मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — द्वारकामाहात्म्यम्, अध्याय २३

3
प्रभासखण्डः · द्वारकामाहात्म्यम् · 23

तुलसीधारणमाहात्म्यवर्णनम्

मार्कंडेय उवाच

द्वारकायाश्च माहात्म्यमिंद्रद्युम्न निबोध मे ॥

कलौ निवसते यत्र क्लेशहा रुक्मिणीपतिः

॥१॥

कलौ कृष्णस्य माहात्म्यं ये शृण्वंति पठंति च ॥

न तेषां जायते वासो यमलोके युगाष्टकम्

॥२॥

नित्यं कृष्णकथा यस्य प्राणादपि गरीयसी ॥

न तस्य दुर्ल्लभं किंचिदिह लोके परं नृप

॥३॥

मन्वंतरसहस्रैस्तु काशीवासेन यत्फलम् ॥

तत्फलं द्वारकावासे वसतां पंचभिर्दिनैः

॥४॥

कलौ निवसते यस्तु श्वपचो द्वारकां यदि ॥

यतीनां गतिमाप्नोति प्राह ह्येवं प्रजापतिः

॥५॥

द्वारकां गंतुकामं यः प्रत्यहं कुरुते नरः ॥

फलमाप्नोति मनुजः कुरुक्षेत्रसमुद्भवम्

॥६॥

सोमग्रहे च यत्प्रोक्तं यत्फलं सोमनायके ॥

दृष्ट्वा तत्फलमाप्नोति द्वारवत्यां जनार्द्दनम्

॥७॥

पुष्करे कार्त्तिकीं कृत्वा यत्फलं वर्षकोटिभिः ॥

तत्फलं द्वारकावासे दिनेनैकेन जायते

॥८॥

द्वारकायां दिनैकेन दृष्टे देवकिनंदने ॥

फलं कोटिगुणं ज्ञेयमत्र लक्षशतोद्भवम्

॥९॥

कलौ निवसतां भूप धन्यास्तेषां मनोरथाः ॥

कृष्णस्य दर्शने नित्यं द्वारकागमने मतिः

॥१०॥

एकामपि द्वादशीं तु यः करोति नृपोत्तम ॥

कृष्णस्य सन्निधौ भूप द्वारकायाः फलं शृणु

॥११॥

धन्यास्ते कृतकृत्यास्ते ते जना लोकपावनाः ॥

दृष्टं कृष्णमुखं यैस्तु पापकोट्ययुतापहम्

॥१२॥

यत्फलं व्रतसंयुक्तैर्वासरैः कृष्णसंयुतैः ॥

यज्ञैर्दानैर्बृहद्भिश्च द्वारकायां तथैकया

॥१३॥

क्षीरस्नानं प्रकुर्वंति ये नराः कृष्ण मूर्धनि ॥

शताश्वमेधजं पुण्यं बिंदुना बिंदुना स्मृतम्

॥१४॥

दधि क्षीराद्दशगुणं घृतं दध्नो दशोत्तरम् ॥

घृताद्दशगुणं क्षौद्रं क्षौद्राद्दशगुणोत्तरम्

॥१५॥

पुष्पोदकं च रत्नोदं वर्द्धनं च दशोत्तरम् ॥

मंत्रोदकं च गंधोदं तथैव नृपसत्तम

॥१६॥

इक्षो रसेन स्नपनं शतवाजिमखैः समम् ॥

तथैव तीर्थनीरं स फलं यच्छति भूमिप

॥१७॥

कृष्णं स्नानार्द्रगात्रं च वस्त्रेण परिमार्जति ॥

तस्य लक्षार्जितस्यापि भवेत्पापस्य मार्जनम्

॥१८॥

स्नापयित्वा जगन्नाथं पुष्पमालावरोहणम् ॥

कुरुते प्रतिपुष्पं तु स्वर्णनिष्कायुतं फलम्

॥१९॥

स्नानकाले तु देवस्य शंखादीनां तु वादनम् ।

कुरुते ब्रह्मलोके तु वसते ब्रह्मवासरम्

॥२०॥

स्नानकाले स कृष्णस्य पठेन्नामसहस्रकम् ॥

प्रत्यक्षरं लभेत्प्रेष्टं कपिलागोशतोद्भवम्

॥२१॥

फलमेतन्महीपाल गीतायाः परिकीर्तितम् ॥

गजेंद्रमोक्षणेनैवं स्तवराजेन कीर्त्तितम्

॥२२॥

स्तवैर्ऋषिकृतैरन्यैः पठितैश्च नराधिप ॥

तोषमाप्नोति देवेशः सर्वान्कामान्प्रयच्छति

॥२३॥

किं पुनर्वेदपाठं तु स्नानकाले करोति यः ॥

