मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — द्वारकामाहात्म्यम्, अध्याय ३५

3
प्रभासखण्डः · द्वारकामाहात्म्यम् · 35

द्वारकानाममाहात्म्यवर्णनम्

प्रह्लाद उवाच

अहो क्षेत्रस्य माहात्म्यं समंताद्दशयोजनम् ॥

दिविष्ठा यत्र पश्यंति सर्वानेव चतुर्भुजान्

॥१॥

अहो क्षेत्रस्य माहात्म्यं दृष्ट्वा नित्यं चतुर्भुजान् ॥

द्वारकावासिनः सर्वान्नमस्यंति दिवौकसः

॥२॥

अहो क्षेत्रस्य माहात्म्यं सर्वशास्त्रेषु विश्रुतम् ॥

अहो क्षेत्रस्य माहात्म्यं शृण्वंतु ऋषयोऽमलाः

॥३॥

मुक्तिं नेच्छंति यत्रस्थाः कृष्णसेवोत्सुकाः सदा ॥

यत्रत्याश्चैव पाषाणा यत्र क्वापि विमुक्तिदाः

॥४॥

अपि कीट पतंगाद्याः पशवोऽथ सरीसृपाः ॥

विमुक्ताः पापिनः सर्वे द्वारकायाः प्रसादतः ॥

किं पुनर्मानवा नित्यं द्वारकायां वसंति ये

॥५॥

या गतिः सर्वजंतूनां द्वारकापुरवासिनाम् ॥

सा गतिर्दुर्लभा नूनं मुनीनामूर्द्ध्वरेतसाम्

॥६॥

सर्वेषु क्षेत्रतीर्थेषु वसतां वर्षकोटिभिः ॥

तत्फलं निमिषाद्धेंन द्वारकायां दिनेदिने

॥७॥

द्वारकायां स्थिताः सर्वे नरा नार्य्यश्चतुर्भुजाः ॥

द्वारकावासिनः सर्वान्यः पश्येत्कलुषापहान् ॥

सत्यंसत्यं द्विजश्रेष्ठाः कृष्णस्यातिप्रियो भवेत्

॥८॥

द्वारकावासिनो ये वै निंदंति पुरुषाधमाः ॥

कृष्णस्नेहविहीनास्ते पतंति दुःखसागरे

॥९॥

जयंतेन भृशं त्रस्ताः शूलाग्रारोपिताश्चिरम् ॥

कर्षितास्ताडितास्ते वै मूर्च्छिताः पुनरुत्थिताः

॥१०॥

त्राहित्राहि जयंत त्वं वदंतो हि भयातुराः ॥

स्मरंतः पूर्वपापं ते जयंतेन प्रताडिताः

॥११॥

जयंत उवाच

किं कृतं मंदभाग्यैर्वो यत्पापं च सुदारुणम् ॥

सर्वं पुण्यफलं लब्ध्वा द्वारकावासमुत्तमम्

॥१२॥

द्वारकावासिनां निंदा महापापाधिका ध्रुवम् ॥

न निवर्तेत तत्पापं सा ज्ञेया परमेश्वरी

॥१३॥

अतः कृष्णाज्ञया सर्वान्पापिनो दंडयाम्यहम् ॥

वैष्णवानां च निंदायाः फलं भुक्त्वा सुदारुणम्

॥१४॥

ततस्तु द्वारकायां च पुण्यं जन्म भविष्यति ॥

कृष्णं प्रतोष्य संसिद्धिर्भविष्यति सुदुर्ल्लभा

॥१५॥

तस्मात्तद्भुज्यतां पापं जातं वैष्णवनिंदनात् ॥

तत्रत्यानां प्रभुर्नैव यम ईष्टे महेश्वरः

॥१६॥

श्रीप्रह्लाद उवाच

तस्माद्द्वारवतीं गत्वा संसेव्यो देवनायकः

॥१७॥

गोमतीतीरमाश्रित्य द्वारकायां प्रयच्छति ॥

यत्तु किंचिद्धनं विप्राः श्रूयतां तत्फलोदयम्

॥१८॥

हेमभारसहस्रैस्तु रविवारे रविग्रहे ॥

कुरुक्षेत्रे यदाप्नोति गजाश्वरथदानतः

॥१९॥

सहस्रगुणितं तस्मात्सत्यंसत्यं मयोदितम् ॥

हेममाषार्द्धमानेन द्वारकादानयोगतः

॥२०॥

पत्राणां चैव पुष्पाणां नैवेद्यसिक्थसंख्यया ॥

कृष्णदेवस्य पूजायामनंतं भवति द्विजाः

॥२१॥

अन्नदानं तु यः कुर्य्याद्द्वारकायां तु तत्फलम् ॥

नैव शक्नोम्यहं वक्तुं ब्रह्मा शेषमहेश्वरौ

॥२२॥

ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वाऽप्यथ वांऽत्यजः ॥

नारी वा द्वारकायां वै भक्त्या वासं करोति वै

॥२३॥

कुलकोटिं समुद्धृत्य विष्णुलोके महीयते ॥

सत्यंसत्यं द्विजश्रेष्ठा नानृतं मम भाषितम्

॥२४॥

द्वारकावासिनं दृष्ट्वा स्पृष्ट्वा चैव विशेषतः ॥

