मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — द्वारकामाहात्म्यम्, अध्याय १२

3
प्रभासखण्डः · द्वारकामाहात्म्यम् · 12

मयनिर्मितसरोमाहात्म्यवर्णनम्

प्रह्लाद उवाच

ततो गच्छेद्द्विजश्रेष्ठा गोप्रचारमतः परम् ॥

यत्र स्नात्वा नरो भक्त्या लभेद्गोदानजं फलम्

॥१॥

यत्र स्नातो जगन्नाथो नभस्ये दैवतैर्वृतः ॥

कटदानं च तत्प्रोक्तं द्वादश्यां द्विजसत्तमाः

॥२॥

ऋषय ऊचुः

कथं तु तत्र दैत्येन्द्राऽभवद्वै गोप्रचारकम् ॥

तीर्थं कथय तत्त्वेन यत्र स्नातो जनार्द्दनः

॥३॥

प्रह्लाद उवाच

हते कंसे भोजराजे कृष्णेनामिततेजसा ॥

उग्रसेने चाभिषिक्ते मधुपुर्य्यां महात्मना

॥४॥

उद्धवं प्रेषयामास गोकुले गोकुलप्रियः ॥

सुहृदां प्रियकामार्थं गोपगोपीजनस्य च

॥५॥

नमस्कृत्य च गोविदं प्रययौ नंदगोकुलम् ॥

स तत्सदृशवेषेण वस्त्रालंकारभूषणैः

॥६॥

तं दृष्ट्वा दिवसस्यांते गोविंदानुचरं प्रियम् ॥

उद्धवं पूजयामास वस्त्रालंकारभूषणैः

॥७॥

तं भुक्तवंतं विश्रांतं यशोदा पुत्रवत्सला ॥

आनंदबाष्पपूर्णाक्षी पप्रच्छानामयं हरेः

॥८॥

कच्चिद्धि स्तः सुखं पुत्रौ रामकृष्णौ यदूत्तमौ ॥

कच्चित्स्मरति गोविंदो वयस्यान्गोपबालकान्

॥९॥

कच्चिदेष्यति गोविंदो गोकुलं मधुरेश्वरः ॥

तारयिष्यति पुत्रोऽसौ गोकुलं वृजिनार्णवात्

॥१०॥

इत्युक्त्वा बाष्पपूर्णाक्षौ यशोदा नंद एव च ॥

दीर्घं रुरुदतुर्दीनौ पुत्रस्नेहवशंगतौ

॥११॥

उद्धवस्तौ ततो दृष्ट्वा प्राणसंशयमागतौ ॥

मधुरैः कृष्णसंदेशैः स्नेहयुक्तैरजीवयत्

॥१२॥

नमस्करोति भवतीं भवंतं च सहाग्रजः ॥

अनामयं पृष्टवांश्च तौ च क्षेमेण तिष्ठतः

॥१३॥

क्षिप्रमेष्यति दाशार्हो रामेण सहितो विभुः ॥

अत्रागत्य जगन्नाथो विधास्यति च वो हितम्

॥१४॥

इत्येवं कृष्णसंदेशैः समाश्वास्योद्धवस्तदा ॥

सुखं सुष्वाप शयने नन्दाद्यैरभिनंदितः

॥१५॥

गोप्यस्तदा रथं दृष्ट्वा द्वारे नंदस्य विस्मिताः ॥

कोऽयं कोऽयमिति प्राहुः कृष्णागमनशंकया

॥१६॥

गोपालराजस्य गृहे रथेनादित्यवर्चसा ॥

समागतो महाबाहुः कृष्णवेषानुगस्तथा

॥१७॥

परस्परं समागम्य सर्वास्ता व्रजयोषितः ॥

विविक्ते कृष्णदूतं तं पप्रच्छुः शोककर्षिताः

॥१८॥

श्रीगोप्य ऊचुः

कस्मात्त्वमिह संप्राप्तः किं ते कार्य्यमिहाद्य वै ॥

दस्युरूपप्रतिच्छन्नो ह्यस्मान्संहर्तुमिच्छसि

॥१९॥

पूर्वमेव हतं तेन कृष्णेन हृदयादिकम् ॥

पाययित्वाऽधरविषं योषिद्व्रातं पलायितः

॥२०॥

