मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — द्वारकामाहात्म्यम्, अध्याय ३४

3
प्रभासखण्डः · द्वारकामाहात्म्यम् · 34

दिलीपकृतद्वारकायात्रावर्णनम्

श्रीप्रह्लाद उवाच

एवमद्भुतमाहात्म्यं द्वारकायां मुनीश्वराः ॥

सर्वेषां क्षेत्रतीर्थानां महापापविदारक्म्

॥१॥

वर्णानामश्रमाणां च पतितानां विशेषतः।

महापापहरं प्रोक्तं महापुण्यविवर्द्धनं

॥२॥

अत्युग्रपापराशीनां दाहस्थानं यथा स्मृतम् ॥

द्वारकागमनं विप्राः किं पुनर्द्वारकास्थितिः

॥३॥

विशेषेण तु विप्रेन्द्राः कन्याराशिस्थिते गुरौ ॥

ब्रह्मादयोपि दृश्यंते यत्र तीर्थैश्च संयुताः

॥४॥

प्रतिवर्षं प्रकुर्वंति द्वारकागमनं नराः ॥

तेषां पादरजः स्पृष्ट्वा दिवं यांति च पापिनः

॥५॥

गोमती नीरपूतानां कृष्णवक्त्रावलोकिनाम् ॥

दर्शनात्पातकं तेषां याति जन्मशतार्जितम्

॥६॥

इतिहासेन पूर्वोक्तं श्रूयतां मुनिपुङ्गवाः ॥

दिलीपवसिष्ठ संवादे परमाश्चर्य्यवर्द्धनम्

॥७॥

काश्यां तु वज्रलेपो हि क्षेत्र एकत्र नश्यति ॥

यातुर्दर्शनतः श्रुत्वा दिलीपो वाक्यमब्रवीत्

॥८॥

दिलीप उवाच

वज्रलेपश्च काश्यां तु घोरो यत्र विनश्यति ॥

कृत्स्नशोऽथ महापुण्यं प्राप्यं यत्र तदस्ति किम्

॥९॥

न प्ररोहंति पापानि यस्मिन्क्षेत्रे द्विजोत्तम ॥

तत्क्षेत्रं कथ्यतां पुण्यं यत्र पापं प्रणश्यति

॥१०॥

वसिष्ठ उवाच

आसीत्काश्यां पुरा कश्चित्त्रिदण्डी मोक्षधर्मवित् ॥

जपन्दशाश्वेमेधे तु गायत्रीं च समाहितः

॥११॥

तत्र काचित्समायाता युवती गजगामिनी ॥

तीरे संस्थाप्य वासांसि गंगायाः श्रमशान्तये ॥

प्रविष्टा च जले नग्ना जलक्रीडां चकार ह

॥१२॥

नग्नां तां क्रीडतीं वीक्ष्य यतिर्मदनपूरितः ॥

दैवाग्निभ्रंशितो मार्गात्सहसा च विमोहितः

॥१३॥

मनसा कामयामास साऽपि तं तरुणं यतिम् ॥

तयोश्च संगतिस्तत्र संजाता पापकर्मणोः

॥१४॥

तया विमोहितः सद्यस्तामेवानुससार सः ॥

तत्प्रीत्यै चार्जयामास धनमन्यायतस्तदा

॥१५॥

वाराणस्यां हि न त्यक्तश्चंडालस्य प्रतिग्रहः ॥

स्नानहीनः सदा पापी रात्रौ चौर्य्येण वर्त्तते

॥१६॥

कस्मिंश्चित्समये पापी मांसार्थी तु वनं गतः ॥

ददर्श प्रमदां तत्र मातंगीं मदिरेक्षणाम्

॥१७॥

तस्याः प्रथमतारुण्यं दृष्ट्वा गर्वेण पाप्मना ॥

वनेऽथ निर्जने तत्र मातंगीसंगमेयिवान्

॥१८॥

तया सहान्नपानादि कृतवान्पापमोहितः ॥

अश्नाति सुरया पंकं गोमांसं पापलंपटः

॥१९॥

तद्गृहे निधनं प्राप्तः पापात्मा सर्वभक्षकः ॥

वाराणसीप्रभावेन न प्राप्तो नरकं तदा

॥२०॥

किं तु तत्र कृतं पापं वज्रलेपं सुदारुणम् ॥

शूद्रीसंपर्क पापेन जातोऽसौ क्रूरयोनिषु

॥२१॥

वृको व्याघ्रोरगः श्वानः शृगालः सूकरोऽभवत् ॥

दुरंतां यातनां प्राप्तः शमलेशं न विन्दति

॥२२॥

एवं जन्मसहस्रैस्तु न तस्य पापकर्मणः ॥

मातंग्या संगजं पापं व्यनश्यत युगायुतैः ॥

ततोऽसौ सप्तमे जातः शशकश्चैव जन्मनि ॥