तस्य यल्लभते पुण्यं न ज्ञातं नरनायक

॥२४॥

स्नान काले च संप्राप्ते कृष्णस्याग्रे तु नर्तनम् ॥

गीतं चैव पुनस्तत्र स्तवनं वदनेन हि

॥२५॥

स्नानकाले तु कृष्णस्य जयशब्दं करोति यः ॥

करताल समायुक्तं गीतनृत्यं करोति च

॥२६॥

तत्र चेष्टां प्रकुर्वाणो हसते जल्पतेऽपि वा ॥

मुक्तं तेन परं मातुर्योनियंत्रस्य निर्गमम्

॥२७॥

नोत्तानशायी भवति मातुरंके नरेश्वर ॥

गुणान्पठति कृष्णस्य यः काले स्नानकर्मणः

॥२८॥

चंदनागुरुमिश्रेण कंकुमेन सुगंधिना ॥

विलेपयति यः कृष्णं कर्पूरमृगनाभिना ॥

कल्पं तु भवने विष्णोर्वसते पितृभिः सह

॥२९॥

प्रत्येकं चंदनादीनामिंद्रद्युम्न न चान्यथा ॥

नानादेशसमुद्भूतैः सुवस्त्रैश्च सुकोमलैः

॥३०॥

धूपयित्वा सुगंधैश्च यो धूपयति मानवः ॥

मन्वंतराणि वसते तत्संख्यानि हरेर्गृहे

॥३१॥

स्वशक्त्या देवदेवेशं भूषणैर्भूषयंति च ॥

हेमजैरतुलैः शुभ्रैर्मणिजैश्च सुशोभनैः

॥३२॥

तेषां फलं महाराज रुद्राश्च वासवादयः

॥३३॥

जानंति मुनयो नैव वर्जयित्वा तु माधवम् ॥

येऽर्चयंति जगन्नाथं कृष्णं कलिमलापहम् ॥

केतकीतुलसीपत्रैः पुष्पैर्मालतिसंभवैः

॥३४॥

तद्देशसंभवैश्चान्यैर्भूरिभिः कुसुमैर्नृप ॥

एकैकं नृप शार्दूल राजसूयसमं स्मृतम्

॥३५॥

ये कुर्वंति नराः पूजां स्वशक्त्या रुक्मिणीपतेः ॥

क्रीडंति विष्णुलोके ते मन्वतरशतं नराः

॥३६॥

यः पुनस्तुलसीपत्रैः कोमलमंजरीयुतैः ॥

पूजयेच्छ्रद्धया यस्तु कृष्णं देवकिनंदनम्

॥३७॥

या गतिर्योगयुक्तानां या गतिर्योगशालिनाम् ॥

या गतिर्दानशीलानां या गतिस्तीर्थसेविनाम्

॥३८॥

या गतिर्मातृभक्तानां द्वादशीं वेधवर्जिताम् ॥

कुर्वतां जागरं विष्णोर्नृत्यतां गायतां फलम्

॥३९॥

वैष्णवानां तु भक्तानां यत्फलं वेदवादिनाम् ॥

पठतां वैष्णवं शास्त्रं वैष्णवानां तु यच्छताम्

॥४०॥

तुलसीमालया कृष्णः पूजितो रुक्मिणी पतिः ॥

फलमेतन्महीपाल यच्छते नात्र सशयः

॥४१॥

यथा लक्ष्मीः प्रिया विष्णोस्तुलसी च ततोऽधिका ॥

द्वारकायां समुत्पन्ना विशेषेण फलाधिका

॥४२॥

यत्र तत्र स्थितो विष्णुस्तुलसीदलमालया ॥

पूजितो द्वारकातुल्यं पुण्यं स यच्छते कलौ

॥४३॥

योऽर्चयेत्केतकीपत्रैः कृष्णं कलिमलापहम् ॥

पत्रेपत्रेऽश्वमेधस्यफलं यच्छति भूभुज

॥४४॥

योऽर्चयेन्मालतीपुष्पैः कृष्णं त्रिभुवनेश्वरम् ॥

तेनाप्तं नास्ति संदेहो यत्फलं दुर्लभं हरेः

॥४५॥

ऋतुकालोद्भवैः पुष्पैर्योऽर्चयेद्रुक्मिणीपतिम् ॥

सर्वान्कामानवाप्नोति दुर्लभान्देवमानुषैः

॥४६॥

कृष्णेनागुरुणा कृष्णं धूपयंति कलौ युगे ॥

सकर्पूरेण राजेन्द्र कृष्णतुल्या भवंति ते

॥४७॥

साज्येन गुग्गुलेनापि सुगंधेन जनार्द्दनम् ॥

धूपयित्वा नरो याति पदं भूयः सदा शिवम्

