मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — द्वारकामाहात्म्यम्, अध्याय १४

3
प्रभासखण्डः · द्वारकामाहात्म्यम् · 14

पञ्चनदतीर्थमाहात्म्यवर्णनम्

श्रीप्रह्राद उवाच

संत्यनेकानि तीर्थानि बह्वाश्चर्यकराणि च ॥

प्राप्ते कलियुगे घोरे तानि पुप्लुविरेर्णवे

॥१॥

उद्देशतो मया विप्राः कीर्त्यमाना निबोधत ॥

संक्षेपतो विप्रवरा यथा तेषां च याः क्रियाः

॥२॥

संहृत्य च भुवो भारं साधू न्संस्थाप्य सत्पथे ॥

द्वारवत्यामगात्कृष्णो वृष्णिसंघैः समावृतः

॥३॥

दर्शनार्थं तदा ब्रह्मा दैवतैः परिवारितः ॥

वरुणो यमवित्तेशौ सूर्य्याचन्द्रमसौ तथा

॥४॥

आगत्य सह कृष्णेन कार्यं संसाध्य चात्मनः ॥

वेधाश्चक्रे तदा तीर्थं स्वनाम्ना कीर्तितं भुवि

॥५॥

ब्रह्मकुण्डमिति ख्यातं सर्वपापहरं शुभम् ॥

तत्तीरे स्थापयामास सहस्रकिरणं प्रभुम्

॥६॥

मूलं सुराणां हि किल ब्रह्मा लोकपितामहः ॥

तेन संस्थापितं यस्मान्मूल स्थानमिति स्मृतम्

॥७॥

ब्रह्मतीर्थं तु तद्दृष्ट्वा चन्द्रश्चक्रे ततः सरः ॥

तडागं चन्द्रनाम्ना वै सर्वपापप्रणाशनम्

॥८॥

तं दृष्ट्वा तेजसा युक्तं संहृष्टाः सुरसत्तमाः ॥

ऊचुस्ते लोकस्रष्टारं शृणुष्व वचनं हि नः

॥९॥

योऽत्र स्नानं प्रकुरुते पितॄन्संतर्पयिष्यति ॥

पूजयिष्यति देवेशं मूलस्थानं सुरर्षभ

॥१०॥

सर्वपापविनिर्मुक्तो धनधान्यसमन्वितः ॥

सप्तम्यां माघमासस्य शुक्लपक्षे द्विजर्षभाः ॥

योऽत्र स्नानं प्रकुरुते मानवो भक्तिसंयुतः

॥११॥

मूलस्थानं च देवेश संस्नाप्य प्रविलेपयेत् ॥

पूजयिष्यति वस्त्राद्यैः स्वशक्त्या भूषणैस्तथा

॥१२॥

पुष्पधूपादिभिश्चैव नैवेद्येन च मानवः ॥

सर्वान्कामानवाप्नोति ब्रह्मलोकं स गच्छति

॥१३॥

सावित्रीं च ततो दृष्ट्वा ब्रह्मणा स्थापितां च वै ॥

कृत्वा चायतनं दिव्यं स्वां मूर्तिं सन्निवेश्य च ॥

नाम चक्रे तदा देव्याः स्वयं तस्याः पितामहः

॥१४॥

यः पश्यति स्वयं भक्त्या कृष्णं दृष्ट्वा जगत्पतिम् ॥

सावित्रीं स सुखी भूत्वा सर्वान्कामानवाप्नुयात्

॥१५॥

आयुरारोग्यमैश्वर्य्यं पुत्रसन्तानमेव च ॥

न दौर्भाग्यं भवेत्तस्य न दारिद्यं न मूर्खता ॥

न च व्याधिभयं तस्य यः पश्यति विधिं नरः

॥१६॥

गत्वा संस्नापयेद्देवीं कुंकुमेन कुसुंभकैः ॥

संछाद्य वस्त्रैः संपूज्य पुष्पैर्नानाविधै स्तथा

॥१७॥

नैवेद्यफलतांबूलग्रीवासूत्रकदीपकैः ॥

