मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — द्वारकामाहात्म्यम्, अध्याय ४

3
प्रभासखण्डः · द्वारकामाहात्म्यम् · 4

द्वारकायात्राविधिवर्णनम्

श्रीप्रह्लाद उवाच

एवं संपूजितस्तेन हरिणा ब्राह्मणोत्तमः ॥

उवाच परिसन्तुष्टो वरं ब्रूहीति केशवम्

॥१॥

श्रीकृष्ण उवाच

यदि तुष्टोऽसि भगवन्यदि देयो वरो मम ॥

स्थातव्यमत्र भवता न त्यक्तव्यं कदाचन

॥२॥

दुर्वासा उवाच

यदि तिष्ठाम्यहं कृष्ण तथा त्वमपि केशव ॥

तिष्ठस्व षोडशकलो नित्यं मद्वचनेन हि

॥३॥

श्रीकृष्ण उवाच

येऽत्र पश्यंति भक्त्या त्वां मां चापि द्विजसत्तम ॥

किं दास्यसि फलं तेषां भाविनां भगवन्वद

॥४॥

दुर्वासा उवाच

यः स्नात्वा संगमे कृष्ण गोमत्याः सागरस्य च ॥

त्वां मां समर्चति नरः सर्वपापैः समुच्यते

॥५॥

तथान्यच्छृणु कृष्णात्र स्नात्वा दास्यति यद्धनम् ॥

मम दत्तस्य देवेश प्राप्नुयात्षोडशोत्तरम्

॥६॥

श्रीकृष्ण उवाच

यो नरः पूजयित्वा त्वां पूजयिष्यति मामिह ॥

तस्य मुक्तिं प्रदास्यामि या सुरैरपि दुर्ल्लभा

॥७॥

प्रह्लाद उवाच

परस्परं वरौ दत्त्वा कृष्णदुर्वाससौ मुदा ॥

ततः प्रभृति विप्रेन्द्रास्तस्मिन्स्थाने ह्यतिष्ठताम् ॥

वरदानमिति प्रोक्तं तत्तीर्थं सर्वकामदम्

॥८॥

वरदाने नरः स्नातो गोसहस्रफलं लभेत् ॥

विष्णुदुर्वाससोर्यत्र वरदानमभूत्पुरा

॥९॥

तदाप्रभृति विप्रेन्द्रास्तिष्ठते द्वारकां हरिः ॥

दुर्वाससा गिरा बद्धो न जहाति कदाचन

॥१०॥

यत्र त्रैविक्रमी मूर्तिर्वहते यत्र गोमती ॥

नरा मुक्तिं प्रयास्यंति चक्रतीर्थेन संगताः

॥११॥

कलेवरं परित्यक्तं प्रभासे हरिणा यदा ॥

कलाभिः सहितं तेजस्तस्यां मूर्तौ निवेशितम्

॥१२॥

तस्मात्कलियुगे विप्रा नान्यत्र प्राप्यते हरिः ॥

यदि कार्य्यं हि कृष्णेन तत्र गच्छत मा चिरम्

॥१३॥

ऋषय ऊचुः

साधु भागवतश्रेष्ठ साधु मार्गप्रदर्शक ॥

यत्त्वया हि परिज्ञातं तन्न जानाति कश्चन

॥१४॥

किं फलं गमने तस्यां किं फलं कृष्णदर्शने ॥

कानि तीर्थानि तत्रैव के देवास्तद्वदस्व नः

॥१५॥

कस्मिन्मासे तिथौ कस्यां कस्मिन्पर्वणि मानवैः ॥

गन्तव्यं कानि देयानि दानानि दनुजर्षभ

॥१६॥

सूत उवाच

इति पृष्टस्तदा तैस्तु महाभागवतोऽसुरः ॥

कथयामास विप्रेभ्यो भगवद्भक्तिसंयुतः

॥१७॥

प्रह्लाद उवाच

भो भूमिदेवाः शृणुत परं गुह्यं सनातनम् ॥

यत्कस्यचिन्न चाख्यातं तद्वदामि सुविस्तरात्

॥१८॥

यदा मतिं च कुरुते द्वारकागमनं प्रति ॥

तदा नरकनिर्मुक्ता गायन्ति पितरो दिवि

॥१९॥

यावत्पदानि कृष्णस्य मार्गे गच्छति मानवः ॥

पदेपदेऽश्वमेधस्य यज्ञस्य लभते फलम्

