रुक्मिणीदुःखमोचनवर्णनम्
ऋषय ऊचुः
अहो ब्रह्मण्यदेवस्य कृष्णस्यामिततेजसः ॥
महिमा यदयं नैव मृषा चक्रे मुनेर्वचः
॥१॥तेन चक्रे न रोषं स सेतुपालो जनार्दनः ॥
भृगोर्यश्चरणाघातं दधार हृदि लाञ्छनम्
॥२॥सा तु देवी कथं तेन प्रेयसा विप्रयोजिता ॥
एकाकिनी स्थिता तत्र कथ्यतामसुरेश्वर
॥३॥उत्कण्ठिता अति वयं श्रोतुं द्वारवतीं मुदा ॥
इदमादौ बुभुत्सामश्चित्तखेदापनुत्तये
॥४॥प्रह्लाद उवाच
श्रूयतामृषयः सर्वे गदतो मम विस्तरात् ॥
यथा शापोद्भवं दुःखं मुमोच हरिवल्लभा
॥५॥अथ दुर्वाससः शापमवाप्यारुन्तुदं तदा ॥
यादवेन्द्रस्य गृहिणी सहसा पर्यदेवयत्
॥६॥रुक्मिण्युवाच
कल्याणी बत वाणीयं लौकिकी संविभाव्यते ॥
कूपके चैव सिन्धौ च प्रमाणान्नाधिकं जलम्
॥७॥यासाहं भूरिभाग्या वै प्राप्य नाथं जगत्पतिम् ॥
इयमेकाकिनी जाता पौलस्त्याद्देवहेलनात्
॥८॥क्व मंगलालयः श्रीमाननवद्यगुणो हरिः ॥
अल्पपुण्या सुसंबाधा कामिनी क्वातिचञ्चला
॥९॥तथापि घटयामास धाता वंचनकोविदः ॥
विधानमशुभाया मे वियोगविषमव्यथम्
॥१०॥अन्यथा वर्णगुरवः स्नातास्त्रैविद्यवर्त्मनि ॥
कथं नु शप्तुमर्हन्ति स्वयं खिन्नामनागसम्
॥११॥विदधे वज्रमयं तु किं न्विदं हृदयं मेऽतिकठोरमेव हि ॥
शतधा न विदीर्यते यतो विरहे दुर्विषहे मधुद्विषः
॥१२॥अधिकृत्य सुदुश्चरं तपः प्रतिलब्धः प्रथमं मयात्मजः ॥
तनयेन विनाकृताऽप्यहं न मृता पंचसु वासरेष्विह
॥१३॥उपलभ्य सुदारुणामिमामपि पीडामवितास्म्यहं तदा ॥
यदिदं विधुनोति कल्मषं खलु तन्मां समुपेत्य लक्षवृद्धिम्
॥१४॥इति साऽतिविलप्य दुःखितार्था कुररीतुल्यतया शुशोच वेगात् ॥
विरहेण विघूर्णिताशया द्विजशापापहता मुमूर्च्छ सद्यः
॥१५॥अथ दुर्वाससा शप्ता रुक्मिणी कृष्णवल्लभा ॥
मूर्च्छनामाप तत्रैव ह्याजगाम पयोनिधिः
॥१६॥सुधाशीकरगर्भेण पद्मकिंजल्कवायुना ॥
न्यवीजयदिमां देवीं रुक्मिणीं कृष्णवल्लभाम्
॥१७॥एतस्मिन्नन्तरे तत्र व्योममार्गेण नारदः ॥
गायन्गुणान्भगवतो वीणापाणिः समागतः
॥१८॥स दृष्ट्वा सिंधुनाऽऽश्वास्यमानां विश्वस्य मातरम् ॥
अवतीर्य श्रुतकथो बोधयामास नारदः
॥१९॥नारद उवाच
मा खेदं देव देवेशि देवि त्वदधिपे पतौ ॥
दूरीकृते विप्रशापात्कुरु कल्याणि धीरताम्
॥२०॥त्वं हि साक्षाद्भगवती कृष्णश्च पुरुषोत्तमः ॥
अवतीर्णो धराभारमपनेतुं यदृच्छया
॥२१॥देवो ह्यसौ परं ब्रह्म सदाऽनिर्विण्णमानसः ॥
