मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — द्वारकामाहात्म्यम्, अध्याय ८

3
प्रभासखण्डः · द्वारकामाहात्म्यम् · 8

मा गच्छध्वं सुरनदीं कालिंदीं मा सरस्वतीम्

प्रह्लाद उवाच

मा गच्छध्वं सुरनदीं कालिंदीं मा सरस्वतीम् ॥

गच्छध्वं च द्विजश्रेष्ठा गोमत्युदधिसंगमे

॥१॥

प्राप्यते हेलया यत्र सर्वे कामा न संशयः ॥

गोमतीजलकल्लोलैः क्रीडते यत्र सागरः

॥२॥

पापघ्नं गोमतीतीरं प्राप्यते पुण्यवन्नरैः ॥

सागरेण च संमिश्रं महापातकनाशनम्

॥३॥

गोमती संगता यत्र सागरेण द्विजोत्तमाः ॥

मुक्तिद्वारं तु तत्प्रोक्तं कलिकाले न संशयः

॥४॥

यत्पुण्यं लभते तूर्णं गंगासागरसंगमे ॥

तत्पुण्यं समवाप्नोति गोमत्युदधिसंगमे

॥५॥

नमस्कृत्य च तोयेशं गोमतीं च सरिद्वराम् ॥

अर्घ्यं दद्याद्विधानेन कृत्वा च करयोः कुशान्

॥६॥

मंत्रेणानेन विप्रेंद्रा दद्यादर्घ्यं विधानतः ॥

ब्राह्मणैः सह संगत्य सदा तत्तीर्थवासिभिः

॥७॥

भक्त्या चार्घ्यं प्रदास्यामि देवाय परमा त्मने ॥

त्राहि मां पापिनं घोरं नमस्ते सुररूपिणे

॥८॥

तीर्थराज नमस्तुभ्यं रत्नाकर महार्णव ॥

गोमत्या सह गोविंद गृहाणार्घ्यं नमोऽस्तु ते

॥९॥

दत्त्वा चार्घ्यं शिखां बद्ध्वा संस्मृत्य जलशायिनम् ॥

कुर्याच्च प्राङ्मुखः स्नानं ततः प्रत्यङ्मुखस्तथा

॥१०॥

स्नात्वा च परया भक्त्या पितॄन्संतर्पयेत्ततः ॥

विश्वेदेवादि संपूज्य पितॄणां श्राद्धमाचरेत्

॥११॥

यथोक्तां दक्षिणां दद्याद्विष्णुर्मे प्रीयतामिति ॥

विशेषतः प्रदातव्यं सुवर्णं विप्रसत्तमाः

॥१२॥

दंपत्योर्वाससी चैव कंचुकोष्णीषमेव च ॥

लक्ष्म्या सह जगन्नाथो विष्णुर्मे प्रीयतामिति

॥१३॥

महादानानि सर्वाणि गोमत्युदधिसंगमे ॥

सप्तद्वीपपतिर्भूत्वा विष्णुलोके महीयते

॥१४॥

यस्तुलापुरुषं दद्याद्गोमत्युदधिसंगमे ॥

सप्तद्वीपपतिर्भूत्वा विष्णुलोके महीयते

॥१५॥

आत्मानं तोलयेद्यस्तु स्वर्णेन रजतेन वा ॥

वस्त्रैर्वा कुंकुमैर्वापि फलैर्वापि तथा रसैः

॥१६॥

भुक्त्वा भोगान्सुविपुलांस्तथा कामान्मनोहरान् ॥

संपूज्यमानस्त्रिदशैर्याति विष्ण्वालयं नरः

॥१७॥

हिरण्यरूप्यदानं च ह्यश्वं धेनुं तथैव च ॥

गोमतीसंगमे दत्त्वा सर्वान्कामानवाप्नुयात्

॥१८॥