इत्येवमुक्त्वा ता गोप्यो मुमुहुः शोकविह्वलाः ॥

ईक्षंत्यः कृष्णदासं तं निपेतुर्धरणीतले

॥२१॥

उद्धवस्तं जनं दृष्ट्वा कृष्णस्नेहहृताशयम् ॥

आश्वासयामास तदा वाक्यैः श्रोत्रसुखावहैः

॥२२॥

उद्धव उवाच

भगवानपि दाशार्हः कन्दर्पशरपीडितः ॥

न भुंक्ते न स्वपिति च चिन्तयन्वस्त्वहर्निशम्

॥२३॥

तच्छ्रुत्वा वचनं तस्य ललिता क्रोधमूर्छिता ॥

उद्धवं ताम्रनयना प्रोवाच रुदती तदा

॥२४॥

ललितोवाच

असत्यो भिन्नमर्य्यादः क्रूरः क्रूरजनप्रियः ॥

त्वं मा कृथा नः पुरतः कथां तस्याऽकृतात्मनः

॥२५॥

धिग्धिक्पापसमाचारो धिग्धिग्वै निष्ठुराशयः ॥

हित्वा यः स्त्रीजनं मूढो गतो द्वारवतीं हरिः

॥२६॥

श्यामलोवाच

किं तस्य मन्दभाग्यस्य अल्पपुण्यस्य दुर्मतेः ॥

मा कुरुध्वं कथाः साध्व्यः कथां कथयताऽपराम्

॥२७॥

धन्योवाच

केनायं हि समानीतो दूतो दुष्टजनस्य च ॥

यातु तेन पथा पापः पुनर्नायाति येन च

॥२८॥

विशाखोवाच

न शीलं न कुलं यस्य नास्ति पापकृतं भयम् ॥

तस्य स्त्रीहनने साध्व्यो ज्ञायते जन्म कर्म च ॥

हीनस्य पुरुषार्थेन तेन संगो निरर्थकः

॥२९॥

राधोवाच

भूतानां घातने यस्य नास्ति पापकृतं भयम् ॥

तस्य स्त्रीहनने साध्व्यः शंका कापि न विद्यते

॥३०॥

शैब्योवाच

सत्यं ब्रूहि महाभाग किं करोति यदूत्तमः ॥

संगतो नागरस्त्रीभिरस्माकं किं कथां स्मरेत्

॥३१॥

पद्मोवाच

कदोद्धव महाभाग नागरीजनवल्लभः ॥

समेष्यतीह दाशार्हः पद्मपत्रायतेक्षणः

॥३२॥

भद्रोवाच

हा कृष्ण हा गोपवर हा गोपीजनवल्लभ ॥

समुद्धर महाबाहो गोपीः संसारसागरात्

॥३३॥

प्रह्लाद उवाच

इति ता विविधैर्वाक्यैर्विलपंत्यो व्रजस्त्रियः ॥

रुरुदुः सुस्वरं देव्यः स्मरंत्यः कृष्ण चेष्टितम्

॥३४॥

तासां तद्रुदितं श्रुत्वा भक्तिस्नेहसमन्वितः ॥

विस्मयं परमं गत्वा साधुसाध्विति चाब्रवीत्

॥३५॥

उद्धव उवाच

यं न ब्रह्मा न च हरो न देवा न महर्षयः ॥

स्वभावमनुगच्छंति सर्वा धन्या व्रजस्त्रियः

॥३६॥

सर्वासां सफलं जन्म जीवितं यौवनं धनम् ॥

यासां भवेद्भगवति भक्तिरव्यभिचारिणी

॥३७॥

गोप्य ऊचुः

साधु दर्शय गोविंदं साधु दर्शय वल्लभम् ॥

नयास्मान्साधु तत्रैव यत्र तिष्ठति सोऽच्युतः

॥३७॥

प्रह्लाद उवाच

तासां तद्भाषितं श्रुत्वा तथा विलपितं बहु ॥

बाढमित्येव ता ऊच उद्धवः स्नेहविह्वलाः

॥३९॥

उद्धवेन समं सर्वास्ततस्ता व्रजयोषितः ॥

अनुजग्मुर्मुदा युक्ताः कृष्णदर्शनलालसाः

॥४०॥

गायन्त्यः प्रियगीतानि तद्बालचरितानि च ॥

