मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — द्वारकामाहात्म्यम्, अध्याय १०

3
प्रभासखण्डः · द्वारकामाहात्म्यम् · 10

तीर्थमाहात्म्यवर्णनम्

प्रह्लाद उवाच

ततो गच्छेद्द्विजश्रेष्ठास्तीर्थं पापप्रणाशनम् ॥

कृकलासमिति ख्यातं नृगतीर्थमनुत्तमम्

॥१॥

नृगो यत्र महीपालः कृकलासवपुर्धरः ॥

कृष्णेन सह संगत्य संप्राप परमां गतिम्

॥२॥

; ॥

ऋषय ऊचुः ॥

नृगो नाम नृपः कोऽयं कथं कृष्णेन संगतः ॥

कर्मणा कृकलासत्वं केन तद्वद विस्तरात्

॥३॥

प्रह्लाद उवाच

नृगो नाम नृपो विप्राः सार्वभौमो बलान्वितः ॥

बुद्धिमान्धृतिमान्दक्षः श्रीमान्सर्वगुणान्वितः

॥४॥

अनेकशतसाहस्रा भूमिपा अपि तद्वशाः ॥

हस्त्यश्वरथसंघैश्च पत्तिभिर्बहुभिर्वृतः

॥५॥

सैन्यं च तस्य नृपतेः कोशं चैवाक्षयं तथा ॥

स नित्यं गुरुभक्तश्च देवताराधने रतः

॥६॥

महा दानानि विप्रेन्द्रा ददात्यनुदिनं नृपः ॥

शश्वत्स गोसहस्रं तु ददाति नृपसत्तमः

॥७॥

प्रक्षाल्य चरणौ भक्त्या ह्युपविश्यासने शुभे ॥

परिधाप्य शुभे क्षौमे सुगन्धेनोपलिप्य च

॥८॥

संपूज्य पुष्पमालाभि धूपेन च सुगन्धिना ॥

ददौ दक्षिणया सार्द्धं प्रतिविप्राय गां तदा ॥

तांबूलसहितां भक्त्या विष्णुर्मे प्रीयतामिति

॥९॥

एवं प्रददतस्तस्य यजतश्च तथा मखैः ॥

ययौ कालो द्विजश्रेष्ठा भोगांश्चैवानुभुञ्जतः

॥१०॥

एकदा तु द्विजश्रेष्ठं जैमिनिं संशितव्रतम् ॥

श्रद्धया तं च नृपतिः प्रतिग्रहपराङ्मुखम् ॥

उवाच वाक्यं नृपतिः कृतांजलिपुटः स्थितः

॥११॥

मामुद्धर महाभाग कृपां कुरु तपोनिधे ॥

गृहाण गां मया दत्तां दयां कृत्वा ममोपरि

॥१२॥

तच्छ्रुत्वा वचनं तस्य अनिच्छन्नपि गौरवात् ॥

नृपस्य चाब्रवीद्विप्र एवमस्त्विति लज्जितः

॥१३॥

अवनिज्य ततः पादौ शिरसा धारयज्जलम् ॥

सुवर्णशृंगसहितां रौप्यखुरविभूषिताम्

॥१४॥

रत्नपुच्छां कांस्यदोहां सितवस्त्रावगुंठिताम् ॥

समभ्यर्च्य च विप्रेन्द्रं ददौ दक्षिणयान्विताम्

॥१५॥

आसीमान्तमनुव्रज्य हृष्टो राजा बभूव ह ॥

तरुणीं हंसवर्णां च हंसीनामेति विश्रुताम्

॥१६॥

गां गृह्य स्वगृहं प्राप्तो दाम्ना बद्धां सवत्सकाम् ॥

स तस्यै यवसं चार्द्रं ददौ ब्राह्मणसत्तमः

॥१७॥

सुतृप्ता यवसेनैव मध्याह्ने तृषितां तदा ॥

गृहीत्वा निर्ययौ विप्रो दामबद्धां जलाशयम्

॥१८॥

मार्गे गजाश्वसंबाधे त्रस्ता सा उष्ट्रदर्शनात् ॥

हस्तादाच्छिद्य सा धेनुर्ब्राह्मणस्य ययौ तदा

॥१९॥

विचिन्वन्सकलामुर्वीं नापश्यत्तां द्विजर्षभः ॥

सा ययौ विद्रुता धेनुस्तन्महद्राजगोधनम्

॥२०॥

द्वितीयेऽह्नि पुनर्विप्रमाहूय नृपसत्तमः ॥

संपूज्य विधिवद्भक्त्या वस्त्रालंकारभूषणैः

॥२१॥