भूमिदानं च यो दद्याद्गोमत्युदधिसंगमे ॥

स्नात्वा शुचिर्हरिं स्मृत्वा तस्माद्धन्यतरो नहि

॥१९॥

कन्यादानं च यः कुर्याद्विद्यादानमथापि वा ॥

गोमत्याः संगमे स्नात्वा याति ब्रह्मपदं नरः

॥२०॥

यो दद्यात्स्वर्णधेनुं च घृतधेनुं समाहितः ॥

ब्रह्माण्डदानमपि वा तस्य पुण्यमनंतकम्

॥२१॥

तथा लवणधेनुं च जलधेनुमथापि वा ॥

दत्त्वा याति परं स्थानं गोमत्युदधिसंगमे

॥२२॥

युगादिषु च सर्वेषु गोमत्युदधिसंगमे ॥

स्नात्वा संतर्प्य च पितॄनक्षयं लोकमाप्नुयात्

॥२३॥

आषाढ्यां च तथा माघ्यां कार्तिक्यां संगमे नरः ॥

पितॄणां तर्पणं स्नानं श्राद्धं पावकपूजनम् ॥

कुर्याच्चैव तथा दानं यदीच्छेदक्षयं पदम्

॥२४॥

पितॄणां चाक्षया तृप्तिर्गयाश्राद्धेन वै यथा ॥

तद्वच्छ्राद्धान्महाभाग गोमत्युदधिसंगमे

॥२५॥

कुर्य्यात्स्नानं तथा दानं पितॄणां तर्पणं तथा ॥

पञ्चकासु द्विजश्रेष्ठास्तथा चैवाष्टकासु च

॥२६॥

वैधृतौ च व्यतीपाते छायायां कुंजरस्य च ॥

षष्ठ्यां च कपिलाख्यायां तथा हि द्वादशीषु च

॥२७॥

गोमत्यां संगमे स्नात्वा दद्याद्दानं विशेषतः ॥

निर्मलं स्थानमाप्नोति यत्र गत्वा न शोचति

॥२८॥

श्राद्धपक्षे त्वमावास्यां गोमत्युदधिसंगमे ॥

हेलया प्राप्यते पुण्यं दत्त्वा पिण्डं गयासमम्

॥२९॥

तस्मात्सर्वं प्रयत्नेन त्वमावास्यां द्विजोत्तमाः ॥

श्राद्धं हि पितृपक्षांते कार्य्यं गोमतिसंगमे

॥३०॥

यद्यप्यश्रोत्रियं श्राद्धं यद्यप्युपहतं भवेत् ॥

पक्षश्राद्धकृतं पुण्यं दिनेनैकेन लभ्यते

॥३१॥

श्रद्धाहीनं मन्त्रहीनं पात्रहीनमथापि वा ॥

द्रव्यहीनं कालहीनं मनसः स्वास्थ्यवर्जितम्

॥३२॥

श्राद्धपक्षे ह्यमायां तु गोमत्युदधिसंगमे ॥

परिपूर्णं भवेत्सर्वं पितॄणां तृप्तिरक्षया

॥३३॥

गोमती कमला चैव चंद्रभागा तथैव च ॥

तिस्रस्तु संगता नद्यः प्रविष्टा वरुणालयम्

॥३४॥

गयायां पिंडदानेन प्रयागे ह्यस्थिपातने ॥

तत्पुण्यं समवाप्नोति पक्षांते श्राद्धकृन्नरः

॥३५॥

यदीच्छेत्सर्वतीर्थेषु हेलया त्वभिषेचनम् ॥

स्नानं कुर्वीत भक्त्या वै गोमत्युदधिसंगमे

॥३६॥

पक्षेपक्षे समग्रा तु पितृपूजा कृता च यैः ॥

सम्पूर्णा जायते तेषां गोमत्युदधिसंगमे

॥३१७॥

श्राद्धे कृते त्वमावस्यां पितृपक्षे च वै द्विजाः ॥