॥२०॥

यात्रार्थं देवदेवस्य यः प्रेरयति चापरान् ॥

मानवान्नात्र सन्देहो लभते वैष्णवं पदम्

॥२१॥

द्वारकां गच्छमानस्य यो ददाति प्रतिश्रयम् ॥

तथैव मधुरां वाचं नन्दते क्रीडते हि सः

॥२२॥

अध्वनि श्रांतदेहस्य वाहनं यः प्रयच्छति ॥

हंसयुक्तेन स नरो विमानेन दिवं व्रजेत्

॥२३॥

यात्रायां गच्छमानस्य मध्याह्ने क्षुधितस्य च ॥

अन्नं ददाति यो भक्त्या शृणु तस्यापि यद्भवेत्

॥२४॥

गयाश्राद्धेन यत्पुण्यं लभते मानवो भुवि ॥

अन्नदानेन तत्पुण्यं पितॄणां तृप्तिरक्षया

॥२५॥

उपानहौ तु यो दद्याद्द्वारकां प्रति गच्छताम् ॥

कृष्णप्रसादात्स नरो गजस्कन्धेन गच्छति

॥२६॥

विघ्नमाचरते यस्तु द्वारकां प्रति गच्छताम् ॥

नरके मज्जते मूढः कल्पमात्रं तु रौरवे

॥२७॥

मार्गस्थितस्य यो धन्यः प्रयच्छति कमण्डलु्म् ॥

प्रपादानसहस्रस्य फलमाप्नोति मानवः

॥२८॥

यात्रायां गच्छमानस्य पादभ्यंगं ददाति यः ॥

पादप्रक्षालनं चैव सर्वान्कामानवाप्नुयात्

॥२९॥

गाथां शृणोति यो विष्णोर्गीतं च गायतः पथि ॥

दानं ददाति विप्रेन्द्रास्तस्माद्धन्यतरो न हि

॥३०॥

कैलासशिखरावासं श्वेताभ्रमिव निर्मलम् ॥

प्रासादं कृष्णदेवस्य यः पश्यति नरोत्तमः

॥३१॥

दूराद्धेममयं दृष्ट्वा कलशं ध्वजसंयुतम् ॥

वाहनं संपरित्यज्य लुठते धरणीं गतः

॥३२॥

पञ्चसूनाकृतं पापं तथाऽधर्मकृतं च यत् ॥

कृमिकीटपतंगाश्च निहताः पथि गच्छता ॥

परान्नं परपानीयमस्पृश्य स्पर्शसंगमम् ॥

तत्सर्वं नाशमाप्नोति भगवत्केतुदर्शनात्

॥३४॥

पठेन्नामसहस्रं तु स्तवराजमथापि वा ॥

गजेन्द्रमोक्षणं चैव पथि गच्छञ्छनैः शनैः

॥३५॥

गायमानो भगवतः प्रादुर्भावाननेकधा ॥

नृत्यद्भिर्हर्षसंयुक्तैर्हृष्यमाणः पुनःपुनः ॥

स्वयं नृत्यन्हर्षयुक्तो भक्तो गच्छेद्धरेः पुरम्

॥३६॥

विष्णोः क्रीडाकरं स्थानं भुक्तिमुक्तिप्रदायकम् ॥

यस्मिन्दृष्टे कलौ नॄणां मुक्तिरेवोपजायते

॥३७॥

प्रह्लाद उवाच

पूर्वं हि देवराजेन बृहस्पतिरुदारधीः ॥

प्रणम्य परया भक्त्या पृष्टश्च स महामतिः

॥३८॥

इन्द्र उवाच

द्वारकायाश्च माहात्म्यं कथयस्व प्रसादतः ॥

चतुर्युगं यथाभागैर्धर्मवृद्धिं जनो लभेत्

॥३९॥

एतच्छ्रुत्वा महेन्द्रस्य वचनं मुनिसत्तमाः ॥

बृहस्पतिरुवाचैनं महेन्द्रं देव संवृतम्

॥४०॥

बृहस्पतिरुवाच

कृतं त्रेता द्वापरं च कलिश्च सुरसत्तम ॥

चतुर्युगमिदं प्रोक्तं तत्त्वतो मुनिसत्तमैः

॥४१॥

कृते धर्मश्चतुष्पादो वेदादिफलमेव च ॥

तीर्थं दानं तपो विद्या ध्यानमायुररोगता

॥४२॥

पादहीनं सर्वमेतद्युगं त्रेताभिधं प्रभो ॥

पादद्वयं द्वापरे तु सर्वस्यैतस्य वासव

