्रमणं तथा

॥१८॥

दुःखशोकौ कुतस्तस्य यः स्नातो रुक्मिणीह्रदे ॥

सर्वपापविनिर्मुक्तो महाभयविवर्जितः

॥१९॥

सर्वान्कामानिह प्राप्य याति विष्णुपदं नरः

॥२०॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे चतुर्थे द्वारका माहात्म्ये रुक्मिणीह्रदमाहात्म्यवर्णनंनाम नवमोऽध्यायः ॥ ९ ॥