जग्मुः सहैव शनकैरुद्धवेन व्रजांगनाः

॥४१॥

यदुपुर्य्यां ततो दृष्ट्वा उद्यानविपिनावलीः ॥

अद्य देवं प्रपश्यामः कृष्णाख्यं नंदनंदनम्

॥४२॥

द्वारवत्यां तु गमनाद्ध्यानाल्लक्ष्मीपतेस्तदा ॥

अशेषकल्मषान्मुक्ता विध्वस्ताखिलबन्धनाः

॥४३॥

संप्राप्तास्तास्ततः सर्वास्तीरे मयसरस्य च ॥

प्रणिपत्योद्धवः प्राह गोपिकाः कृष्णदेवताः

॥४४॥

स्थीयतां मातरश्चात्रात्रैवेष्यति महाभुजः ॥

कृष्णः कमलपत्राक्षो विधास्यति च वो हितम्

॥४५॥

गोप्य ऊचुः

कस्योद्धव इदं चात्र सरः सारसशोभितम् ॥

संपूर्णं पंकजैश्चित्रैः कल्हारकुमुदोत्पलैः

॥४६॥

उद्धव उवाच

मयो नाम महादैत्यो मायावी लोकविश्रुतः ॥

कृतं तेन सरः शुभ्रं तस्य नाम्ना च विश्रुतम्

॥४७॥

श्रीगोप्य ऊचुः

शीघ्रमानय गोविंदं साधु दर्शय चाच्युतम् ॥

नयनानंदजननं तापत्रयविनाशनम्

॥४८॥

तच्छ्रुत्वा वचनं तासां गोपिकानां तदोद्धवः ॥

दूतैः समानयामास श्रीकृष्णं शीघ्रयायिभिः

॥४९॥

आयांतं शीघ्रयानेन दृष्ट्वा देवकिनंदनम् ॥

भ्राजमानं सुवपुषा वनमालाविभूषितम्

॥५०॥

ज्वलत्किरीटमुकुटं स्फुरन्मकरकुण्डलम् ॥

श्रीवत्सांकं महाबाहुं पीतकौशेयवाससम्

॥५१॥

आतपत्रैर्वृतं मूर्ध्नि संवृतं वृष्णिपुंगवैः ॥

संस्तुतं बंदिमुख्यैश्च गीतवादित्रनिस्वनैः

॥५२॥

पौरजानपदैर्लोकैर्वैष्णवैः सर्वतो वृतम् ॥

पश्यन्तं हंसमिथुनैः सरः सारसशोभितम्

॥५३॥

तं दृष्ट्वाऽच्युतमायांतं लोककांतं मनोहरम् ॥

प्रियं प्रियाश्चिराद्दृष्ट्वा मुमुहुस्ता व्रजांगनाः

॥५४॥

चिराय संज्ञां संप्राप्य विलेपुश्च सुदुःखिताः ॥

हा नाथ कांत हा कृष्ण हा व्रजेश मनोहर

॥५५॥

संवर्धितोऽसि यैर्बाल्ये क्रीडितो वत्सपालकैः ॥

तेऽपि त्वया परित्यक्ताः कथं दुष्टोऽसि निर्घृणः

॥५६॥

न ते धर्मो न सौहार्द्दं न सत्यं सख्यमेव च ॥

पितृमातृपरित्यागी कथं यास्यसि सद्गतिम्

॥५७॥

स्वामिन्भक्तपरित्यागः सर्वशास्त्रेषु गर्हितः ॥

त्यजताऽस्मान्वने वीर धर्मो नावेक्षितस्त्वया

॥५८॥

प्रह्लाद उवाच

श्रुत्वा तासां विलपितं गोपीनां नंद नंदन।

अनन्यशरणाः सर्वा भावज्ञो भगवान्विभुः ॥

सांत्वयामास वचनैर्व्रजेशस्ता व्रजांगनाः

॥५९॥

अध्यात्मशिक्षया गोपीः प्रभुस्ता अन्वशिक्षयत्

॥६०॥

श्रीभगवानुवाच

भवतीनां वियोगो मे न हि सर्वात्मना क्वचित् ॥

वसामि हृदये शश्वद्भूतानामविशेषतः

॥६१॥

अहं सर्वस्य प्रभवो मत्तो देवाः सवासवाः ॥

आदित्या वसवो रुद्राः साध्या विश्वे मरुद्गणाः

॥६२॥