॥४३॥

पादेनैकेन तत्सर्वं विभागे प्रथमे कलौ ॥

ऊर्ध्वं विनाशः सर्वस्य भविष्यति न संशयः

॥४४॥

मन्त्रास्तीर्थानि यज्ञाश्च तपो दैवादिकं तथा ॥

प्रगच्छंति समुच्छेदं वेदाः शास्त्राणि चैव हि

॥४५॥

म्लेच्छप्रायाश्च भूपाला भविष्यन्त्यमराधिप ॥

लोकः करिष्यते निन्दां साधूनां व्रतचारिणाम्

॥४६॥

प्रह्लाद उवाच

श्रुत्वा बृहस्पतेर्वाक्यमेतत्तीर्थस्य भो द्विजाः ॥

प्रकंपिताः सुराः सर्वे म्लेच्छ संसर्गजाद्भयात्

॥४७॥

बृहस्पतिं सुरगुरुं पप्रच्छुर्विनयान्विताः ॥

म्लेच्छसंसर्गजो दोषो गंगयापि न पूयते

॥४८॥

कथयस्व प्रसादेन स्थानं कलिविवर्जितम् ॥

यत्र गत्वा निवत्स्यामो यास्यामो निर्वृतिं पराम्

॥४९॥

येन दुःखविनिर्मुक्ता भविष्यामो गतव्यथाः ॥

कृपया सुमुखो भूत्वा ब्रूहि तीर्थं हिताय नः

॥५०॥

प्रह्लाद उवाच

एतच्छ्रुत्वा सुरेन्द्रस्य वाक्यमंगिरसां वरः ॥

चिरं ध्यात्वा जगादेदं वाक्यं देवपुरोहितः

॥५१॥

बृहस्पतिरुवाच

पञ्चक्रोशप्रमाणं हि तीर्थं तीर्थवरोत्तमम् ॥

द्वारकानाम विख्यातं कलिदोषविवर्जितम्

॥५२॥

विष्णुना निर्मितं स्थानं लोकस्य गतिदायकम् ॥

मुक्तिदं कलिकाले तु ज्ञानहीनजनस्य च

॥५३॥

ऊषरं कर्मणां क्षेत्रं पुण्यं पापविनाशनम् ॥

न प्ररोहंति पापानि पुनर्नष्टानि तत्र वै

॥५४॥

तिस्रः कोटयोऽर्धकोटी च तीर्थानीह महीतले

॥५५॥

एवं तीर्थयुता तत्र द्वारका मुक्तिदायका ॥

सेवनीया प्रयत्नेन प्राप्य मानुष्यमुत्तमम्

॥५६॥

प्रह्लाद उवाच

बृहस्पतेर्वचः श्रुत्वा शतक्रतुरथाऽब्रवीत् ॥

वाचस्पते मम इहि द्वारवत्या महोदयम् ॥

गमने किं फलं प्रोक्तं कृष्णदेवस्य दर्शने

॥५७॥

अन्यानि तत्र तीर्थानि मुख्यानि वद मे गुरो ॥

यथाभिषेके गोमत्याः फलं यदपि संगमे

॥५८॥

बृहस्पतिरुवाच

श्रूयतां तात वक्ष्यामि माहात्म्यं द्वारकोद्भवम् ॥

मनुष्यरूपो भगवान्यत्र क्रीडति केशवः

॥५९॥

नारायणः स ईशानो ध्येयश्चादौ जगन्मयः ॥

स एव देवतामुख्यः पुरीं द्वारवतीं स्थितः

॥६०॥

एकैकस्मिन्पदे दत्ते पुरीं द्वारवतीं प्रति ॥

पुण्यं क्रतुसहस्रेण कलौ भवति देहिनाम्

॥६१॥

कलौ कृष्णपुरीं रम्यां ये गच्छंति नरोत्तमाः ॥

कुलकोटिशतैर्युक्तास्ते गच्छन्ति हरेः पदम्

॥६२॥

ये ध्यायंति मनोवृत्त्या गमनं द्वारकां प्रति ॥

तेषां विलीयते पापं पूर्वजन्मायुतैः कृतम्

॥६३॥

कृष्णस्य दर्शने बुद्धिर्जायते यस्य देहिनः ॥

वक्त्रावलोकनात्तस्य पापं याति सहस्रधा

॥६४॥

ये गता द्वारकायां च ये मृताः कृष्णसन्निधौ ॥

न तेषां पुनरावृत्तिर्यावदाभूतसंप्लवम्

॥६५॥

सुलभा मथुरा काशी ह्यवन्ती च तथा सुराः ॥