॥४८॥

यो ददाति महीपाल कृष्णस्याग्रे तु दीपकम् ॥

पातकं तु समुत्सृज्य ज्योतीरूपं लभेत्पदम्

॥४९॥

द्वारे कृष्णस्य यो नित्यं दीपमालां करोति हि ॥

सप्तद्वीपवतीराज्यं द्वीपेद्वीपे फलं लभेत्

॥५०॥

नैवेद्यानि मनोज्ञानि कृष्णाय विनिवेदयेत् ॥

कल्पांतं तत्पितॄणां हि तृप्तिर्भवति शाश्वती

॥५१॥

फलानि यच्छते यो वै सुहृद्यानि नरेश्वर ॥

जायंते तस्य कल्पांतं सफलास्तु मनोरथाः

॥५२॥

तांबूलं तु सकर्पूरं सपूगं नरनायक ॥

कृष्णाय यच्छते यो वै पदं तस्याग्निदैवतम्

॥५३॥

सनीरं कर्पुरोपेतं कुंभं कृष्णाग्रतो न्यसेत् ॥

कल्पांते न जलापेक्षां कुर्वंति च पितामहाः

॥५४॥

व्यजनेनाथ वस्त्रेण सुभक्त्या मातरिश्वना ॥

देवदेवस्य राजेन्द्र कुरुते धर्मवारणम्

॥५९॥

तत्कुले नास्ति पापिष्ठो न च लोके यमस्य च ॥

वायुलोकान्महीपाल न पुनर्विद्यते गतिः

॥५६॥

कृष्णवेश्मनि यः कुर्य्यात्सधूपं पुष्पमंडपम् ॥

सपुष्पकविमानैस्तु क्रीडते कोटिभिर्द्दिवि

॥५७॥

चलच्चामरवातेन कृष्णं यस्तोषयेन्नरः ॥

तस्योत्तमांगं देवेशश्चुंबते स्वमुखेन हि

॥५८॥

यः कुर्यात्कृष्णभवनं कदलीस्तंभशोभितम् ॥

वसत्यर्कलोके तु यावद्वसति मेदिनी

॥५९॥

धूपं चंदनमालां तु कुरुते कृष्णसद्मनि ॥

देवकन्यायुतैर्लक्षैः सेव्यते सुरनायकैः

॥६०॥

ध्वजमारोपयेद्यस्तु प्रासादोपरि भक्तितः ॥

तस्य ब्रह्मपदे वासः क्रीडते ब्रह्मणा सह

॥६१॥

प्रांगणं वर्णकोपेतं स्वस्तिकैश्च समन्वितैः ॥

देवदेवस्य कुरुते क्रीडते भुवनत्रये

॥६२॥

यो दद्यान्मण्डपे पुष्पप्रकरं रुक्मिणीपतेः ॥

देवोद्यानेषु सर्वेषु क्रीडते नरनायकैः

॥६३॥

प्रासादे देवदेवस्य चित्रकर्म करोति यः ॥

वसते रुद्रलोके तु यावत्तिष्ठंति सागराः

॥६४॥

दद्याच्चन्द्रमयं यस्तु कृष्णोपरि नरेश्वर ॥

वसते द्वारकां यावत्सोमलोके स तिष्ठति

॥६५॥

छत्रं बहुशलाकं तु किंकिणीवस्रगुण्ठितम् ॥

दिव्यरत्नैश्च संयुक्तं हेमदण्डसमन्वितम्

॥६६॥

समर्पयति कृष्णाय च्छत्रं लक्षार्बुदैर्वृतम् ॥

अमरैः सहितः सर्वैः क्रीडते पितृभिः सह

॥६७॥

दद्यान्नरविमानं तु कृष्णाय नरनायक ॥

सत्कृतो धनदेनैव वसते ब्रह्मवासरम्

॥६८॥

कृता पूजा दिकं भूप ज्वलंतं कृष्णमूर्द्धनि ॥

आरार्तिकं प्रकुर्वाणो मोदते कृष्णसन्निधौ

॥६९॥

दीप्तिमंतं सकर्पूरं करोत्यारार्तिकं नृप ॥

कृष्णस्य वसते लोके सप्तकल्पानि मानवः

॥७०॥

धृत्वा शंखोदकं यस्तु भ्रामयेत्केशवोपरि ॥

संनिधौ वसते विष्णोः कल्पांतं क्षीरसागरे

॥७१॥

एवं कृत्वा तु कृप्णस्य यः करोति प्रदक्षिणाम् ॥

पठन्नामसहस्रं तु स्तवमन्यं पठन्नृप ॥

सप्तद्वीपवतीपुण्यं लभते तु पदेपदे

॥७२॥

कुर्य्याद्दण्डनमस्कारमश्वमेधायुतैः समम् ॥

कृष्णं संतोषयेद्यस्तु सुगीतैर्मधुरैः स्वरैः ॥