मायाशक्तिस्त्वमेतस्य सर्गस्थित्यन्तकारिणः
॥२२॥संहृत्य निखिलं शेते ययाऽसौ कलया स्वराट् ॥
तदापि न वियुज्येत त्वया विश्वपतिः प्रभुः
॥२३॥अवियुक्तस्त्वया नित्यं देवदेवो जगत्पतिः ॥
लीलावतारेष्वेतस्य सर्वेषु त्वं सहायिनी
॥२४॥योगं वियोगं च तथा न यात्येष त्वयाऽनघे ॥
विडंबयति भूतानामुपकाराय चेश्वरः
॥२५॥आराधनीयाः सततं भूदेवा भूतिमीप्सता ॥
प्रकोपनीया नैवैते तत्त्वज्ञा हि तपस्विनः
॥२६॥इत्येवं शिक्षयँल्लोकं वियोगं तेऽनुमन्यते ॥
मुनि शापाद्धरिः साक्षाद्गूढः कपटमानुषः
॥२७॥अपि स्मरसि कल्याणि जातो रघुकुले स्वयम् ॥
लोकानुग्रहमन्विच्छन्भूभारहरणोत्सुकः
॥२८॥तं हरिं जगतामीशं रुक्मिणि त्वं न वेत्सि किम् ॥
प्राणेभ्योऽपि गरीयांसमयं देवः स एव हि
॥२९॥येनेदं पूरितं विश्वं बहिरन्तश्च सुव्रते ॥
असंगस्य विभोः संगः कथं स्यादिति मन्मतिः
॥३०॥तया त्वया नियुक्तोऽसाविति प्रत्येमि सर्वशः ॥
तद्विमुञ्चाऽऽधिमत्यर्थमात्मानमनुसंस्मर ॥
प्रसीद मातः संधेहि धीरतां स्वमनीषया
॥३१॥इति ब्रुवति देवर्षाववसाने नदीपतिः ॥
प्रोवाच वचनं तस्यै वाचा मृदुसुवर्णया
॥३२॥समुद्र उवाच
यदाह देवि देवर्षिर्नत्वा त्वां सत्यमेव तत् ॥
गीयसे त्वं हि वेदेषु नित्यं विष्णुः सहायिनी
॥३३॥परः पुमानेव निरस्तविग्रहो गूढोऽधिपस्ते विदधाति भूयः ॥
विश्वं व्यवस्थापयति स्वरोचिषा त्वया सहायेन बिभर्ति मूर्तिम्
॥३४॥तदेष परिखेदस्ते न मनागपि युज्यते ॥
वक्षःस्थलस्था भवती नित्यं श्रीवत्सलक्ष्मणः
॥३५॥इयं भागीरथी देवी मदादेशादुपागता ॥
विनोदयिष्यत्यनिशं त्वां हि देवि शरीरिणी
॥३६॥एतस्याः स्यान्मृदु स्वादु पयः पूरोपशोभितम् ॥
प्रदेशोऽयमशेषोऽपि भविता त्वत्सुखप्रदः
॥३७॥नानाद्रुमलताकीर्णं निकुंजैरुपशोभितम् ॥
मातंगैश्च समाजुष्टं मंजुगुंजन्मधुव्रतम्
॥३८॥नवपल्लवभङ्गीभिः कुसुमस्तबकैः शुभैः ॥
फलैरमृतकल्पैश्च मंजरी राजिभिस्तथा
॥३९॥नंदनस्य श्रिया जुष्टं मनोनयननन्दनम् ॥
वनं रम्यतरं चात्र ह्यचिरेण भविष्यति
॥४०॥त्वया संबोधनीयाः स्म वयं मातः सदैव हि ॥
अगम्यरूपा विद्या त्वमस्माभिर्बोध्यसे कथम्
॥४१॥तदा वामनुजानीहि प्रसीद परमेश्वरि ॥
नमस्ते विश्वजननि भूयो ऽपि च नमोनमः
॥४२॥प्रह्लाद उवाच
एवमुक्त्वा जगद्धात्रीं जग्मतुस्तौ यथागतम् ॥
आजगाम च तत्रैव देवी भागीरथी स्वयम्
॥४३॥वनं समभवत्तत्र दिव्यभूरुहसेवितम् ॥
सेव्यं समस्तलोकानां फलपुष्पसमृद्धिमत् .
