महर्षिगमनोत्सवयात्रावर्णनम्
श्रीप्रह्लाद उवाच
तदा तेषां सुतीर्थानां क्षेत्राणामभवन्मुदः ॥
गन्तुं द्वारवतीं पुण्यां सर्वेषामपि सर्वशः
॥१॥द्वारकागमने दृष्ट्वा तथा नारदगौतमौ ॥
महोत्सवो महांस्तत्र भविष्यति मनोहरः
॥२॥तीर्थानां कृष्णयात्रायां गन्तव्यमित्यवो चतुः ॥
अथ ते ह्यृषयो देवाः सर्वतीर्थसमन्विताः
॥३॥गौतमीं तु पुरस्कृत्य ययुर्द्वारवतीं मुदा ॥
तदा सर्वाणि तीर्थानि क्षेत्रारण्यानि कृत्स्नशः ॥
द्वारकागमनं चक्रुः सानन्दा ऋषयः सुराः
॥४॥श्रद्धया परया भक्त्या कृष्णदर्शनलालसाः ॥
वीणानिनादतत्त्वज्ञं नारदं पथि तेऽ ब्रुवन्
॥५॥ऋषय ऊचुः
राशयः पुण्यपुञ्जानां कृता वै तपसां तथा ॥
यज्ञदानव्रतानां च तीर्थानां महतां भुवि
॥६॥संप्राप्तस्तत्प्रसादोऽयं यद्द्रक्ष्यामः कुशस्थलीम् ॥
पृच्छामहेऽधुना त्वां वै योगिनां परमं गुरुम्
॥७॥द्वारकायास्तु यात्रायां को विधिः संप्रकीर्तितः ॥
नियमः कोऽत्र कर्त्तव्यो वर्जनीयं च किं मुने
॥८॥श्रोतव्यं कीर्तितव्यं च स्मर्तव्यं किं च वै पथि ॥
उत्सवाश्चात्र के प्रोक्ता द्वारकायाश्च तत्पथि ॥
एकैकश्च महाभाग भक्तानन्दविवर्द्धनम् ॥
एतत्सर्वं महाभाग कृपया संप्रकीर्त्यताम्
॥१०॥श्रीनारद उवाच
कृताभ्यंगस्तु पूर्वेद्युः संपूज्य श्रद्धया हरिम् ॥
भोजयेद्वैष्णवान्विप्रान्स्वशक्त्या संप्रहर्षितः
॥११॥अनुज्ञातो महाविष्णोः प्रसादमुपयुज्य वै ॥
शयीत भुवि सुप्रीतो द्वारकां कृष्णमानसः
॥१२॥श्वोभूते तु शुचिः स्नातः संपूज्य जगदीश्वरम् ॥
प्रदक्षिणं नमस्कृत्य महाविष्णोरनुज्ञया ॥
पृष्ट्वा कुलवृद्धांश्च ब्राह्मणान्वैष्णवान्प्रियान्
॥१२॥ततस्तु तदनुज्ञातो गीतवादित्रसंस्तवैः ॥
यात्रारंभं प्रकुर्वीत द्वारकायां प्रहर्षितः
॥१४॥द्वारकां गच्छमानस्तु शान्तो दांतः शुचिः सदा ॥
ब्रह्मचर्यमधः शय्यां कुर्वीत नियतेन्द्रियः
॥१५॥सहस्रनामपठनं पुराणपठनं तथा ॥
कर्त्तव्यं सकृपं चित्तं सतां शुश्रूषणं तथा
॥१६॥अन्नदानादिकं सर्वं विभवे सति मानवः ॥
अपि स्वल्पं स्वशक्त्या वै कृतं कोटिगुणं भवेत्
॥१७॥पथि कृष्णस्य यो भक्त्या ग्रासमेकं प्रयच्छति ॥
द्वीपांता तेन दत्ता भूः पुण्यस्यान्तो न विद्यते
॥१८॥किं पुनर्द्वारकाक्षेत्रे कृष्णस्य च समीपतः ॥
कलावेकेकसिक्थे च राजसूयायुतं फलम्
॥१९॥गयाश्राद्धसहस्राणि कृतानि शतसंख्यया ॥
अन्नदानं कृतं यैस्तु द्वारकापथि मानवैः
॥२०॥औषधं चान्नपानीयं पादुके कंबलं तथा ॥
वासांस्युपानहौ चैव वित्तं च विभवे सति ॥