अयोध्या सुलभा लोके दुर्लभा द्वारका कलौ

॥६६॥

गत्वा कृष्णपुरीं रम्यां षण्मासात्कृष्णसंनिधौ ॥

जीवन्मुक्तास्तु ते ज्ञेयाः सत्यमेतत्सुरोत्तम

॥६७॥

कृष्णक्रीडाकरं स्थानं वाञ्छन्ति मनसा प्रिये ॥

तेषां हृदि स्थितं पापं क्षालयेत्प्रेतनायकः

॥६८॥

अत्युग्राण्यपि पापानि तावत्तिष्ठन्ति विग्रहे ॥

यावन्न गच्छति नरः कलौ द्वारवतीं प्रति

॥६९॥

पुण्यसंख्या च तीर्थानां ब्रह्मणा विहिता पुरा ॥

दानाध्ययन संज्ञानां मुक्त्वा द्वारवतीं कलौ

॥७०॥

चक्रतीर्थे तु यो गच्छेत्प्रसंगेनापि मानवः ॥

कुलैकविंशतियुतः स गच्छेत्परमं पदम्

॥७१॥

लोभेनाऽप्यपराधेन दम्भेन कपटेन वा ॥

चक्रतीर्थं च यो गच्छेन्न पुनर्विशते भवम्

॥७२॥

प्रयागे ह्यस्थिपातेन यत्फलं परिकीर्तितम् ॥

तदेव शतसाहस्रं चक्रतीर्थास्थिपातनात्

॥७३॥

पृथिव्यां चैव तत्तीर्थं परमं परिकीर्तितम् ॥

चक्रतीर्थमिति ख्यातं ब्रह्महत्याविनाशनम्

॥७४॥

ये ये कुले भविष्यंति तत्पूर्वं मानवाः क्षितौ ॥

सर्वे विष्णुपुरं यांति चक्रतीर्थास्थिपातनात्

॥७५॥

किं जातैर्बहुभिः पुत्रैर्गणनापूरकात्मकैः ॥

वरमेको भवेत्पुत्रश्चक्रतीर्थं तु यो व्रजेत्

॥७६॥

तपसा किं प्रतप्तेन दानेनाध्ययनेन किम् ॥

सर्वावस्थोऽपि मुच्येत गतः कृष्णपुरीं यदि

॥७७॥

कलिकाल कृतैर्दोषैरत्युग्रैरपि मानवः ॥

कलौ कृष्णमुखं दृष्ट्वा लिप्यते न कदाचन

॥७८॥

दानं चाध्ययनं शौचं कारणं न हि पुत्रक ॥

हीनवर्णोऽपि पापात्मा गतः कृष्णपुरीं यदि

॥७९॥

वाराणस्यां कुरुक्षेत्रे नर्मदायां च यत्फलम् ॥

तत्फलं निमिषार्धेन द्वारवत्यां दिनेदिने

॥८०॥

धन्यानामपि धन्यास्ते देवानामपि देवताः ॥

कृष्णोपरि मतिर्येषां हीयते न कदाचन

॥८१॥

श्रवणद्वादशीयोगे गोमत्युदधिसंगमे ॥

स्नात्वा कृष्णसुतं दृष्ट्वा लिप्यते नैव स क्वचित्

॥८२॥

यस्य कस्यापि मासस्य द्वादशी प्राप्य मानवः ॥

कृष्णक्रीडापुरीं दृष्ट्वा मुक्तः संसारगह्वरात्

॥८३॥

येषां कृष्णालये प्राणा गताः सुरपते कलौ ॥

स्वर्गान्न तेषामावृत्तिः कल्पकोटिशतैरपि

॥८४॥

विज्ञेया मानुषा वत्स गर्भस्थास्ते महीतले ॥

द्वारवत्यां न यैर्देवो दृष्टः कंसनिषूदनः

॥८५॥

दुर्लभो द्वारकावासो दुर्लभं कृष्णदर्शनम् ॥

दुर्लभं गोमतीस्नानं दुर्लभो रुक्मिणीपतिः

॥८६॥

तपः परं कृतयुगे त्रेतायां ज्ञानमुच्यते ॥

द्वापरे तु परो यज्ञः कलौ केशवकीर्तनम्

॥८७॥

हेमभारसहस्रैस्तु दत्तैर्यत्फलमाप्यते ॥

दृष्ट्वा तत्कोटि गुणितं हरेः सर्वप्रदं मुखम्

॥८८॥

द्वारकायां च यद्दत्तं शंखोद्धारे तथैव च ॥

पिंडारके महातीर्थे दत्तं चैवाक्षयं भवेत्

