मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — द्वारकामाहात्म्यम्, अध्याय ३२

3
प्रभासखण्डः · द्वारकामाहात्म्यम् · 32

विष्णुपार्षदवर्णितद्वारकामाहात्म्यवर्णनम्

प्रह्लाद उवाच

नारदस्त्वग्रतो गत्वा प्रणम्याथ हरिप्रियाम् ॥

उवाच ललितां वाचं हर्षयन्द्वारकां पुरीम्

॥१॥

श्रीनारद उवाच

पश्यपश्य महाभागे सर्वे प्राप्ताः सुशोभने ॥

तीर्थक्षेत्राणि देवाश्च ऋषयश्चैव कृत्स्नशः

॥२॥

पश्येमं पुरतः प्राप्तं प्रयागं तीर्थकैः सह ॥

द्वारके तव पादाब्जे लुण्ठंते श्रद्धयाद्भुतम्

॥३॥

इदं तु पुष्करं तीर्थं नमति श्रद्धया शुभे ॥

इयं तु गौतमी पुण्या सर्वतीर्थसमाश्रया

॥४॥

सिंहस्थे च गुरौ भद्रे संप्राप्ता सौभगं महत् ॥

किन्तु दुर्जनसंसर्गाद्दग्धा पापाग्निना भृशम्

॥५॥

तत्रोपायमभिज्ञाय ऋषीणां शृण्वतां तदा ॥

श्रुत्वा कर्णे महच्छब्दं संप्राप्तेयं तवांतिकम्

॥६॥

नमस्करोति देवि त्वां द्वारके गौतमी शुभा ॥

पश्यपश्य महापुण्या इयं भागीरथी शुभा

॥७॥

नमस्करोति ते पादौ संहृष्टा च पुनःपुनः ॥

पश्येमां नर्मदां रम्यां प्रणतां तव पादयोः

॥८॥

यमुना चन्द्रभागेयमियं प्राचीसरस्वती ॥

सरयूर्गंडकी प्राप्ता गोमती पूर्ववाहिनी

॥९॥

शोणः सिन्धुनदी चैता अन्याश्च सरितां वराः ॥

कृष्णा भीमरथी पुण्या कावेर्य्याद्याः सरिद्वराः

॥१०॥

सीताचक्षुर्नदी भद्रा नमंत्येताः पदांबुजम् ॥

द्वारके ता महापुण्याः सप्तद्वीपोद्भवाः पराः

॥११॥

मन्दाकिनी महापुण्या भोगवत्यादिसंयुता ॥

पश्याश्चर्यमिदं भद्रे वाराणसी विमुक्तिदा

॥१२॥

भक्त्या ते च पदांभोजं शिरस्याधाय वर्तते ॥

कुरुक्षेत्रं महापुण्यं नमति त्वामहर्निशम्

॥१३॥

द्वारके मथुरां पश्य प्रणतां तव पादयोः ॥

अयोध्याऽवंतिकामायास्ता नमंति पदांबुजम्

॥१४॥

कांची गया विशाला च विरजा लुठति क्षितौ ॥

शालिग्रामं महाक्षेत्रं पतितं तव पादयोः ॥

विराजते प्रभासं च क्षेत्रं च पुरुषोत्तमम्

॥१५॥

भार्गवादीनि चान्यानि सर्वक्षेत्राणि सुन्दरि ॥

द्वारके प्रणमंति त्वां भक्त्योत्थाय पुनःपुनः

॥१६॥

पश्येमान्सागरान्सप्त पतितस्तांब पादयोः ॥

पश्यारण्यानि सर्वाणि नैमिषं प्रणतं पुरः

॥१७॥

धनुष्कं च दशारण्यं दंडकारण्यमर्बुदम् ॥

नारायणाश्रमं पश्य द्वारके प्रणतं तथा

॥१८॥

अयं मेरुश्च कैलासो मन्दराद्याः सहस्रशः ॥

हिमाद्रिर्विंध्यशैलश्च श्रीशैलाद्याः प्रहर्षिताः ॥

एते ह्यृषिगणाः सर्वे नमंतिस्म पुनःपुनः

॥१९॥

गंगाद्याः सागराः शैला नृत्यंति पुरतस्तव ॥

ऋषिदेवगणाः सर्वे सर्वे गर्जंति नामभिः

॥२०॥

श्रीप्रह्लाद उवाच

इत्येवं वदतस्तस्य द्वारका हृष्टमानसा ॥

नृत्यतो मुदितान्वीक्ष्य सर्वान्प्रेम्णाभिनंद्य च ॥