अपुत्रा चैव या नारी काकवंध्या च या भवेत्

॥३८॥

मृतपुत्रा तथा विप्राः संगमे स्नानमाचरेत् ॥

दोषैः प्रमुच्यते सर्वैर्गोमप्युदधिसंगमे ॥

स्नात्वा सुखमवाप्नोति प्रजां च चिरजीविनीम्

॥३९॥

यानि कानि च दानानि पृथिव्यां सम्भवंति हि ॥

तानि सर्वाणि देयानि गोमत्युदधिसंगमे

॥४०॥

सर्वदैव च विप्रेन्द्रा विशेषात्सर्वपर्वसु ॥

स्नानं कुर्वीत नियतो गोमत्युदधिसंगमे

॥४१॥

दर्शनादेव पापस्य क्षयो भवति भो द्विजाः ॥

प्रणामे मनसस्तुष्टिर्मुक्तिश्चैवावगाहने

॥४२॥

श्राद्धे कृते पितॄणां तु तृप्तिर्भवति शाश्वती ॥

दाने मनोरथावाप्तिर्जायते नात्र संशयः

॥४३॥

कृतकृत्यास्तु ते धन्या यैः कृतं पितृतर्पणम् ॥

श्राद्धं च ऋषिशार्दूला गोमत्युदधिसंगमे

॥४४॥

पितृपक्षे च वै केचिन्मातृपक्षे तथैव च ॥

तथा श्वशुरपक्षे च ये चान्ये मित्रबांधवाः

॥४५॥

स्थावरत्वं गता ये च पुद्गलत्वं च ये गताः ॥

पिशाचत्वं गता ये च ये च प्रेतत्वमागताः

॥४६॥

तिर्य्यग्योनिगता ये च ये च कीटत्वमागताः ॥

स्नानमात्रेण ते सर्वे मुक्तिं यांति न संशयः

॥४७॥

किं पुनः श्राद्धदानादि गोमतीसंगमे तथा ॥

कृत्वा मुक्तिमवाप्नोति मानवो नात्र संशयः

॥४८॥

श्रवणद्वादशीयोगे गोमत्युदधिसंगमे ॥

स्नात्वा मुक्तिमवाप्नोति यत्र गत्वा न शोचति

॥४९॥

सन्त्यज्य सर्वतीर्थानि गोमत्युदधिसंगमे ॥

स्नानं कृत्वा तथा श्राद्धं कृतकृत्यो भवेन्नरः ॥

परं लोकमवाप्नोति ह्यर्चयित्वा तु वामनम्

॥५०॥

सम्यक्स्नात्वा नरो यस्तु पूजयेद्गरुडध्वजम् ॥

पीतांबरधरो भूत्वा दिव्याभरणभूषितः

॥५१॥

वीक्ष्यमाणः सुरस्त्रीभिर्नागारिकृतकेतनः ॥

चतुर्भुजधरो भूत्वा वनमालाविभूषितः ॥

संस्तूयमानो मुनिभिर्याति विष्ण्वालयं नरः

॥५२॥

गोमतीसंगमे स्नात्वा कृतकृत्यो भवेन्नरः ॥

यत्र दैत्यवधं कृत्वा विष्णुना प्रभविष्णुना

॥५३॥

चक्रं प्रक्षालितं पूर्वं कृष्णेन स्वयमेव हि ॥

तेनैव चक्रतीर्थं हि ख्यातं लोकत्रये द्विजाः

॥५४॥

भवंति यत्र पाषाणाश्चक्रांका मुक्तिदायकाः ॥

यैः पूजितैर्जगन्नाथः कृष्णः सांनिध्यमाव्रजेत्

॥५५॥

तत्रैव यदि लभ्येत चक्रैर्द्वादशभिः सह

॥५६॥

द्वादशात्मा स विज्ञेयो मोक्षदः सर्वदेहिनाम् ॥