महापापविनिर्मुक्ताः स्वर्गलोके वसंति ते

॥२५॥

पांसुवो द्वारकाया वै वायुना समुदीरिताः ॥

पापिनां मुक्तिदाः प्रोक्ताः किं पुनर्द्वारका भुवि

॥२६॥

श्रीप्रह्लाद उवाच

श्रूयतां द्विजशार्दूला महामोहविनाशनम् ॥

द्वारकायाश्च माहात्म्यं गोमतीकृष्णसन्निधौ

॥२७॥

कुशावर्त्तात्समारभ्य यावद्वै सागरावधि ॥

यस्यां तिथौ समायाति सिंहे देवपुरोहितः

॥२८॥

तस्यां हि गोमतीस्नानं द्विषङ्गोदावरीफलम् ॥

अवगाहिता प्रयत्नेन सिंहांते गौतमी सकृत्

॥२९॥

गोदावर्य्यां भवेत्पुण्यं वसतो वर्षसंख्यया ॥

तत्फलं समवाप्नोति गोमतीसेवनाद्द्विजाः

॥३०॥

गोमत्यां श्रद्धया स्नानं पूर्णे सिंहस्थिते गुरौ ॥

सहस्रगुणितं तत्स्याद्द्वारवत्यां दिनेदिने

॥३१॥

गच्छगच्छ महाभाग द्वारकामिति यो वदेत् ॥

तस्यावलोकनादेव मुच्यते सर्वपातकैः

॥३२॥

द्वारकेति च यो ब्रूयाद्द्वारकाभिमुखो नरः ॥

कृपया कृष्णदेवस्य मुक्तिभागी भवेद्ध्रुवम्

॥३३॥

द्वारकां गोमतीं पुण्यां रुक्मिणीं कृष्णमेव च ॥

स्मरंति येऽन्वहं भक्त्या द्वारकाफलभागिनः

॥३४॥

सहस्रयोजनस्थानां येषां स्यादिति मानसम् ॥

द्वारवत्यां गमिष्यामो द्रक्ष्यामो द्वारकेश्वरम्

॥३५॥

सर्वपापैः प्रमुच्यंते धन्यास्ते लोकपावनाः ॥

किं वाच्यं द्वारकायात्रां ये प्रकुर्वंति मानवाः ॥

किं पुनर्द्वारकानाथं कृष्णं पश्यंति ये नराः

॥३६॥

मित्रध्रुग्ब्रह्महा गोघ्नः परदारापहारकः ॥

मातृहा पितृहा चैव ब्रह्मस्वापहरस्तथा

॥३७॥

एते चान्ये च पापिष्ठा महापापयुताश्च ये ॥

सर्वपापैः प्रमुच्यंते कृष्णदेवस्य दर्शनात्

॥३८॥

किं वेदैः श्रद्धया हीनैर्व्याख्यानैरपि कृत्स्नशः ॥

हेमभारसहस्रैः किं कुरुक्षेत्रे रविग्रहे

॥३९॥

गजाश्वरथदानैः किं किं मंदिरप्रतिष्ठया ॥

तेषां पूजादिना सम्यगिष्टा पूर्तादिभिश्च किम्

॥४०॥

राजसूयाश्वमेधाद्यैः सर्वयज्ञैश्च किं भवेत् ॥

सेवनैः क्षेत्रतीर्थानां तपोभिर्विविधैस्तु किम्

॥४१॥

किं मोक्षसाधनैः क्लेशैर्ध्यानयोगसमाधिभिः ॥

द्वारकेश्वरकृष्णस्य दर्शनं यस्य जायते

॥४२॥

माहात्म्यं द्वारकायास्तु अथवा यः शृणोति च ॥

विशेषेण तु वैशाख्यां जयंत्याश्चैव जागरे

॥४३॥

माघ्यां च फाल्गुने चैत्रे ज्येष्ठे चैव विशेषतः ॥

अद्यापि द्वारका पुण्या कलावपि विशेषतः

॥४४॥

यस्यां सत्रं प्रपां कृत्वा प्रासादं मंचमेव च ॥

यतीनां शरणं कृत्वा तीरे मंडपमेव च

॥४५॥

वापीकूपतडागानां जीर्णोद्धारमथापि वा ॥

मूर्तिं विष्णोः प्रतिष्ठाप्य दत्त्वा वा भोगसाधनम्

॥४६॥

श्रूयतां तत्फलं विप्राः सर्वोत्कृष्टं वदाम्यहम् ॥

संप्राप्य वांछितान्कामान्कृष्णानुग्रहभाजनम्

॥४७॥

तेजोमयेषु लोकेषु भुक्त्वा भोगाननुक्रमात् ॥

प्राप्नोति विष्णुलोकं वै नरो देवनमस्कृतम्

॥४८॥

स्थापयेद्द्वारकायां वै मूर्तिं दारुशिलामयीम् ॥

त्रैलोक्यं स्थापितं तेन विष्णोः सायुज्यतामियात्

॥४९॥

प्ररोहो नास्ति पापस्य पुण्यस्य वृद्धिरुत्तमा ॥

द्वारकायां कथं जातं वैलक्षण्यमिदं प्रभो ॥

क्षेत्रेभ्यः सर्वतीर्थेभ्य आश्चर्य्यं कथयंति ते

॥५०॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्ये द्वारकानाममाहात्म्यवर्णनंनाम पञ्चविंशोऽध्यायः ॥ ३५ ॥