॥८९॥

गोमहिष्यादि यद्दत्तं सुवर्णवसनानि च ॥

वृषो भूमिग्रहो रूप्यं कन्यादानं तथैव च

॥९०॥

यच्चान्यदपि देवेन्द्र त्रिषु स्थानेषु यच्छति ॥

तन्मुक्तिकारकं प्रोक्तं पितॄणामात्मनस्तथा

॥९१॥

ऊषरं हि यतो लोके क्षेत्रमेतत्प्रकीर्तितम् ॥

अतो मुक्तिकरं सर्वं दानं चोक्तं महर्षिभिः

॥९२॥

यत्किंचित्कुरुते तत्र दानं क्रीडावगाहनम् ॥

तदनन्तफलं प्राह भगवान्मधुसूदनः

॥९३॥

प्रेतत्वं नैव तस्यास्ति न याम्या नारकी व्यथा ॥

येन द्वारवतीं गत्वा कृतं कृष्णाऽवलोकनम्

॥९४॥

वारिमात्रेण गोमत्यां पिण्डदाने कृते कलौ ॥

पितॄणां जायते तृप्तिर्यावदाभूतसंप्लवम्

॥९५॥

नित्यं कृष्णपुरीं रम्यां ये स्मरन्ति गृहस्थिताः ॥

नमस्याः सर्वलोकानां देवानां च सुरोत्तम

॥९६॥

ब्रह्मज्ञानं गयाश्राद्धं मरणं गोग्रहेषु च ॥

वासः पुंसां द्वारकायां मुक्तिरेषा चतुर्विधा

॥९७॥

ब्रह्मज्ञानेन मुच्यन्ते प्रयागे मरणेन वा ॥

अथवा स्नानमात्रेण गोमत्यां कृष्णसंनिधौ

॥९८॥

कृतार्थः कृतपुण्योऽहं ब्रवीत्येवं महोदधिः ॥

पवित्रितं च मद्गात्रं गोमतीवारिसंप्लवात्

॥९९॥

अत्युग्राण्यपि पापानि तावत्तिष्ठंति विग्रहे ॥

यावत्स्नानं न गोमत्यां वारिणा पापहारिणा

॥१००॥

चक्रतीर्थे नरः स्नात्वा गोमत्यां रुक्मिणीह्रदे ॥

दृष्ट्वा कृष्णमुखं रम्यं कुलानां तारयेच्छतम्

॥१०१॥

कृष्णं च ये द्वारवतीं मनुष्याः स्मरंति नित्यं हरिभक्तियुक्ताः ॥

विधूतपापाः किल संभवांते गच्छंति लोकं परमं मुरारेः

॥१०२॥

अधौतपादः प्रथमं नमस्कुर्याद्गणेश्वरम् ॥

सर्वविघ्रविनाशश्च जायते नात्र संशयः

॥१०३॥

नीलोत्पलदलश्यामं कृष्णं देवकिनन्दनम् ॥

दण्डवत्प्रणमेत्प्रीत्या प्रणमेदग्रजं पुनः

॥१०४॥

बाल्ये च यत्कृतं पापं कौमारे यौवने तथा ॥

दर्शनात्कृष्णदेवस्य तन्नश्येन्नात्र संशयः

॥१०५॥

वाण्याऽथ मनसा यच्च कर्मणा समुपार्जितम् ॥

पापं जन्मसहस्रेण तन्नश्येन्नात्र संशयः

॥१०६॥

हेमभारसहस्रैस्तु दत्तैर्यत्फलमाप्यते ॥

तत्फलं कोटिगुणितं कृष्णवक्त्रावलोकनात्

॥१०७॥

नमस्कृत्य च देवेशं पुण्डरीकाक्षमच्युतम् ॥

दुर्वाससं महेशानं द्वारकापरिरक्षकम्

॥१०८॥

प्रणम्य परया भक्त्या वैनतेयसमन्वितम् ।

ऽ।

द्वारमागत्य च पुनः स्वर्गद्वारोपमं शुभम्

॥१०९॥

विश्रम्य च मुहूर्त्तार्द्धं सुहृद्भिर्बान्धवैर्वृतः ॥

तत्राश्रितान्समाहूय ब्राह्मणान्मन्त्रकोविदान् ॥

पूजाद्रव्यं समानीय ततस्तीर्थं व्रजेद्बुधः

॥११०॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्ये द्वारकायात्राविधिवर्णनंनाम चतुर्थोऽध्यायः ॥ ४ ॥