सामवेदफलं तस्य जायते नात्र संशयः

॥७३॥

यो नृत्यति प्रहृष्टात्मा भावैर्बहु सुभक्तितः ॥

स निर्द्दहति पापानि मन्वंतरकृतान्यपि

॥७४॥

यः कृष्णाग्रे महाभक्त्या कुर्य्यात्पुस्तकवाचनम् ॥

प्रत्यक्षरं लभेत्पुण्यं कपिलाशतदानजम्

॥७५॥

ऋग्यजुःसामभिर्वाग्भिः कृष्णं संतोषयंति ये ॥

कल्पांतं ब्रह्मलोके तु ते वसंति द्विजोत्तमाः

॥७६॥

योगशास्त्राणि वेदांता न्पुराणं कृष्णसन्निधौ ॥

पठंति रविबिंबं ते भित्त्वा यांति हरेर्लयम्

॥७७॥

गीता नामसहस्रं तु स्तवराजो ह्यनुस्मृतिः ॥

गजेन्द्रमोक्षणं चैव कृष्णस्यातीव वल्लभम्

॥७८॥

श्रीमद्रागवतं यस्तु पठते कृष्णसन्निधौ ॥

कुलकोटिशतैर्युक्तः क्रीडते योगिभिः सदा

॥७९॥

यः पठेद्रामचरितं भारतं व्यासभाषितम् ॥

पुराणानि महीपाल प्राप्तो मुक्तिं न संशयः

॥८०॥

द्वादशीवासरे प्राप्त एवं कुर्वंति ये नराः ॥

गीताद्यैः शतसाहस्रं पुण्यं यच्छति केशवः

॥८१॥

जागरे कोटिगुणितं पुण्यं भवति भूभिप ॥

वसतां द्वारकावासात्प्रत्यहं लभते फलम्

॥८२॥

गोमतीनीरपूतानां कृष्णवक्त्रावलोकि नाम् ॥

दर्शनात्पातकं तेषां याति वर्षशतार्जितम्

॥८३॥

धन्यास्ते मानुषे लोके गोमत्युदधिवारिणा ॥

तर्पयंति पितॄन्देवान्गत्वा द्वारवतीं कलौ

॥८४॥

गंगाद्वारे प्रयागे च गंगायां कुरुजांगले ॥

प्रभासे शुक्लतीर्थे च श्रीस्थले पुष्करेऽपि च

॥८५॥

स्नानेन पिंडदानेन पितॄणां तर्पणे कृते ॥

तृप्तिर्भवति भूपाल तथा गोमतिदर्शनात्

॥८६॥

योजनैर्बहुभिस्तिष्ठन्गोमतीति च यो वदेत् ॥

चांद्रायणसहस्रस्य फलमाप्नोति यत्नतः

॥८७॥

धन्या द्वारवती लोके वहते यत्र गोमती ॥

स्वयं तु तिष्ठते यत्र नित्यं रुक्मिणिवल्लभः

॥८८॥

न स्नाता गोमतीतीरे कलौ पापेन मोहिताः ॥

भविष्यति कथं तेषां पापबंधस्य संक्षयः

॥८९॥

निर्मिता स्वर्गनिःश्रेणी कलौ कृष्णेन गोमती ॥

मनसः प्रीतिजननी जंतूनां नरसत्तम

॥९०॥

न दृश्यं स्वर्गसोपानं दृश्यते गोमतीसमम् ॥

सुखदं पापिनां पुंसां स्नानमात्रेण मोक्षदम्

॥९१॥

गोमतीनीरसंयुक्तो यत्र गर्जति सागरः ॥

तत्र गच्छेन्नरव्याघ्र कृष्णस्तिष्ठति यत्र वै

॥९२॥

यत्र चक्रांकितशिला गोमत्युदधिनिःसृताः ॥

यच्छंति पूजिता मोक्षं तां पुरीं को न सेवते

॥९३॥

यत्र चक्रांकिता मृत्स्ना तिष्ठते निर्मला नृप ॥

कलौ पापविनाशार्थं तां पुरीं को न सेवते

॥९४॥

अप्रदृश्या पुरा लोके दैत्यदानवरक्षसाम् ॥

शरण्या देवतादीनां पुरीं तां को न सेवते

॥९५॥

त्यजते यां कलौ नैव कृष्णो देवकिनन्दनः ॥

कर्मणा मनसा वाचा तां पुरीं को न सेवते

॥९६॥

मार्कंडेय उवाच

शृणु राजन्प्रवक्ष्यामि कथां पापप्रणाशिनीम् ॥

यां श्रुत्वा मुच्यते नूनं दुःखसंसार बंधनात्

॥९७॥