संपूज्य परया भक्त्या यात्रां च सफला लभेत्

॥१८॥

न वैधव्यं न दौर्भाग्यं न वंध्या न मृतप्रजा ॥

विधिर्दृष्टो नरैर्यैस्तु कुले तेषां प्रजायते

॥१९॥

तस्मात्सर्वप्रयत्नेन विधिं पश्येत्सुभावतः ॥

परितुष्टो भवेत्कृष्णो यात्रा च सफला भवेत्

॥२०॥

प्रह्लाद उवाच

ब्रह्मणा स्थापितं दृष्ट्वा सरः परमशोभनम् ॥

इन्द्रश्चक्रे महाभागः सरः परमशोभनम्

॥२१॥

स्थापयामास देवेशो लिंगमप्रतिमौजसम् ॥

तस्मिन्स्नात्वा च लभते यस्मादिन्द्रपदं नरः

॥२२॥

तस्मादिन्द्रपदं नाम सुप्रसिद्धं धरातले ॥

इन्द्रेण स्थापितं लिंगं यस्माद्भावनया सह ॥

प्रसिद्धमिंद्रनाम्ना वा इन्द्रेश्वरमिति स्मृतम्

॥२३॥

यस्य प्रसिद्धिरतुला वृद्धिलिंगमिति द्विजाः ॥

यस्य दर्शनमात्रेण मुच्यते सर्वपातकैः

॥२४॥

पितॄणामक्षया तृप्तिर्जायते द्विजसत्तमाः ॥

अष्टम्यां च चतुर्द्दश्यां स्नात्वा चेन्द्रपदे नरः

॥२५॥

इन्द्रेश्वरं च संपूज्य याति मुक्तिपदं नरः ॥

विशेषतस्तु संपूज्यो मकरस्थे दिवाकरे

॥२६॥

उत्तरायणसंक्रांतौ लिंगपूरणकेन हि ॥

शिवरात्रौ विशेषेण संपूज्य उमया सह ॥

रात्रौ जागरणं कृत्वा परमं लोकमाप्नुयात्

॥२७॥

प्रह्लाद उवाच

ब्रह्मतीर्थं च तद्दृष्ट्वा तथा शक्रसरोभवम् ॥

दर्शयन्विष्णुना सार्द्धमेकरूपत्वमाप्नुयात्

॥२८॥

सरश्चकार देवेशो भगवान्पार्वतीपतिः ॥

सुमृष्टनिर्मलजलं नलिनीदलशोभितम्

॥२९॥

उत्पलैः सर्वतश्छन्नं सरः सारसशोभितम् ॥

तदगाधजलं दृष्ट्वा स्वयमेव पिनाकधृक् ॥

सब्रह्मविष्णुना सार्द्धं स्नातस्तत्र वृषध्वजः

॥३०॥

ते देवास्तत्सरो दृष्ट्वा ब्रह्मविष्णुसुराऽसुराः ॥

ऊचुः सर्वे सुसंहृष्टा वीक्षंतः पार्वतीपतिम्

॥३१॥

यस्मात्कृतमिदं देवा ईश्वरेण महत्सरः ॥

महादेव सरोनाम सुप्रसिद्धं भविष्यति

॥३२॥

योऽत्र स्नानं प्रकुरुते पितॄणां तर्पणं तथा ॥

श्राद्धं पितॄणां भक्त्या च स गच्छेत्परमां गतिम्

॥३३॥

सुप्रसन्ना भविष्यन्ति सर्वे देवा न संशयः ॥

दर्शनात्पापनिर्मुक्तो महादेवसरस्य च

॥३४॥

महेशस्य च तद्दृष्ट्वा सरः परमशोभनम् ॥

चकार पार्वती तत्र सरश्चाप्रतिमं तथा

॥३५॥

गौरीसर इति ख्यातं सर्वपापप्रणाशनम् ॥

तत्र स्नात्वा नरो भक्त्या न दुर्गतिमवाप्नुयात्

॥३६॥

न दौर्भाग्यं स्त्रियश्चैव न वैधव्यं कदाचन ॥

स्नात्वा गौरीतीर्थवरे सर्वान्कामानवाप्नुयात्

॥३७॥

वरुणश्च ततो दृष्ट्वा पुण्यान्यायतनानि च ॥