उवाच ललिता वाचं गौतमीं स्पृश्य पाणिना

॥२१॥

भागीरथीप्रयागादीन्क्षेत्रादीनथ सर्वशः ॥

द्वारका मधुरालापैः सर्वानानंदयत्तदा

॥२२॥

अथाश्चर्यमभूत्तत्र सर्वानंदविवर्द्धनम् ॥

अथ तावत्तदाऽऽकाशे गीतवाद्यजयस्वनाः

॥२३॥

गर्जनानि सुपुण्यानि हरिशब्दैः पृथक्पृथक् ॥

अपश्यन्वै तदा सर्वे ब्रह्माद्या देवनायकाः

॥२४॥

महेशः स्वगणैः सार्द्धं भवान्या समदृश्यत ॥

इन्द्रस्तु त्रिदशैः सार्द्धं यक्षगन्धर्वकिन्नरैः

॥२५॥

मरुद्भिर्लोकपालैश्चा नृत्यमानाः प्रहर्षिताः ॥

सिद्धविद्याधराः सर्वे वस्वादित्याश्च सग्रहाः

॥२६॥

भृग्वाद्याः सनकाद्याश्च नृत्यमानाः प्रहर्षिताः ॥

ब्रह्माणं च नमस्कृत्य सप्तस्वर्गस्थिताः सुराः

॥२७॥

ऊचुस्ते द्वारकां दृष्ट्वा ब्रह्मेशानादयस्तदा ॥

हर्षविह्वलितात्मानो वीक्ष्याऽन्योन्यं च विस्मिताः

॥२८॥

देवा ऊचुः

सेयं वै द्वारका देवी वहते यत्र गोमती ॥

यत्राऽऽस्ते भगवान्कृष्णः सेयं पुण्या विराजते

॥२९॥

सर्वक्षेत्रोत्तमा या च सर्वतीर्थोत्तमोत्तमा ॥

स्वर्गादप्यधिका भूमौ द्वारकेयं प्रकाशते

॥३०॥

एतद्वै चक्रतीर्थं च यच्छिला चक्र चिह्निता ॥

मुक्तिदा पापिनां लोके म्लेच्छदेशेऽपि पूजिता

॥३१॥

प्रह्लाद उवाच

ब्रह्मादीनागतान्दृष्ट्वा विस्मिता नारदादयः ॥

क्षेत्राणि तीर्थमुख्यानि विस्मितानि सरिद्वराः ॥

प्रणेमुर्युगपत्सर्वे सर्वाः सर्वाणि सर्वशः

॥३२॥

ब्रह्मादीनां च तीर्थानां दृष्ट्वा यात्रां मनोहराम् ॥

द्वारकां प्रति विप्रेन्द्रा विस्मिता द्वारकौकसः

॥३३॥

दृष्ट्वा देवगणाः सर्वे द्वारकां प्रति मंदिरे ॥

गीतवाद्यादि निर्घोषैर्नृत्यमानाः प्रहर्षिताः

॥३४॥

वदन्तो जयशब्दांश्च सेयं कृष्णप्रियेति च ॥

दृष्ट्वा ब्रह्ममहेशानौ द्वारकां प्रीतमानसौ

॥३५॥

त्यक्त्वा च वाहने श्रेष्ठे दण्डवत्पतितौ भुवि ॥

ऊचतुश्च तदा देवौ द्वारकां प्रति हर्षितौ

॥३६॥

श्रेष्ठा त्वमम्ब सर्वेभ्योऽस्मदादिभ्योऽपि सर्वतः ॥

यतस्त्वां न त्यजेत्साक्षाद्भगवान्विष्णुरव्ययः

॥३७॥

अतो दर्शय देवेशं कृष्णं कंसविनाशनम् ॥

यद्दर्शनान्महासिद्धिः सर्वेषां च भविष्यति

॥३८॥

प्रह्लाद उवाच

इत्युक्त्वा प्रययौ देवी तीर्थक्षेत्रादिसंयुता ॥

ब्रह्मेशानौ पुरस्कृत्य हृष्टौ दृष्ट्वा महोत्सवान्

॥३९॥

गीतवाद्यपताकैश्च दिव्योपायनपाणिभिः ॥

प्राप्योवाच ततो देवान्द्वारका हर्षविह्वला

॥४०॥

पश्यतां पश्यतां देवाः सोऽयं वै द्वारकेश्वरः ॥

प्राप्य संदर्शनं यस्य मुक्तानां यत्फलं भवेत् ॥

न विद्यते सहस्रेषु ब्रह्मांडेषु च यत्फलम्

॥४१॥

ततो देवगणाः सर्वे क्षेत्रतीर्थादिसंयुताः ॥

पश्चिमाभिमुखं दृष्ट्वा कृष्णं क्लेशविनाशनम् ॥