॥४४॥प्रसादेन च भूतानां गंगाऽशेषाघहारिणी ॥
भूषयामास तद्देशं सा च विष्णुपदी सरित्
॥४५॥देवो च मुनिवाक्येन गंगायाश्च विनोदनात् ॥
सौन्दर्या तस्य देशस्य किञ्चित्स्वास्थ्यमवाप ह
॥४६॥अथ विष्णुपदीं देवीं श्रुत्वा सागरसंगताम् ॥
इतस्ततः समाजग्मुः श्रद्दधानाः पयस्विनीम्
॥४७॥द्वारकावासिनश्चैव जनाः काननशोभया ॥
हृष्टचित्ताः समाजग्मुरनिशं रुक्मिणीवनम्
॥४८॥श्रुत्वा तदखिलं सर्वं दुर्वासाः शांभवी कला ॥
चुकोप स्मयमानश्च भूय एतदभाषत
॥४९॥दुर्वासा उवाच
कः प्रभुस्त्रिषु लोकेषु मह्यं वचनमन्यथा ॥
विधातुमपि देवानामाद्यो लोकपितामहः
॥५०॥किं न जानाति लोकोऽयं मयि रोषकषायिते ॥
शक्रं प्रति त्रिभुवनं भ्रष्टश्रीकमभूत्तदा
॥५१॥मम शापमविज्ञाय नन्दनप्रतिमे वने ॥
कथं सा रुक्मिणी तत्र रमते जनसेविते
॥५२॥तदेते तरवः सर्वे संत्वभोज्यफला नृणाम् ॥
विभ्रष्टसर्वसौभाग्याः कुसुमस्तबकोज्झिताः
॥५३॥इयं तु शापनिर्दग्धा हरचूडामणिः सरित् ॥
वार्यस्याः स्यादपेयं तु नैवेह स्थातुमर्हति
॥५४॥प्रह्लाद उवाच
तदा सर्वमभूत्तत्र यद्यदाह च वै मुनिः ॥
वाचि वीर्यं हि विप्राणां निर्मितं विष्णुना स्वयम्
॥५५॥सा तु देवी तथा वृत्तमवेक्ष्य भृशदुःखिता ॥
मेने दुरत्ययं दैवमापतत्तत्पुनःपुनः
॥५६॥ततस्तु सा विनिश्चित्य मरणं दुःखभेषजम् ॥
उत्तरीयांबरेणैव बहिः किञ्चित्प्रबद्ध्य तु
॥५७॥अथावबुध्य तत्सर्वं सर्वभूतगुहाशयः ॥
तां ज्ञात्वा सत्वरं चाऽऽगात्सुपर्णेन दयानिधिः
॥५८॥ददर्श तादृशीं देवीं कण्ठपाशकरां विभुः ॥
अधस्तात्तरुशाखायां निमीलितविलोचनाम्
॥५९॥विभ्रष्टभूषणगणां कृशदेहवल्लीं म्लानाननांबुजरुचं मरणे प्रसक्ताम् ॥
मेने स विग्रहवतीं करुणां कृपालुस्तां सौख्यदां गुणवतीं प्रणतार्तिहन्त्रीम्
॥६०॥संश्रुत्य साऽपि पतगाधिपते रवं वै प्रोन्मील्य नेत्रकमलेऽथ ददर्श कृष्णम् ॥
सामन्यत त्रिकविवर्तितलोचनाब्जं प्राप्तं तमिष्टसुहृदं निजजीवनाथम्
॥६१॥सा रोमहर्षविवशा त्रपया परीता कोपानुरागकलुषा कृतविप्रलापा ॥
संवर्द्धितद्विगुणशोकभरा च देवी नानारसं बत दृशोर्विषयं प्रपेदे
॥६२॥तस्याः ससाध्वसविसर्गचिकीर्षितायाः पाशं व्यपोह्य करचारु सरोरुहेण ॥
आदाय पाणिममृतोपमया च वाचा संजीवयन्निदमुदारमुदाजहार
॥६३॥श्रीकृष्ण उवाच
किमेतत्साहसं भीरु चिकीर्षत्यविचारितम् ॥
ननु देवि ममाचक्ष्व किं नु ते खेदकारणम्
