द्विजकृतद्वारकायात्राविधिवर्णनम्
प्रह्लाद उवाच
सावित्रीं च भवानीं च दुर्गां चैव सरस्वतीम् ॥
योऽर्चयेत्तुलसीपत्रैः सर्वकामसमन्वितः
॥१॥गृहीत्वा तुलसीपत्रं भक्त्या विष्णुं समर्चयेत् ॥
अर्चितं तेन सकलं सदेवासुरमानुषम्
॥२॥चतुर्द्दश्यां महेशानं पौर्णमास्यां पितामहम् ॥
येऽर्चयन्ति च सप्तम्यां तुलस्या च गणाधिपम्
॥३॥शंखोदकं तीर्थवराद्वरिष्ठं पादोदकं तीर्थवराद्वरिष्ठम् ॥
नैवेद्यशेषं क्रतुकोटितुल्यं निर्माल्यशेषं व्रतदानतुल्यम्
॥४॥मुकुन्दाशनशेषं तु यो भुनक्ति दिनेदिने ॥
सिक्थेसिक्थे भवेत्पुण्यं चान्द्रायणशताधिकम्
॥५॥नैवेद्यशेषं तुलसीविमिश्रं विशेषतः पादजलेन विष्णोः ॥
योऽश्नाति नित्यं पुरुषो मुरारेः प्राप्नोति यज्ञायुतकोटिपुण्यम्
॥६॥यः श्राद्धकाले हरिभुक्तशेषं ददाति भक्त्या पितृदेवतानाम् ॥
तेनैव पिंडात्सुतिलैर्विमिश्रादाकल्पकोटिं पितरः सुतृप्ताः
॥७॥स्नानार्चनक्रियाकाले घंटावाद्यं करोति यः ॥
पुरतो वासुदेवस्य गवां कोटिफलं लभेत्
॥८॥सर्ववाद्यमयी घंटा केशवस्य सदा प्रिया ॥
वादनाल्लभते पुण्यं यज्ञकोटिफलं नरः
॥९॥वादित्राणामभावे तु पूजाकाले च सर्वदा ॥
घंटावाद्यं नरैः कार्य्यं सर्ववाद्यमयी यतः
॥१०॥तुलसीकाष्ठसंभूतं चन्दनं यच्छते हरेः ॥
निर्द्दहेत्पातकं सर्वं पूर्वजन्मशतार्जितम्
॥११॥ददाति पितृ पिंडेषु तुलसीकाष्ठचन्दनम् ॥
पितॄणां जायते तृप्तिर्गयाश्राद्धेन वै तथा
॥१२॥सर्वेषामेव देवानां तुलसीकाष्ठचन्दनम् ॥
पितॄणां च विशेषेण सदाऽभीष्टं हरेः कलौ
॥१३॥हरेर्भागवता भूत्वा तुलसीकाष्ठचन्दनम् ॥
नार्पयति सदा विष्णोर्न ते भागवताः कलौ
॥१४॥शरीरं दह्यते यस्य तुलसीकाष्ठवह्निना ॥
नीयमानो यमेनापि विष्णुलोकं स गच्छति
॥१५॥यद्येकं तुलसीकाष्ठं मध्ये काष्ठस्य यस्य हि ॥
दाहकाले भवेन्मुक्तः पापकोटिशतायुतैः
॥१६॥दह्यमानं नरं दृष्ट्वा तुलसीकाष्ठवह्निना ॥
जन्मकोटिसहस्रैस्तु तोषितस्तैर्जनार्दनः
॥१७॥दह्यमानं नरं सर्वे तुलसीकाष्ठवह्निना ॥
विमानस्थाः सुरगणाः क्षिपंति कुसुमांजलीन्
॥१८॥नृत्यंत्योऽप्सरसो हृष्टा गीतं गायन्ति सुस्वरम् ॥
ज्वलते यत्र दैत्येन्द्र तुलसीकाष्ठपावकः
॥१९॥कुरुते वीक्षणं विष्णुः सन्तुष्टः सह शंभुना
॥२०॥गृहीत्वा तं करे शौरिः पुरुषं स्वयमग्रतः ॥
मार्जते तस्य पापानि पश्यतां त्रिदिवौकसाम् ॥
महोत्सवं च कृत्वा तु जयशब्दपुरःसरम्
॥२१॥सूत उवाच
प्रह्लादेनोदितं श्रुत्वा माहात्म्यं द्वारकाभवम् ॥
प्रहृष्टा ऋषयः सर्वे तथा दैत्येश्वरो बलिः
॥२२॥ततः सर्वेऽभिनन्द्यैनं प्रह्लादं दैत्यपुङ्गवम् ॥
उद्युक्ता द्वारकां गत्वा द्रष्टुं कृष्णमुखाम्बुजम्
॥२३॥ततस्ते बलिना सार्धं मुनयः संशितव्रताः ॥
आगत्य द्वारकां स्नात्वा गोमत्यां विधिपूर्वकम्
॥२४॥कृष्णं दृष्ट्वा समभ्यर्च्य कृत्वा यात्रां यथाविधि ॥
दत्त्वा दानानि बहुशः कृतकृत्यास्ततोऽभवन्
॥२५॥जग्मुः स्वीयानि स्थानानि बलिः पातालमाययौ ॥
प्रह्लादं च प्रणम्याशु मेने स्वस्य कृतार्थताम्
॥२६॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्ये द्वारकामाहात्म्यश्रवणादिफलश्रुतिवर्णनपुरःसरतुलसीपत्रकाष्ठमहिमवर्णनपूर्वकं प्रह्लादद्विजसंवाद समाप्त्यनंतरं बलिना सह द्विजकृतद्वारकायात्राविधिवर्णनंनाम त्रिचत्वारिंशत्तमोऽध्यायः ॥ ४३ ॥