ततोऽसौ राक्षसो जातः पापात्मा सर्वभक्षकः

॥२४॥

प्राणिनो भक्षयन्सर्वान्संप्राप्तो विंध्यपर्वते ॥

अस्मादनन्तरं भाव्यं कृकलासत्वमद्भुतम्

॥२५॥

शूद्रीसंगजपापेन भाव्यं च कृमियोनिना ॥

मातंगीसंगमे प्रोक्तं फलं ह्यतिजुगुप्सितम्

॥२६॥

युगायुतं सहस्रैस्तु भोक्ष्यमाणं सुदारुणम् ॥

अत्याश्चर्य्यमभूत्तत्र दिलीप श्रूयतां महत्

॥२७॥

आलोकितं च विंध्याद्रौ सर्वेषां विस्मयास्पदम् ॥

दृष्ट्वा द्वारावतीं कश्चित्कृष्णवक्त्रं सुशोभनम्

॥२८॥

गोमतीनीरपूतस्तु विंध्यं प्राप्तः स पांथिकः ॥

मात्रां कृष्णप्रसादस्य स्कन्धे कृत्वा प्रहर्षितः

॥२९॥

प्रयास्यन्स्वगृहं तत्र ददर्श पथि राक्षसम् ॥

द्रुतं च क्रूरकर्माणं दृष्ट्वा भक्षितुमागतम्

॥३०॥

तस्य दर्शनमात्रेण वज्रलेपः सुदारुणः ॥

वाराणसीसमुद्भूतो भस्मसादभवत्क्षणात्

॥३१॥

जन्मकोटिशतेनापि यो न शक्यो व्यपोहितुम् ॥

तत्पापपर्वतान्मुक्तः कृष्णपांथिकदर्शनात्

॥३२॥

दग्धेऽथ क्रूरभावे तु घनमुक्तो यथा शशी ॥

रेजे पुण्यप्रकाशेन कृष्णपांथिकदर्शनात्

॥३३॥

ततोऽभिमुखमभ्येत्य द्वारकापथिकं मुदा ॥

ननाम श्रद्धया भूमौ तद्दर्शनमहोत्सवः

॥३४॥

नत्वाऽथ विस्मितः प्राह अहोऽद्य तव दर्शनात् ॥

गतो घोरतमो भावः प्राप्ता संसिद्धिरुत्तमा

॥३५॥

कस्मात्त्वमागतो भद्र प्रभावः कीदृशस्तव ॥

वज्रलेपस्तु काश्यां वै दग्धस्ते दर्शनादनु

॥३६॥

वसिष्ठ उवाच

इत्येवं राक्षसेनोक्तं श्रुत्वा कृष्णस्य पांथिकः ॥

विस्मयं परमापन्नः प्राह तं हर्षमानसः

॥३७॥

पांथिक उवाच

श्रीमद्द्वारवतीं दृष्ट्वा ह्यागतोऽस्म्यत्र राक्षस ॥

वज्रलेपहरोऽस्माकं प्रभावः कृष्णदर्शनात्

॥३८॥

गोमत्यां यः सकृत्स्नात्वा पश्येत्कृष्णमुखांबुजम् ॥

सर्वानुद्धरते पापादपि त्रैलाक्यदाहकात्

॥३९॥

वसिष्ठ उवाच

इत्युक्तो राक्षसो हृष्टः शुद्धात्मा भक्तिसंयुतः ॥

नत्वा प्रदक्षिणं कृत्वा संप्राप्तो द्वारकां तदा

॥४०॥

गोमत्यां स तनुं त्यक्त्वा प्राप्तोऽसौ वैष्णवं पदम् ॥

स्तूयमानः सुरेशानैर्गधर्वैः पुष्पवृष्टिभिः

॥४१॥

इत्थं महाप्रभावो हि द्वारकायाः प्रकीर्त्तितः ॥

न प्ररोहंति पापानि यस्याः पांथिकदर्शनात् ॥

द्वारकायां तु किं वाच्यं न प्ररोहंति पातकम्

॥४२॥

इत्येतत्कथितं राजन्यत्पृष्टोहं त्वयाऽनघ ॥

सर्वक्षेत्रोत्तमं क्षेत्रं वज्रलेपविनाशनम्

॥४३॥

श्रीप्रह्लाद उवाच

वसिष्ठेनोदितं श्रुत्वा दिलीपो हृष्ट मानसः ॥

द्वारकां क्षेत्रराजं तं ज्ञात्वा च विस्मयं ययौ

॥४४॥

ययौ द्वारवतीं हृष्टो देवदेवस्य सादरम् ॥

कृष्णं दृष्ट्वा परां सिद्धिं संप्राप्तो देवमंदिरे

॥४५॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्ये द्वारकापान्थदर्शन मात्रतः काश्यां कृतस्य पापवज्रलेपस्य विनाशने यतिवृत्तान्तवर्णनपूर्वकं दिलीपकृतद्वारकायात्रावर्णनंनाम चतुस्त्रिंशत्तमोऽध्यायः ॥ ३४ ॥