वर्जयेत्संकरं विद्वान्यूथालापांस्तथैव च
॥२१॥परनिन्दां च पैशुन्यं परस्य परिवञ्चनम् ॥
परान्नं परपाकं च सति वित्ते त्यजेद्बुधः
॥२२॥न दोषो हीनवित्तस्य तावन्मात्रपरिग्रहे ॥
श्रोतव्या सत्कथा विष्णोर्नामसंकीर्त्तनामृतम्
॥२३॥द्वारकापथिगच्छद्भिरन्योन्यं भक्तिवर्द्धनम् ॥
जप्तव्यं वैदिकं जाप्यं स्तोत्रमागमिकं तथा
॥२४॥यात्रायां यत्फलं प्रोक्तं श्रीकृष्णस्य च वै कलौ ॥
न शक्यते मया वक्तुं वदनैर्युगसंख्यया
॥२५॥इत्येतत्कथितं सर्वं यत्पृष्टं तु द्विजोत्तमाः ॥
यतध्वं तत्प्रयत्नेन विष्णुप्राप्तौ च सत्वरम्
॥२६॥श्रीप्रह्लाद उवाच
एवं ते नारदेनोक्ता मुनयो हृष्टमानसाः ॥
चक्रुस्ते सहिताः सर्वे कृष्णदेवस्य तत्पथि
॥२७॥केचिच्छृण्वन्ति ता विष्णोः सत्कथा लोकविश्रुताः ॥
यासां संश्रवणादेव भगवान्विशते हृदि
॥२८॥कीर्त्यमानानि नामानि महापुण्यप्रदानि वै ॥
पावनानि सदा लोके कलौ विप्रा विशेषतः
॥२९॥पुराणसंहिता दिव्या मुनिभिः परिकीर्तिताः ॥
प्रकाशयंति या विष्णोर्महिमानं सुमंगलम्
॥३०॥सद्गुणाः कर्मवीर्य्याणि कृतानि विष्णुना पुरा ॥
लीलावताररूपैस्तु शृण्वन्ति परया मुदा
॥३१॥अपरे वासुदेवस्य चरितानि सुमंगलाः ॥
वदंति परया भक्त्या सानन्दाः साश्रुलोचनाः
॥३२॥अन्ये स्मरंति देवेशमनादिनिधनं विभुम् ॥
केचिज्जपंति मुनयः स्तोत्राणि परया मुदा
॥३३॥केचित्तु शतनामानि जपन्ति मुनयः पथि ॥
अन्ये सहस्रनामानि लक्षनाम तथाऽपरे
॥३४॥केचिल्लौकिकगीतानि हरिनामानि हर्षिताः ॥
उत्सवैश्च व्रजंत्यन्ये पताकादिविभूषिताः
॥३५॥गीतवादित्रघोषेण करतालस्वनेन च ॥
नास्ति धन्यतमस्तस्मात्त्रिषु लोकेषु कश्चन
॥३६॥दर्शनं यस्य संजातं वैष्णवानामनुत्तमम् ॥
तथैव जाह्नवी पुण्या यमुना च सरस्वती
॥३७॥रेवाद्याः सरितः सर्वाः प्रचक्रुर्गीतनर्त्तनम् ॥
प्रयागादीनि तीर्थानि सागराः पर्वतोत्तमाः
॥३८॥वाराणसी कुरुक्षेत्रं पुण्यान्यन्यानि कृत्स्नशः ॥
त्रैलोक्ये यानि तीर्थानि क्षेत्राणि देवनायकाः ॥
चक्रुर्गीतं च नृत्यं च द्वारकायाश्च सत्पथि
॥३९॥एकैकस्मिन्पदे दत्ते द्वारकापथि गच्छताम् ॥
पुण्यं क्रतुसहस्राणां तत्पादरजसंख्यया
॥४०॥अथ ते मुनयः सर्वे तीर्थक्षेत्रादिसंयुताः ॥
श्रीमत्कृष्णालयं दूराद्ददृशुर्नारदादयः
॥४१॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे चतुर्थे द्वारकामाहात्म्ये द्वारकां प्रति गोदावर्यादितीर्थक्षेत्रदेव महर्षिगमनोत्सवयात्रावर्णनंनाम त्रिंशत्तमोऽध्यायः ॥ ३० ॥