॥६४॥त्वं विद्याऽहं परो बोधस्त्वं माया चेश्वरस्त्वहम् ॥
त्वं च बुद्धिरहं जीवो वियोगः कथमावयोः
॥६५॥त्वया विमोहितात्मानो भ्राम्यन्त्यजभवादयः ॥
सा कथं क्षुभ्यसि त्वं तु किं स्वधाम न बुध्यसे
॥६६॥त्वया हि बद्धा ऋषयस्ते चरन्तीह कर्मभिः ॥
तां त्वां कथमृषिः शप्तुं शक्नुयाद्वरवर्णिनि
॥६७॥शिक्षार्थं त्विह लोकानामेवं मे देवि चेष्टितम् ॥
मन्मायया समाविष्टः कुरुते विवशः पुमान् ॥
पश्य कोपपरीतात्मा यः स शान्तो मुनीश्वरः
॥६८॥प्रह्लाद उवाच
सोऽभ्येत्य भक्तिनम्रोऽथ दुर्वासा मुनिसत्तमः ॥
विचार्य मनसा सर्वं पश्चात्तापानुपाश्रयत्
॥६९॥किं मया कृतमित्युक्त्वा तत्समीपमुपागमत् ॥
अपतद्विलुठन्भूमौ दण्डवच्चाश्रुसंप्लुतः
॥७०॥पितरौ जगतो देवौ क्षामयामास दीनवत् ॥
तुष्टाव सूक्तवाक्यैस्तु रहस्यैर्भक्तिसंयुतः
॥७१॥आह चेदं जगन्नाथं यदि मय्यस्त्यनुग्रहः ॥
तदा पुरेव संयोगो देव देव्या विधीयताम्
॥७२॥अथ प्रहस्य गोविन्दस्तमाह मुनिसत्तमम् ॥
न हि ते वचनं जातु मृषा भवितुमर्हति
॥७३॥मयैवं विहितः सेतुः कथमुच्छेद्यतां द्विज ॥
सद्भिराचरितः सेतुः सिद्धो लोकस्य पालकः
॥७४॥दिनेदिने द्विकालं च आयास्ये मुनिसत्तम ॥
विनोदयिष्ये तां तां तु मुनिकन्यां च काम्यया
॥७५॥तुष्यामि साधनैर्नान्यैर्मत्कथाकथनैरपि ॥
यथा संपूज्य मामत्र मम प्रीतिर्भविष्यति
॥७६॥यदा च मयि वै(?)कुण्ठमधिरूढे महामुने ॥
प्रवेक्ष्यति तदा तेजो मम सर्वं त्रिविक्रमे
॥७७॥रुक्मिणीयं च मन्मूर्तेः संयोगं पुनरेष्यति ॥
इयं भागीरथी चापि सागरेण समा गुणैः ॥
त्यक्त्वा ह्यशेषदुःखानि सुखं चैव गमिष्यति
॥७८॥अनुग्रहं विधायैवमृषिणा सह केशवः ॥
विवेश स्वपुरीं तत्र विधायोपांतिकं मुनिम्
॥७९॥सापि देवी च संबुध्य तदा तस्य विचेष्टितम् ॥
अनुग्रहाद्भगवतो बभूव विगत ज्वरा
॥८०॥यतश्च मुक्ता दुःखेन तत्र देवी हरिप्रिया ॥
ततो भागीरथी सा तु गदिता दुःखमोचिनी
॥८१॥अमावास्यां पौर्णमास्यां यस्तस्याः संगमे शुभे ॥
स्नायादशेषदुःखात्तु स नरः परिमुच्यते
॥८२॥अष्टम्यां च चतुर्दश्यां नवम्यां चावलोकिता ॥
नराणां रुक्मिणी देवी सर्वान्कामा न्प्रयच्छति
॥८३॥इत्येतत्कथितं देव्या ऋषयो दुःखमोचनम् ॥
अनुग्रहश्च देवस्य किं भूयः श्रोतुमिच्छथ
॥८४॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्ये रुक्मिणीदुःखमोचनवर्णनंनाम तृतीयोऽध्यायः ॥ ३ ॥