अवन्तीविषये पूर्वं ब्राह्मणो वेदपारगः ॥

चंद्रशर्मेति विख्यातः शिवभक्तः सदा नृप

॥९८॥

मनसा कर्मणा वाचा नान्यं ध्याति सदाशिवात् ॥

शैवाद्व्रताद्व्रतं नान्यत्करोति च नराधिप

॥९९॥

नोपवासं हरिदिने कुरुते न व्रतं हरेः ॥

विना चतुर्दशीं राजन्नान्यदेवसमुद्भवम्

॥१००॥

यत्रयत्र शिवक्षेत्रं यत्र तीर्थं तु शांकरम् ॥

तत्र गच्छति राजेन्द्र वैष्णवं नैव गच्छति

॥१०१॥

प्रतिवर्षं तु कुरुते सोमनाथस्य दर्शनम् ॥

न जहाति विशेषेण सोमपर्व नरेश्वर

॥१०२॥

एवं प्रकुर्वतस्तस्य वर्षाणि नवसप्ततिः ॥

गतानि किल राजेन्द्र शिवभक्तिं प्रकुर्वतः

॥१०३॥

कदाचित्सोमपर्वण्यागते सोमोपनायकम् ॥

नानादेशान्महीपाल ह्यसंख्याताश्च मानवाः

॥१०४॥

गताः कृष्णपुरीं सर्वे दृष्ट्वा सोमेश्वरं प्रभुम् ॥

आहूतस्तैश्चंद्रशर्मा न गतो द्वारकां पुरीम्

॥१०५॥

शिवक्षेत्रात्परं तीर्थं नाहं मन्ये जग त्त्रये ॥

नान्यदेवो मया ज्ञात ईश्वराद्देवनायकात्

॥१०६॥

विनाऽन्ये चंद्रशर्माणं गतास्ते द्वारकां पुरीम् ॥

अन्यस्मिन्दिवसे राजन्गच्छतः स्वगृहं प्रति ॥

चक्रुस्ते दर्शनं स्वप्ने चंद्रशर्मपितामहाः

॥१०८॥

प्रेतभूता महाकायाः क्षुत्क्षामाश्चैव भीषणाः ॥

दृष्ट्वा स्वप्नं महा रौद्रं भीतोऽसौ च प्रकंपितः

॥१०९॥

चन्द्रशर्मोवाच

के यूयं विकृताकारा जंतूनां च भयानकाः ॥

पृथ्वीसमुद्भवा जीवा न दृष्टा न श्रुता मया

॥११०॥

प्रेता ऊचुः

मा भयं कुरु विप्रेंद्र तव पूर्वपितामहाः ॥

आगतास्त्वत्समीपे तु महादुःखेन पीडिताः

॥१११॥

चन्द्रशर्मोवाच

इष्टं दत्तं तपस्तप्तं भवद्भिर्मत्पितामहैः ॥

प्रेतत्वे कारणं यत्स्याद्भवतां विस्मयो मम

॥११२॥

प्रेता ऊचुः

शृणु पुत्र प्रवक्ष्यामः प्रेतयोनेस्तु कारणम् ॥

वासरं वासुदेवस्य सदा विद्धं कृतं पुरा

॥११३॥

प्रेतत्वं तेन संप्राप्तमस्माभिः शृणु पुत्रक ॥

विशेषेण कृतं रात्रौ विद्धं जागरणं हरेः

॥११४॥

पतनं नरके घोरे भविष्यति न संशयः ॥

त्वया सह न संदेहो यावदाभूतसंप्लवम्

॥११५॥

चन्द्रशर्मोवाच

हरिभक्तिविहीनानां द्वादशीव्रतवर्जिनाम् ॥

नाशं न याति प्रेतत्वं पूजितैः शंकरादिभिः

॥११६॥

न वा सन्तोषितो देवो भक्त्या त्रिपुरनाशनः ॥

प्रदास्यति गतिं नूनं प्रेतत्वं न गमिष्यति

॥११७॥

प्रेता ऊचुः

प्रायश्चित्तं विना पुत्र द्वादशीवेधसंभवम् ॥

आपन्न गच्छते नूनं प्रेतत्वं नैव गच्छति

॥११८॥

प्रायश्चित्ती सदा पुत्र पूजयानोऽपि शंकरम् ॥

विना केशवपूजाभिः पापं भजति गोवधम्

॥११९॥

प्रथमं केशवः पूज्यः पश्चाद्देवो महेश्वरः ॥

पूजनीयाश्च भक्त्या वै याश्चान्याः संति देवताः

॥१२०॥

मूलाच्छाखाः प्रशाखाश्च भवंति बहुशस्ततः ॥

वासुदेवात्समुद्भूतं जगदेतच्चराचरम्

॥१२१॥

तस्मान्मूलं परित्यज्य शाखां नैवार्चयेद्बुधः ॥

