ततो गच्छेद्द्विजश्रेष्ठास्तीर्थं विष्णुपदोद्भवम्
प्रह्लाद उवाच
ततो गच्छेद्द्विजश्रेष्ठास्तीर्थं विष्णुपदोद्भवम् ॥
यस्य दर्शनमात्रेण गंगास्नानफलं लभेत्
॥१॥यस्योत्पत्तिर्मया पूर्वं कथिता द्विजसत्तमाः ॥
यस्य संस्मरणादेव कीर्तनात्पापनाशनम्
॥२॥हरिणा या समानीता रुक्मिण्यर्थे महात्मना ॥
यस्या गण्डूषमात्रेण हयमेधफलं लभेत्
॥३॥विष्णोः पादप्रसूताया वैष्णवीति च विश्रुता ॥
तत्र गत्वा महाभाग गृहीत्वाऽर्घ्यं विधानतः
॥४॥नमस्ये त्वां भगवति विष्णुपादतलोद्भवे ॥
गृहाणार्घ्यमिदं देवि गंगे त्वं हरिणा सह
॥५॥इत्युच्चार्य द्विजश्रेष्ठा मृदमालभ्य पाणिना ॥
प्राङ्मुखः संयतो भूत्वा स्नानं कुर्यादतन्द्रितः
॥६॥देवान्पितॄन्मनुष्यांश्च तर्पितव्यं तिलाक्षतैः ॥
उपहृत्योपहारांश्च ह्याहूय ब्राह्मणांस्ततः
॥७॥श्रद्धया परया युक्तः श्राद्धं कुर्याद्विचक्षणः ॥
यथोक्तां दक्षिणां दद्यात्सुवर्णं रजतं तथा
॥८॥दीनान्ध कृपणानाञ्च दानं देयं स्वशक्तितः ॥
विशेषतः प्रदातव्यं सुवर्णं द्विजसत्तमाः
॥९॥उपानहौ ततो देये जलकुम्भं द्विजातये ॥
दध्योदनं सलवणं शाकजीरकसंयुतम्
॥१०॥रक्तवस्त्रैः कंचुकीभी रुक्मिणीं परिधापयेत् ॥
विप्रपत्नीश्च विप्रांश्च विष्णुर्मेप्रीयतामिति
॥११॥एवं कृते द्विज श्रेष्ठाः कृतकृत्यो भवेन्नरः ॥
पितॄणामक्षया तृप्तिर्गयाश्राद्धेन वै यथा
॥१२॥वैष्णवं लोकमायान्ति पितरस्त्रिकुलोद्भवाः ॥
जीवते स श्रियायुक्तः पुत्रपौत्रसमन्वितः
॥१३॥प्रीतः सदा भवेत्तस्य रुक्मिण्या सह केशवः ॥
यच्छते वाञ्छितान्सर्वानैहिकामुष्मिकान्प्रभुः
॥१४॥एतन्माहात्म्यमतुलं विष्णुपादोद्भवं तथा ॥
यः शृणोति हरौ भक्त्या सर्वपापैः स मुच्यते
॥१५॥श्रुत्वाऽध्यायमिमं पुण्यं सर्वपापैः प्रमुच्यते
॥१६॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे चतुर्थे द्वारकामाहात्म्ये विष्णुपदतीर्थमाहात्म्यवर्णनंनामैकादशोऽध्याय. ॥ ११ ॥