सर्वतोवरेण्यत्ववर्णनम्
ईश्वर उवाच
स्थित्वा द्वादशिजागरे क्रतु समे दुःखापहे पुण्यदे रम्यं भागवतं शृणोति पुरुषः कृत्वा हरेः पूजनम् ॥
पुण्यं वाजिमखस्य कोटिगुणितं संप्राप्य भक्तोत्तमश्छित्त्वा पाशसमूह पक्षनिचयं प्राप्नोति कृष्णालयम्
॥१॥हत्यापापसमूहकोटिनिचयैर्गुर्वंगना- कोटिभिःस्तेयैर्लक्षगुणैर्गुरोर्वधकरैः संवेष्टितो यद्यपि ॥
श्रुत्वा भागवतं छिनत्ति सकलं कृत्वा हरेर्जागरं मुक्तिं याति नरेन्द्र निर्मलवपुर्भित्त्वा रवेर्मंडलम्
॥२॥एकादशी द्वादशिसंप्रविष्टा कृता नभस्ये श्रवणेन युक्ता ॥
विशेषतः सोमसुतेन संगमे करोति मुक्तिं प्रपितामहानाम्
॥३॥यद्दीयते द्वादशिवासरे शुभे विष्णुं समुद्दिश्य तथा पितॄणाम् ॥
पर्य्याप्तमिष्ठैः क्रतुतीर्थदानैर्भक्त्या प्रदत्तं खलु मेरुतुल्यम्
॥४॥महानदीं प्राप्य दिनं च विष्णोस्तोयांजलिं यस्तुपितॄन्ददाति ॥
श्राद्धं कृतं तेन समाः सहस्रं यच्छन्ति कामान्पितरः सुतृप्ताः
॥५॥शरणागतानां परिपालनेन ह्यन्नप्रदानेन शृणुष्व पुत्र ॥
ऋणप्रदाने द्विजदेवतानां तद्वै फलं जागरणेन् विष्णोः
॥६॥यः स्वर्णधेनुं मधुनीरधेनुं कृष्णाजिनं रौप्यसुवर्णमेरु ॥
ब्रह्मांडदानं प्रददाति याति स वै फलं जागरणेन विष्णोः
॥७॥सत्येन शौचेन दमेन यत्फलं क्षमादयादानबलेन षण्मुख ॥
दशाश्वमेधैर्बहुदक्षिणैश्च तेषां फलं जागरणेन विष्णोः
॥८॥स्नानेन यत्प्राप्य नदीं वीरष्ठां यत्पिंडदानेन पितुर्गयायाम् ॥
यद्धेमदानात्कुरुजांगले च तत्स्यात्फलं जागरणेन विष्णोः
॥९॥हत्यायुतानां यदि संचितानिस्तेयानि रुक्मस्य तथामितानि ॥
निहंत्यनेकानि पुराकृतानि श्रीजागरे ये प्रपठंति गीतम्
॥१०॥मार्गं न ते सौरपुरस्य दूतान्वनांतरं षण्मुख किंचिदन्यत् ॥
स्वप्ने न पश्यंति च ते मनुष्या येषां गता जागरणेन निद्रा
॥११॥काषायवस्त्रैश्च जटाभरैश्च पूर्ताग्निहोत्रैः किमु चान्य मन्त्रैः ॥
धर्मार्थकामवरमोक्षकरीं च भद्रामेकां भजस्व कलिकालविनाशिनीं च
॥१२॥इत्युक्तपूर्वं किल नारदेन श्रेयोर्थबुद्ध्या विनतासुताय ॥
कृष्णात्परं नान्यदिहास्ति दैवं व्रतं तदह्नः परमं न किंचित्
॥१३॥भोभोः सुराः शृणुत नारद इत्यवोचद्भोभोः खगेन्द्रऋषिसिद्धमुनीन्द्रसंघाः ॥
उत्क्षिप्य बाहुमथ भक्तजनेन चोक्तं नैकादशीव्रतसमं व्रतमस्ति किंचित्
॥१४॥पक्षीन्द्र पापपुरुषा न हरिं भजंति तद्भक्तिशास्त्रनिरता न कलौ भवंति ॥
कुर्वंति मूढमनसो दशमीविमिश्रामेकादशीं शुभदिनं च परित्यजंति
॥१५॥आर्त्तः सदा चैव सदा च रोगी पापी सदा चैव सदा च दुःखी ॥
सदा कुलघ्नोऽथ सदा च नारकी विद्धं मुरारेर्दिनमाश्रयेत्तु यः
॥१६॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहिताया सप्तमे प्रभासखंडे चतुर्थे द्वारकामाहात्म्ये द्वादशीजागरणस्य सर्वतोवरेण्यत्ववर्णनंनाम सप्तविंशतितमोऽध्यायः ॥ २७ ॥