प्रणेमुर्युगपत्सर्वे प्रहृष्टाः समुपागताः

॥४२॥

गीतवाद्यप्रघोषैश्च नृत्यमानाः समंततः ॥

जयशब्दं नमःशब्दं गर्जंतो हरिनामभिः

॥४३॥

ब्रह्मा भवो भवानी च सेन्द्रा देवगणा भुवि ॥

दृष्ट्वा कृष्णं प्रणेमुस्ते भक्त्योत्थाय पुनःपुनः

॥४४॥

प्रयागादीनि तीर्थानि गंगाद्याः सरितोऽमलाः ॥

ऋषयो देवगंधर्वाः शुकाद्याः सनकादयः ॥

वीक्ष्य वक्त्रं महाविष्णोः प्रणेमुश्च मुहुर्मुहुः

॥४५॥

कृष्णकृष्णेति कृष्णेति जय कृष्णेति वादिनः ॥

स्नात्वा तु गोमतीनीरे तीरे चैव महोदधेः ॥

कमलासनः संहृष्टः श्रीमत्कृष्णमपूजयत्

॥४६॥

स्वर्धेनुपयसा स्नाप्य दिव्यैश्चा मृतपंचकैः ॥

भवश्चाथ भवानी च पूजयामास भक्तितः

॥४७॥

इन्द्रो देवगणाः सर्वे योगिनः सनकादयः ॥

ऋषयो नारदाद्याश्च गंगाद्याश्च सरिद्वराः

॥४८॥

अमूल्याभरणैर्भक्त्या महारत्नविनिर्मितैः ॥

दिव्यैर्माल्यैरनेकैश्च नन्दनादिसमुद्भवैः

॥४९॥

प्रियया श्रीतुलस्या वै श्रीमत्कृष्णमपूजयन् ॥

धूपैर्नीराजनैर्दिव्यैः कर्पूरैश्च पृथक्पृथक्

॥५०॥

नैवेद्यैर्विविधैः पुष्पैर्दिव्यैः कर्पूरवासितैः ॥

सकर्पूरैश्च तांबूलैः प्रियैश्चोपायनैस्तथा ॥

५१ महामांगलिकैः सर्वैः सुदिव्यैर्मंगलाऽऽर्तिकैः ॥

संपूज्यैवं महाविष्णुं कृष्णं क्लेशविनाशनम् ॥

प्रहृष्टा ननृतुः सर्वे गीतवाद्यप्रहर्षिताः

॥५२॥

पुरतः कृष्णदेवस्य ह्यप्सरोभिः समन्विताः ॥

ब्रह्मा च ब्रह्मपुत्राश्च ततः सेन्द्रा मरुद्गणाः

॥५३॥

ब्रह्मादीन्नृत्यतः प्रेक्ष्य भगवान्कमलेक्षणः ॥

वारयामास हस्तेन प्रीतः प्राह सुरान्विभुः

॥५४॥

श्रीभगवानुवाच

भोभो ब्रह्मन्महेशान हे भवानि महेश्वरि ॥

क्षेत्राणि सर्वतीर्थानि नारदः सनकादयः ॥

प्रीतोऽहं भवता सम्यक्सर्वान्कामानवाप्स्यथ

॥५५॥

प्रह्लाद उवाच

तदाभिलषिताँल्लब्ध्वा स र्वान्कामवरानथ ॥

भक्त्या परमया श्रीमत्कृष्णं प्रोचुः प्रहर्षिताः

॥५६॥

देवा ऊचुः

प्राप्तः कामवरोऽस्माभिः सर्वतः कृपया विभो ॥

सप्रेमा त्वत्पदांभोजे भक्तिर्भव्याऽनपायिनी

॥५७॥

प्रह्लाद उवाच

तथैव पूजयामासू रुक्मिणीं कृष्णवल्लभाम् ॥

अथ ब्रह्ममहेशानौ सर्वेषां शृण्व तामिदम्

॥५८॥

श्रद्धया परया युक्तौ द्वारकां प्रत्यवोचतुः ॥

त्वं देवि सर्वतीर्थानां क्षेत्राणामुत्तमोत्तमा

॥५९॥

पर्वतानां यथा मेरुः सिन्धूनां सागरो यथा ॥

प्राणो यथा शरीराणामिन्द्रियाणां तु वै मनः

॥६०॥

तेजस्विनां यथा वह्निस्तत्त्वानां चैत्त्य ईज्यते ॥

यथा ग्रहर्क्षताराणां सोमो वै ज्योतिषां धुवम् ॥

एषां प्रकाशपुंजानां यथा सूर्य्यः प्रकाशते

॥६१॥

यथा नः सर्वदेवानां महाविष्णुरयं महान् ॥

तथैव सर्वतीर्थानां पूज्येयं द्वारका शुभा