एकचक्रांकितो यस्तु द्वारवत्यां सुशोभनः

॥५७॥

सुदर्शनाभिधानोऽसौ मोक्षैकफलदो हि सः ॥

लक्ष्मीनारायणो द्वाभ्यां भुक्तिमुक्तिफलप्रदः

॥५८॥

त्रिभिस्त्रिविक्रमश्चैव त्रिवर्गफलदायकः ॥

श्रीप्रदो रिपुहन्ता च चतुर्भिः संयुतः स हि

॥५९॥

पञ्चभिर्वासुदेवस्तु जन्ममृत्युभयापहः ॥

प्रद्युम्नः षड्भिरेवासौ लक्ष्मीं कांतिं ददाति यः

॥६०॥

सप्तभिर्बलभद्रश्च चक्रगोऽत्र प्रकीर्तितः ॥

लाच्छितश्चाष्टभिर्भक्तिं ददाति पुरुषोत्तमः

॥६१॥

सर्वं दद्यान्नवव्यूहो दुर्लभो यः सुरैरपि ॥

दशावतारो दशमी राज्यदो नात्र संशयः

॥६२॥

एकादशभिरैश्वर्यं चक्रगः संप्रयच्छति ॥

निर्वाणं द्वादशात्मा च द्वादशभिर्ददाति च

॥६३॥

अत ऊर्ध्वं महाभागाः सौख्यमोक्षप्रदायकाः ॥

यतोऽत्र ते च पाषाणाः कृष्णचक्रेण चित्रिताः

॥६४॥

तेषां स्पर्शनमात्रेण मुच्यते सर्वकिल्बिषैः ॥

चक्रतीर्थे नरः स्नात्वा कृष्णचक्रेण चिह्नितः

॥६५॥

पूजयित्वा चक्रधरं हरिं ध्यायेत्सनातनम् ॥

नापुत्रो नाधनो रोगी न स संजायते नरः

॥६६॥

ब्रह्महत्यादिकं पापं मनोवाक्कायकर्मजम् ॥

तत्सर्वं विलयं याति सकृच्चक्रांकदर्शनात्

॥६७॥

म्लेच्छ देशे शुभे वापि चक्रांको दृश्यते यदि ॥

तत्र चैव हरिक्षेत्रं मुक्तिदं नात्र संशयः

॥६८॥

मृत्युकालेऽपि सम्प्राप्ते यदि ध्यायेद्धरिं नरः ॥

चक्रांकं धारयेदंगे स याति परमं पदम्

॥६९॥

हृदयस्थे च चक्रांके पूतो भवति तत्क्षणात् ॥

नोपसर्पंति तं भीता दूताः कृष्णायुधं तदा ॥

वैष्णवं लोकमा प्नोति नात्र कार्या विचारणा

॥७०॥

अपि पापसमाचारः किं पुनर्धार्मिकः शुचिः ॥

गोमती संगमे स्नात्वा चक्रतीर्थे तथैव च ॥

मुच्यते पातकैर्घोरै र्मानवो नात्र संशयः

॥७१॥

राजसाः सत्त्वमायांति विष्णुधर्मं सनातनम् ॥

क्षेत्रस्य तस्य माहात्म्यात्सत्यमेतत्प्रकीर्तितम्

॥७२॥

तामसं राजसं चापि यत्किञ्चिद्विष्णुपूजने ॥

तच्च सत्त्वत्वमायाति निम्नगा च यथार्णवे

॥७३॥

दुर्लभा द्वारका विप्र दुर्लभं गोमतीजलम् ॥

दुर्लभं जागरो रात्रौ दुर्लभं कृष्णदर्शनम्

॥७४॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्ये गोमत्युदधि संगमस्नानादिमाहात्म्यपूर्वक चक्रतीर्थमाहात्म्यवर्णनंनामाष्टमोऽध्यायः ॥ ८ ॥