विशेषेण जगन्नाथं त्रैलोक्याधिपतिं हरिम्

॥१२२॥

तद्दिने ये प्रकुर्वंति सम्यग्वेधेन शोभितम् ॥

सशल्यं तन्न संदेहः प्रेतत्वं याति तेन च

॥१२३॥

हव्यं देवा न गृह्णन्ति कव्यं च पितरस्तथा ॥

पूजां गृह्णाति नो सूर्यस्तथा चैव पितामहाः

॥१२४॥

प्रेतास्ते ये प्रकुर्वंति सशल्यं वासरं हरेः ॥

पौर्णमासीद्वये प्राप्ते राका साग्निविवर्जिता

॥१२५॥

विशेषेण तु वैशाखी श्राद्धादीनां प्रशस्यते ॥

वैशाखे तु तृतीयां वै पूर्वविद्धां करोति यः

॥१२६॥

हव्यं देवा न गृह्णंति कव्यं चैव पितामहाः ॥

यत्र देवा न गृह्णंति कथं तत्र पितामहाः ॥

तस्मात्कार्य्या तृतीया च पूर्वविद्धा बुधैर्नरैः

॥१२७॥

कुर्वते यदि मोहाद्वा प्रेतत्वं शाश्वतं ततः ॥

नापयाति कृतैः पुण्यैर्बहुशस्तीर्थसेवनैः

॥१२८॥

दशमीं पौर्णमासीं च पित्रोः सांवत्सरं दिनम् ॥

पूर्वविद्धं प्रकुर्वाणो नरकं प्रतिपद्यते

॥१२९॥

दर्शश्च पौर्णमासी च साग्निकैः पूर्वसंयुता ॥

नाग्निहीनैस्तु कर्त्तव्या पुनराह प्रजापतिः

॥१३०॥

क्षयाहे तु पुनः प्रोक्ता स्वकालव्यापिनी तिथिः ॥

श्राद्धं तत्र प्रकर्तव्यं ह्रासवृद्धी न कारणम्

॥१३१॥

तत्रोक्तं मनुना पुत्र वेदांतैर्भाष्यकारिभिः ॥

तत्प्रमाणं प्रकर्तव्यं प्रेतत्वं भवतोऽन्यथा

॥१३२॥

एतै. प्रकारैः प्रेतत्वं प्राणिनां जायते भुवि ॥

निरीक्ष्य धर्मशास्त्राणि कार्य्यं विहितमात्मनः

॥१३३॥

प्रणम्य सोमनाथं तु यात्रां कृत्वा न गच्छति ॥

कृष्णस्य दर्शनार्थाय तस्य किं जायते फलम्

॥१३४॥

कथ्यते परमा मूर्तिर्हरिरीश्वरसं संस्थिता ॥

विभेदो नात्र कर्तव्यो यथा शंभुस्तथा हरिः

॥१३५॥

कृष्णस्य सोमनाथस्य नांतरं दृश्यते क्वचित् ॥

यात्रा श्रीसोमनाथस्य संपूर्णा कृष्णदर्शनात्

॥१३६॥

तस्मादुभयतः पुत्र गन्तव्यं नात्र संशयः ॥

दृष्ट्वा सोमेश्वरं देवं गंतव्यं द्वारकां प्रति

॥१३७॥

प्रभासे सोमनाथस्य लिंगमध्ये व्यवस्थितः ॥

स्वयं तिष्ठति पुण्यात्मा भोगं गृह्णाति केशवः

॥१३८॥

दृष्ट्वा सोमेश्वरं देवं द्वारकां न नरो गतः ॥

पतनं नरके घोरे पितॄणां च भविष्यति

॥१३९॥

विशेषेण त्वया वत्स न कृतं द्वादशीव्रतम् ॥

व्रतं कृतं यदस्माभिस्तत्कृतं वेधसंयुतम् ॥

निर्गमं यमलोकाद्धि तदस्माकं न दृश्यते

॥१४०॥

चन्द्रशर्मोवाच

यदि तात मयाऽज्ञानान्न कृतं द्वादशीव्रतम् ॥

कस्मात्कृतं सशल्यं तु भवद्भिर्द्वादशीव्रतम्

॥१४१॥

प्रेता ऊचुः

कुविप्रैस्तु कुदैवज्ञैः शुक्रमायाविमोहितैः ॥

पारुष्यताहेतुकैश्च प्रेतयोनिमिमां गताः

॥१४२॥

दत्तं तप्तं हुतं जप्तमस्माकं विफलं गतम् ॥

संप्राप्ता प्रेतयोनिस्तु सशल्याद्वादशीव्रतात्

॥१४३॥

सशल्यं ये प्रकुर्वंति वासरं केशव प्रियम् ॥