॥६२॥

प्रह्लाद उवाच

इत्युक्त्वा सर्वदेवानां क्षेत्रादीनां च सत्तमाः ॥

आधिपत्ये सुरेशानौ द्वारकामभिषेचतुः

॥६३॥

ब्रह्मेशानौ तथा देवाः प्रजेशा ऋषयोऽमलाः ॥

तीर्थानां क्षेत्रराजानां महाराजत्वकारणम्

॥६४॥

चक्रुर्महाभिषेकं तु द्वारकायाः प्रहर्षिताः ॥

वादयन्तो विचित्राणि वादित्राणि महोत्सवे

॥६५॥

दिव्यैः पञ्चामृतैस्तोयैः सर्वतीर्थसमुद्भवैः ॥

पुण्यैश्चाकाशगंगाया दिग्गजानां करोद्धृतैः

॥६६॥

अथ वासांसि दिव्यानि दत्त्वा चाऽऽचमनं तथा ॥

चर्चितां चन्दनैर्दिव्यैर्दिव्याभरणभूषिताम्

॥६७॥

पूजां च चक्रिरे पुष्पैश्चंदनादिसमुद्भवैः ॥

तदा जाता महादिव्या पुरुषाः पार्षदा हरेः

॥६८॥

विष्वक्सेनसुनंदाद्या द्योतयन्तो दिशो दश ॥

जयशब्दं नमःशब्दं वदंतः पुष्पवर्षिणः

॥६९॥

गीतवादित्रघोषेण नृत्यमानाः प्रहर्षिताः ॥

किरीटकुण्डलैर्हारैर्वैजयंत्या विभूषिताः

॥७०॥

श्यामाश्चतुर्भुजाः पीतवस्त्रमाल्यैर्विभूषिताः ॥

स्वप्रभा दीप्यमानौ ते दृष्ट्वा ब्रह्ममहेश्वरौ

॥७१॥

नारदं सनकादींश्च महाभागवतानृषीन् ॥

तेऽपि तानपि संहृष्टाः प्रहर्षागतसंभ्रमाः

॥७२॥

ववंदिरे ततो ऽन्योऽन्यं हृष्टा आलिंगनादिभिः ॥

ऋषयोऽन्ये च देवाश्च प्रणेमुर्विष्णुपार्षदान्

॥७३॥

अथ ते समुपागम्य द्वारकां विष्णुपार्षदाः ॥

नत्वाऽथ द्वारकानाथं द्वारकां वै तथैव च

॥७४॥

संपूज्य श्रद्धया भक्त्या निःश्रेयसवनोद्भवैः ॥

कुसुमैर्विविधैर्दिव्यैस्तुलस्या तद्वनोत्थया

॥७५॥

तदुत्पन्नैः फलैर्दिव्यैर्धूपैर्नीराजनैः प्रभुम् ॥

विविधैश्चान्नतांबूलैर्दत्त्वा कृष्णमतोषयन्

॥७६॥

क्षेत्रतीर्थादिराजानां महाराजस्त्वमीश्वरि ॥

इति सर्वे वदन्तस्तु द्वारकां च ववंदिरे

॥७७॥

एतस्मिन्नंतरे विप्रा देवदुन्दुभिनिस्वनाः ॥

अश्रूयंत महाशब्दा अभवन्पुष्पवृष्टयः

॥७८॥

अथाऽऽसीन्महदाश्चर्य्यं शृण्वन्तु ऋषिसत्तमाः ॥

कुरुक्षेत्रं प्रयागं च सव्यदक्षिणपार्श्वयोः

॥७९॥

स्थित्वा जगृहतुर्द्दिव्ये श्वेतच्छत्रे मनोहरे ॥

द्वारकायस्तथा शुभ्रे चामरव्यजने शुभे

॥८०॥

अयोध्या मथुरा माया वाराणसी जयस्वनैः ॥

स्तुवंत्यन्यास्तथान्यानि सर्वक्षेत्राणि सर्वशः

॥८१॥

तीर्थानि सरितः सर्वा द्वारकाया मुखांबुजम् ॥

पश्यतः परमानंदं लेभिरे देवमानवाः

॥८२॥

आहुश्च पार्षदा विष्णोर्धन्यान्येतानि सर्वशः ॥

दृष्ट्वा तु द्वारकां पुण्यां सर्वलोकैकमण्डनाम्

॥८३॥

वेदयज्ञतपोजाप्यैः सम्यगाराधितो हरिः ॥

प्रसीदेद्यस्य तस्य स्याद्द्वारकागमने मतिः

॥८४॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्ये विष्णुपार्षदवर्णितद्वारकामाहात्म्यवर्णनंनाम द्वात्रिंशत्तमोऽध्यायः ॥ ३२ ॥