चकार च सरो दिव्यं विष्णुभक्तिसमन्वितः

॥३८॥

नाम्ना वरुणपदं तच्च पापक्षयकरं भुवि ॥

नभस्ये पौर्णमास्यां च संतर्प्य पितृदेवताः

॥३९॥

श्राद्धं कृत्वा विधानेन पितॄणां श्रद्धयान्वितः ॥

उत्तमं लोकमाप्नोति यत्र गत्वा न शोचति

॥४०॥

प्रदद्यादुदकुम्भांश्च दध्योदनसमन्वितान् ॥

गाश्च वासांसि रत्नानि विष्णुर्मे प्रीयतामिति

॥४१॥

सरो दृष्ट्वा जलेशस्य सरश्चक्रे धनेश्वरः ॥

यक्षाधिपसरोनाम सुप्रसिद्धं धरातले

॥४२॥

तथा तत्र नरो भक्त्या संपूज्य पितृदेवताः ॥

सर्वान्कामानवाप्नोति दद्याद्वस्त्रद्विजातये

॥४३॥

प्रह्लाद उवाच

विष्णुं वरप्रदं श्रुत्वा भ्रातॄणां ब्रह्मनंदनाः ॥

मंदाकिनी वसिष्ठेन समानीता धरातले

॥४४॥

अम्बरीषादयः सर्व आजग्मुः कृष्णपालिताम् ॥

द्वारवत्यां च ते दृष्ट्वा गोमतीं सागरंगमाम्

॥४५॥

तीर्थानि देवतानां च पुण्यान्यायतनानि च ॥

तीर्थं पंचनदं चक्रुः प्रजानां पतयस्तथा

॥४६॥

पंच नद्यः समाहूतास्तत्राऽऽजग्मुः सुरान्विताः ॥

मरीचये गोमती च लक्ष्मणा चात्रये तथा

॥४७॥

चंद्रभागा चांगिरसे पुलहाय कुशावती ॥

पावनार्थं जांबवती जगाम क्रतवे तथा

॥४८॥

तासु स्नात्वा महाभागा ब्रह्मपुत्रा यशस्विनः ॥

नाम तस्य तदा चक्रुः पंचनद्यश्च तापसाः

॥४९॥

तस्मात्पंचनदं तीर्थं सर्वपापप्रणाशनम् ॥

स्नातव्यं तत्र मनुजैः स्वर्गमोक्षार्थिभिस्तदा

॥५०॥

तत्र गत्वा सुनियतो गृहीत्वार्घ्यं फलेन हि ॥

मंत्रेणानेन वै विप्रा दद्यादर्घ्यं विधानतः

॥५१॥

ब्रह्मपुत्रैः समानीताः पंचैताः सरितां वराः ॥

गृह्णंत्वर्घ्यमिमं देव्यः सर्वपापप्रशांतये

॥५२॥

इत्यर्घ्यमन्त्रः ॥

स्नानं कृत्वा विधानेन पितॄन्संतर्प्पयेन्नरः ॥

श्राद्धं कुर्य्याद्विधानेन श्रद्भया परया युतः

॥५३॥

पंचरत्नं ततो देयं सप्तधान्यं द्विजातये ॥

दीनांधकृपणानां च दानं दद्यात्स्वशक्तितः

॥५४॥

सर्वान्कामानवाप्नोति विष्णुलोकं स गच्छति ॥

पुत्रपौत्रसमायुक्तः परं सुखमवाप्नुयात्

॥५५॥

प्रेतयोनिं गता ये च ये च कीटत्वमागताः ॥

सर्वे ते मुक्तिमायांति पितरस्त्रिकुलोद्भवाः

॥५६॥

श्रुत्वाऽध्यायमिमं पुण्यं शिवलोके च मोदते ॥

सर्वपाप विनिर्मुक्तः स याति परमं पदम्

॥५७॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे चतुर्थे द्वारकामाहात्म्ये पञ्चनदतीर्थमाहात्म्यवर्णनंनाम चतुर्दशोऽध्यायः ॥ १४ ॥