तेषां पितामहाः स्वर्गात्प्रेतत्वं यांति पुत्रक

॥१४४॥

चन्द्रशर्मोवाच

प्रेतत्वं नाशमायाति कथमेतत्पितामहाः ॥

कर्मणा केन तत्सर्वं यच्चाहं प्रकरोमि तत्

॥१४५॥

प्रेता ऊचुः

मा गयां मा प्रयागं च पुष्करे कुरुजांगले ॥

अयोध्यायामवंत्यां वा मधुरायां न चार्बुदे

॥१४६॥

न चान्यत्तीर्थलक्षं तु वर्जयित्वा तु गोमतीम् ॥

गंगा सरस्वती चैव नर्मदा नैव पुष्करम्

॥१४७॥

यादृशं गोमतीतीरे कलौ प्रेतत्वनाशनम् ॥

गोमतीनीरदानेन कृष्णवक्त्रविलोकनात्

॥१४८॥

विलयं यांति पापानि जन्मकोटिकृतान्यपि ॥

वृथा संन्यासिनां पुण्यं वृथा च वनवासिनाम्

॥१४९॥

सशल्यं वासरं विष्णोः कुर्वंति यदि पुत्रक ॥

तस्माद्गच्छ मुखं पश्य पूर्णचन्द्रसमं मुखम्

॥१५०॥

कृष्णस्य द्वारकां गत्वा यथास्माकं गतिर्भवेत् ॥

विफलं तव संजाता न कृतं यदुपार्ज्जितम्

॥१५१॥

तद्व्यर्थ सकलं जातं विना केशव पूजनात् ॥

विना केशवपूजायाः शंकरो यस्त्वयार्च्चितः ॥

तत्पुण्यं विफलं जातं प्रेतयोनिं गमिष्यसि

॥१५२॥

संपूर्णं तव पुण्यं च द्वारका कृष्णदर्शनात् ॥

भविष्यति न सन्देहो गोमत्युदधिसन्निधौ

॥१५३॥

दृष्ट्वा सोमेश्वरं देवं कृष्णं यदि न पश्यति ॥

यात्राफलं न चाप्नोति वदत्येवं स्वयं शिवः

॥१५४॥

दृष्टोऽहं तैर्न सन्देहो यैः कृतं कृष्णदर्शनम् ॥

एका मूर्तिर्न सन्देहो मम कृष्णस्य नांतरम्

॥१५५॥

दृष्ट्वा मां द्वारकां गत्वा कर्त्तव्यं कृष्णदर्शनम् ॥

दृष्ट्वा कृष्णं तु मां पश्येद्यास्यत्येव महाफलम्

॥१५६॥

कृष्णदर्शनपूतात्मा यो मां पश्यति मानवः ॥

न तस्य पुनरावृत्तिर्मम लोकाच्च वैष्णवात्

॥१५७॥

इत्याह देवदेवेशः स्वयं सोमपतिः पुरा ॥

विप्राणां श्रुतमस्माभिर्वदतां पुष्करे सताम्

॥१५८॥

तस्माद्गच्छ प्रयाणार्थ कुरु कृष्णस्य दर्शनम् ॥

अन्यथा यास्यसे योनिं पैशाचीं पापदायिनीम्

॥१५९॥

कृतापराधोऽपि यदा कुरुते कृष्णदर्शनम् ॥

मुच्यते नाऽत्र संदेहः पापाज्जन्मकृतादपि

॥१६०॥

पूजिते देवदेवेशे कृष्णे देवकिनन्दने ॥

पूजिता देवताः सर्वा ब्रह्मरुद्रभगादिकाः

॥१६१॥

विना कृष्णस्य पूजां च रुद्राद्यास्त्रिदिवौकसः ॥

पूजिता नैव कुर्वंति तुष्टिं पुत्र पितामहाः

॥१६२॥

तस्माद्द्वारवतीं गत्वा कृष्णस्य दर्शनं कुरु ॥

प्रेतयोनेर्विनिर्मुक्ता यास्यामः परमां गतिम्

॥१६३॥

गोमतीनीरधौतानि यस्यांगानि कलौ युगे ॥

मुनिभिर्योनिगमनं तस्य दृष्टं न पुत्रक

॥१६४॥

ताडिताः पादयुग्मेन गोमतीनीरवीचयः ॥

अगतीनां प्रकुर्वति गतिं वै ब्रह्मवादिनाम्

॥१६५॥

यः पुनः कुरुते श्राद्धं गोमत्युदधिसंगमे ॥

पितॄणां जायते तृप्तिर्यावदाभूतसंप्लवम्

॥१६६॥

ससागरधरायां च सर्वतीर्थेषु यत्फलम् ॥

दिनेनैकेन तत्पुण्यं द्वारकाकृष्णसन्निधौ

॥१६७॥