विधिवद्गां ददौ तां च स नृपः सोमशर्मणे ॥

गृहीत्वा राजभवनान्निर्ययौ गां द्विजर्षभः

॥२२॥

आशंसमानो राजानं धर्मज्ञमिति कोविदम् ॥

स च विप्रो विचिन्वानः सर्वतो गां सुदुःखितः

॥२३॥

ददर्श पथि गच्छन्तीं पृष्ठतः सोमशर्मणः ॥

दृष्ट्वा तां गां च स मुनिर्जैमिनिस्तमभाषत

॥२४॥

मम गां चापि हृत्वा त्वं नयसे दस्युवत्कथम् ॥

स तस्य वचनं श्रुत्वा विस्मयं दस्युकीर्त्तनात्

॥२५॥

राजतो हि मया लब्धां गां नयामि स्वमन्दिरम् ॥

गोहर्त्तेति च मां कस्माद्ब्रवीषि द्विजसत्तम

॥२६॥

ब्राह्मण उवाच

मयापि राजतो लब्धा ममेयं गौर्न संशयः ॥

कथं नयसि विप्र त्वं मयि जीवति मन्दिरम्

॥२७॥

सोऽब्रवीदद्य मे लब्धा कथं मां वदसे मृषा ॥

सोऽब्रवीद्ध्यो मया लब्धा बलान्नेतुं त्वमिच्छसि

॥२८॥

ममेयमिति संक्रुद्धः सोमशर्माऽब्रवीद्वचः ॥

प्रज्वलत्क्रोधरक्ताक्षो ममेयमिति सोऽपरः

॥२९॥

विवदतौ तथा विप्रौ राजद्वारमुपागतौ ॥

कुर्वाणौ कलहं घोरं त्यक्तुकामौ स्वजीवितम्

॥३०॥

संक्रुद्धौ ब्राह्मणौ दृष्ट्वा शपन्तौ तौ परस्परम् ॥

राज्ञे निवेदयामास द्वास्थं प्रणयपूर्वकम्

॥३१॥

अवज्ञाय तदा विप्रौ विवदन्तौ रुषान्वितौ ॥

कामव्याकुलचेतस्को न बहिर्निःसृतो नृपः

॥३२॥

एवं विवदमानौ तौ त्रिरात्रं समुपस्थितौ ॥

अवज्ञातौ नृपेणाथ राजानं प्रति च क्रुधा

॥३३॥

ऊचतुः कुपितो वाक्यं सामर्षौ नृपतिं प्रति ॥

अवमन्यसे नौ यस्मात्त्वं न निर्गच्छसि मन्दिरात्

॥३४॥

शास्ता भवान्प्रजानां हि न न्यायेन नियोक्ष्यति ॥

भविष्यति भवांस्तस्मात्कृकलासो न संशयः

॥३५॥

एवं शप्त्वा तदा विप्रावन्यस्मै गां प्रदाय तौ ॥

क्षुधितौ खेदसंयुक्तौ स्वगृहं गन्तुमुद्यतौ

॥३६॥

प्रस्थितौ तौ नृगो द्वार आगत्य समुपस्थितः ॥

दंडवत्प्रणिपत्याऽऽशु कृतांजलिरभाषत

॥३७॥

अमोघवचना यूयं तत्तथा न तदन्यथा ॥

ममोपरि कृपां कृत्वा शापांत उपदिश्यताम्

॥३८॥

तस्य तद्वचनं श्रुत्वा ऊचतुर्वचनं नृपम् ॥

द्वापरस्य युगस्यान्तं भगवान्देवकीसुतः

॥३९॥

वसुदेवगृहे राजन्हरिराविर्भविष्यति ॥

तस्य संस्पर्शनादेव शापमुक्तिर्भविष्यति

॥४०॥

इत्युक्त्वा तौ तदा विप्रौ प्रयातौ स्वनिवेशनम् ॥

राजा बहुविधान्भोगान्भुक्त्वा दत्त्वा च भूरिशः

॥४१॥

इष्ट्वा च विविधैर्यज्ञैः कालधर्ममुपेयिवान् ॥

ततः स गतवान्विप्रा धर्मराजनिवेशनम्

॥४२॥

सत्कृत्योक्तो यमेनाथ स्वागतेन नृपोत्तमः ॥

प्रथमं सुकृतं राजन्नथवा दुष्कृतं त्वया ॥

भोक्तव्यमिति मे ब्रूहि तत्ते संपाद्यते मया

॥४३॥

नृग उवाच

यद्यस्ति दुष्कृतं किंचित्प्रथमं प्रतिपादय ॥

अनुज्ञातो यमेनैवं कृकलासो भवेति वै ॥

ततो वर्षसहस्राणि कृकलासत्वमाप्तवान्