ब्रह्मा रुद्रश्च विष्णुश्च सनकाद्या महर्षयः ॥

इंद्रियाणि मनो बुद्धिस्तथा सत्त्वं रजस्तमः

॥६३॥

कामः क्रोधश्च लोभश्च मोहोऽहंकार एव च ॥

एतत्सर्वमशेषेण मत्तो गोप्यः प्रवर्त्तते

॥६४॥

एतज्ज्ञात्वा महाभागा मा स्म कृध्वं मनः शुचि ॥

सर्वभूतेषु मां नित्यं भावयध्वमकल्मषाः

॥६५॥

प्रह्लाद उवाच

ताः कृष्णवचनं श्रुत्वा गोप्यो विध्वस्तबन्धनाः ॥

विमुक्तसंशयक्लेशा दर्शनानन्दसंप्लुताः ॥

ऊचुश्च गोपवध्वस्ताः कृष्णं निर्मलमानसाः

॥६६॥

गोप्य ऊचुः

अद्य नः सफलं जन्म अद्य नः सफला दृशः ॥

यत्त्वां पश्याम गोविन्द नागरीजनवल्लभम्

॥६७॥

पुण्यहीना न पश्यंति कृष्णाख्यं पुरुषं परम् ॥

वाक्यैर्हेत्वर्थसंयुक्तैर्यदि संबोधिता वयम् ॥

तथापि माया हृदयान्नापैति मधुसूदन

॥६८॥

श्रीकृष्ण उवाच

दर्शनात्स्पर्शनाच्चास्य विमुक्ताऽशेषबन्धनाः ॥

स्नात्वा च सकलान्कामानवाप्स्यथ व्रजांगनाः

॥६९॥

गोप्य ऊचुः

अद्भुतो हि प्रभावस्ते सरसोऽस्य उदाहृतः ॥

विधिं ब्रूहि जगन्नाथ विस्तराद्वृष्णिनन्दन

॥७०॥

श्रीकृष्ण उवाच

भवतीनां मया सार्द्धं सञ्जातमत्र दर्शनम् ॥

तस्मान्मया सदा ह्यत्र स्नातव्यं नियमेन हि

॥७१॥

यः स्नात्वा परया भक्त्या पितॄन्सन्तर्पयिष्यति ॥

श्रावणस्य सिते पक्षे द्वादश्यां नियतः शुचिः

॥७२॥

दत्त्वा दानं स्वशक्त्या च मामुद्दिश्य तथा पितॄन् ॥

लभते वैष्णवं लोकं पितृभिः परिवारितः

॥७३॥

मय तीर्थं समासाद्य कृत्वा च करयोः कुशान् ॥

फलमेकं गृहीत्वा तु मन्त्रेणार्घ्यं प्रदापयेत् !

॥७४॥

गृहान्धकूपे पतितं माया पाशशतैर्वृतम् ॥

मामुद्धर महीनाथ गृहाणार्घ्यं नमोऽस्तु ते

॥७५॥

अर्घ्यमन्त्रः ॥

स्नात्वा यः परया भक्त्या पितॄन्संतर्प्य भावतः ॥

कुर्याच्छ्राद्धं च परया पितृभक्त्या समन्वितः

॥७६॥

दक्षिणां च ततो दद्याद्रजतं रुक्ममेव च ॥

विशेषतः प्रदातव्यं पायसं च सशर्करम्

॥७७॥

नवनीतं घृतं छत्रं कंबलाजिनमेव च ॥

भवतीभिः समं यस्मात्संजातं मम दर्शनम् ॥

आगंतव्यं मया तस्मात्सदा ह्यस्मिञ्जलाशये

॥७८॥

योऽत्र स्नानं प्रकुरुते मयस्य सरसि प्रियाः ॥

गंगास्नानफलं तस्य विष्णुलोकस्तथाऽक्षयः

॥७९॥

मुक्तिं प्रयांति तस्यैव पितरस्त्रिकुलोद्भवाः ॥

पुत्रपौत्रसमायुक्तो धनधान्यसमन्वितः ॥

यावज्जीवं सुखं भुक्त्वा चान्ते हरिपुरं व्रजेत्

॥८०॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्ये मयनिर्मितसरोमाहात्म्यवर्णनंनाम द्वादशोऽध्यायः ॥ १२ ॥