यत्फलं त्रिदशैर्दृष्टं सर्वतीर्थसमुद्भवम् ॥

तत्फलं लभते सर्वं द्वारकायां दिनेदिने

॥१६८॥

तीर्थकोटिसहस्रैस्तु कृतैः श्राद्धैश्च यत्फलम् ॥

पितॄणां तत्फलं प्रोक्तं गोमतीतिलतर्पणात्

॥१६९॥

यतीनां भोजनं यस्तु यच्छते कृष्णमन्दिरे ॥

सिक्थेसिक्थे भवेत्तृप्तिः पितॄणां युगसंख्यया

॥१७०॥

कौपीनाच्छादनं छत्रं पादुके च कमण्डलुम् ॥

दत्त्वा संन्यासिनां याति सप्त कल्पानि तत्फलम्

॥१७१॥

धन्यास्ते मानवाः पुत्र वसन्ति श्वपचादयः ॥

द्वारकायां गतिं यांति वसतां तत्र योगिनाम्

॥१७२॥

त्रिकालं ये प्रपश्यंति वदनं प्रत्यहं हरेः ॥

न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि

॥१७३॥

या नारी विधवा भूत्वा कुरुते द्वारकाश्रयम् ॥

कुलायुतसहस्रं तु नयते परमं पदम्

॥१७४॥

पुत्रेणापीह किं कार्य्यं न गतो द्वारकां यदि ॥

नारी पुत्रशताच्छ्रेष्ठा गत्वा कृष्णपुरीं वसेत्

॥१७५॥

कृष्णं कृष्णपुरीं गत्वा योऽर्च्चयेत्तुलसीदलैः ॥

प्राप्तं जन्मफलं तेन तारिताः प्रपितामहाः

॥१७६॥

तुलसीदलमालां तु कृष्णोत्तीर्णां तु यो वहेत् ॥

पत्रेपत्रेऽश्वमेधानां दशानां लभते फलम्

॥१७७॥

तुलसीकाष्ठसंभूतां यो मालां वहते नरः ॥

फलं यच्छति दैत्यारिः प्रत्यहं द्वारकोद्भवम्

॥१७८॥

निवेद्य विष्णवे मालां तुलसीकाष्ठसंभवाम् ॥

वहते यो नरो भक्त्या तस्य नैवास्ति पातकम् ॥

सदा प्रीतमनास्तस्य कृष्णो देवकिनंदनः

॥१७९॥

तुलसीकाष्ठसंभूतं शिरोबाह्वादिभूषणम् ॥

जायते यस्य मर्त्यस्य तस्य देहे सदा हरिः

॥१८०॥

तुलसीमालया यस्तु भूषितः कर्म चाऽऽचरेत् ॥

पितॄणां देवतानां च कृतं कोटिगुणं कलौ

॥१८१॥

तुलसीकाष्ठमालां तु प्रेतराजस्य दूतकाः ॥

दृष्ट्वा दूरेण नश्यंति वातोद्धूता यथाऽलयः

॥१८२॥

जायते तद्ग्रहे नैव पापसंक्रमणं कुतः ॥

श्रुतं पुराणमस्माभिः कथितं ब्रह्मवादिभिः

॥१८३॥

तस्मान्माला त्वया धार्य्या तुलसीकाष्ठसंभवा ॥

हरते नात्र संदेह ऐहिकामुष्मिकं त्वघम्

॥१८४॥

तुलसीमालया यस्तु भूषितो भ्रमते यदि ॥

दुःस्वप्नं दुर्निमित्तं च न भयं शात्रवं क्वचित्

॥१८५॥

कृत्वा वै तीर्थसंन्यासं यतयो विधवाः स्त्रियः ॥

जीवन्मुक्ताः कलौ ज्ञेयाः कुलकोटिसमन्विताः

॥१८६॥

धारयंति न ये मालां हैतुकाः पापमोहिताः ॥

नरकान्न निवर्तंते दग्धाः कोपाग्निना हरेः

॥१८७॥

उन्मीलिनी वंजुलिनी त्रिस्पृशा पक्षवर्द्धिनी ॥

त्वया पुत्र प्रकर्त्तव्या जयंती विजया जया

॥१८८॥

पापघ्नी चाष्टमी प्रोक्ता कृष्णस्यातीव वल्लभा ॥

कृता कलौ युगे पुत्र द्वारका मोक्षदायिनी

॥१८९॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे चतुर्थे द्वारकामाहात्म्ये द्वारकागमनमाहात्म्य तुलसीधारणमाहात्म्यवर्णनंनाम त्रयोविंशतितमोऽध्यायः ॥ २३ ॥