॥४४॥

एकस्मिन्दिवसे विप्राः सर्वे यदुकुमारकाः ॥

वनं जग्मुर्मृगान्हन्तुं सर्वे कृष्णसमन्विताः

॥४५॥

तृषार्द्दिताश्च मध्याह्ने विचिन्वंतो जलं ह्रदे ॥

सत्वं च सुमहत्तत्र कृकलासं च संस्थितम्

॥४६॥

चक्रुश्चोद्धरणे तस्य यत्नं यदुकुमारकाः ॥

आकृष्यमाणः स तदा गुरुत्वान्न चचाल ह

॥४७॥

यदा न शेकुस्ते सर्व आचख्युः कृष्णरामयोः ॥

ददर्श तं तदा कृष्णो नृगं मत्वा हसन्निव

॥४८॥

चिक्षेप वामहस्तेन लीलयैव जगत्पतिः ॥

स संस्पृष्टो भगवता विमुक्तः शापबंधनात्

॥४९॥

त्यक्त्वा कलेवरं राजा दिव्यमाल्यानुलेपनः ॥

कृतांजलिरुवाचेदं भक्त्या परमया युतः

॥५०॥

नमस्ते जगदाधार सर्गस्थित्यंतकारिणे ॥

सहस्रशिरसे तुभ्यं ब्रह्मणेऽनंतशक्तये

॥५१॥

एवं संस्तुवतः प्राह भगवान्देवकीसुतः ॥

ददामि ते वरं तुष्टो यत्ते मनसि वर्त्तते

॥५२॥

याहि पुण्यकृताँल्लोकान्दर्शनात्स्पर्शनाच्च मे ॥

एवमुक्तः स देवेन संप्रहृष्टतनूरुहः

॥५३॥

उवाच यदि तुष्टोऽसि यदि देयो वरो मम ॥

गर्त्तेयं मम नाम्ना तु ख्यातिं गच्छतु केशव

॥५४॥

यः स्नात्वा परया भक्त्या पितॄन्संतर्पयिष्यति ॥

त्वत्प्रसादेन गोविंद विष्णुलोकं स गच्छतु

॥५५॥

एवमुक्त्वा स भगवान्पुनर्द्वारावतीमगात्

॥५६॥

स च राजा विमानेन दिव्यमाल्यानुलेपनः ॥

जगाम भवनं विष्णोर्विबुधैरनुसंस्तुतः

॥५७॥

प्रह्लाद उवाच

तदाप्रभृति विप्रेंद्राः स कूपो नृगसंज्ञया ॥

वरदानाच्च कृष्णस्य पावनः सर्वदेहिनाम्

॥५८॥

तत्र गत्वा द्विजश्रेष्ठा ह्यर्घ्यं दद्याद्यथाविधि ॥

फलपुष्पाक्षतैर्युक्तं चंदनेन च भूसुराः

॥५९॥

नमस्ते विश्वरूपाय विष्णवे परमात्मने ॥

अर्घ्यं गृहाण देवेश कूपेऽस्मिन्नृगसंज्ञके

॥६०॥

ततः स्नायाद्द्विजश्रेष्ठा मृदमालिप्य पाणिना ॥

संतर्पयेत्पितॄन्देवान्मनुष्यांश्च यथाक्रमात्

॥६१॥

ततः श्राद्धं प्रकुर्वीत पितॄणां श्रद्धयान्वितः ॥

विप्रेभ्यो भोजनं दद्याद्दक्षिणां च स्वशक्तितः

॥६२॥

विशेषतः प्रदातव्या सवत्सा गौः स्वलंकृता ॥

शय्या सोपस्करां दद्याद्विष्णुर्मे प्रीयतामिति

॥६३॥

दीनांधकृपणानां च सदा तत्तीरवासिनाम् ॥

दद्याद्दानं स्वशक्त्या च वित्त शाठ्यविवर्जितः

॥६४॥

स्नानमात्रेण विप्रेन्द्रा लभेद्गोदानजं फलम् ॥

पितृणां श्राद्धदानेन वियोनिं न च गच्छति

॥६५॥

कृकलासे कृतं श्राद्धं येनैव तर्पणं तथा ॥

स गच्छेद्विष्णुलोकं तु पितृभिः सहितो नरः

॥६६॥

तथा मनोरथावाप्तिर्यात्रा च सफला भवेत् ॥

सर्वतीर्थफलावाप्तिं लभते नात्र संशयः

॥६७॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्ये कृकलासापरनामकनृग तीर्थमाहात्म्यवर्णनंनाम दशमोऽध्यायः ॥ १० ॥