मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — द्वारकामाहात्म्यम्, अध्याय १६

3
प्रभासखण्डः · द्वारकामाहात्म्यम् · 16

तीर्थवृन्दमाहात्म्यवर्णनम्

प्रह्लाद उवाच

ततो गच्छेद्द्विजश्रेष्ठा गदातीर्थमनुत्तमम् ॥

यत्र स्नात्वा नरो भक्त्या लभेद्भूदानजं फलम्

॥१॥

तर्पयेत्पितृदेवांश्च ऋषींश्चैव यथाक्रमम् ॥

श्राद्धं च कारयेत्तत्र पितॄणां तृप्तिहेतवे

॥२॥

गदातीर्थे तु देवेशं विष्णुं वाराहरूपिणम् ॥

समभ्यर्च्य नरो भक्त्या विष्णुलोके महीयते

॥३॥

नागतीर्थं ततो गच्छेत्सरः परमशो भनम् ॥

यत्र स्नात्वा नरः सम्यङ्नागलोकमवाप्नुयात्

॥४॥

भद्रतीर्थं ततो गच्छेत्सरस्त्रिभुवनार्चितम् ॥

स्नानमात्रेण लभते तिलधेनुफलं नरः

॥५॥

चित्रातीर्थं ततो गच्छेत्सरः परमशोभनम् ॥

स्नानमात्रेण लभते घृतधेनुफलं नरः

॥६॥

यदा द्वारावती विप्रा प्लाविता सागरेण हि ॥

पुण्यानि बहुतीर्थानि च्छन्नानि जलपांसुभिः

॥७॥

दृश्यानि कतिचित्संति ह्यदृश्यान्यपराणि च ॥

तानि सर्वाणि विप्रेन्द्राः कथयिष्यामि सर्वतः

॥८॥

चंद्रभागां ततो गच्छेत्सर्वपापप्रणाशिनीम् ॥

यत्र स्नात्वा नरो भक्त्या वाजपेयफलं लभेत्

॥९॥

देवी चंद्रार्चिता यत्र यशोदा नंदनंदिनी ॥

कौमारिका शक्तिहस्ता खङ्गखेटकधारिणी

॥१०॥

केश्यादिदैत्यदलिनी स्वसा वै रामकृष्णयोः ॥

यस्या दर्शनमात्रेण सर्वान्कामानवाप्नुयात्

॥११॥

ततो गच्छेत विप्रेन्द्रास्तीर्थं महिषसंज्ञकम् ॥

यस्य दर्शनमात्रेण मुच्यते सर्वपातकैः

॥१२॥

मुक्तिद्वारं ततो गच्छेत्तीर्थं पाप प्रणाशनम्

॥१३॥

वसिष्ठेन समानीता मुनिना यत्र गोमती ॥

स्नातो भवति गंगायां यत्र स्नात्वा कलौ युगे

॥१४॥

गोमती निःसृता यस्मा त्प्रविष्टा वरुणालयम् ॥

तत्र स्नात्वा नरो भक्त्या अश्वमेधफलं लभेत्

॥१५॥

भृगुणा हि तपस्तप्तं स्थापिता यत्र चांबिका ॥

भृग्वर्चिता ततो देवी प्रसिद्धा श्रूयते क्षितौ

॥१६॥

संसिद्धिं परमां याति यस्याः संस्मरणान्नरः ॥

शिवलिंगान्यनेकानि यत्र सन्ति महीतले

॥१७॥

ततो गच्छेत विप्रेन्द्राः कालिन्दीसर उत्तमम् ॥

कालिन्दी सूर्यतनया सरश्चक्रे त्वनुत्तमम्

॥१८॥

तत्र स्नात्वा नरो भक्त्या न दुर्गतिमवाप्नुयात् ॥

सांबतीर्थं ततो गच्छेत्सर्वपापप्रणाशनम्

॥१९॥

कृत्वा श्राद्धं च विधिवल्लभेद्गोदानजं फलम्

॥२०॥

गच्छेच्च शांकरं तीर्थं ततस्त्रैलोक्यपावनम् ॥

यत्र स्नात्वा नरो भक्त्या लभेद्बहुसुवर्णकम्

॥२१॥

ततो नागसरो गच्छेत्तीर्थं पापप्रणाशनम् ॥

पितॄन्सन्तर्प्य विधिवन्नागलोकमवाप्नुयात्

॥२२॥

लक्ष्मीं नदीं ततो गच्छेद्गच्छन्तीं सागरं प्रति ॥

यस्या दर्शनमात्रेण मुच्यते सर्वपातकैः

॥२३॥

श्राद्धे कृते तु विप्रेन्द्राः पितरो मुक्तिमाप्नुयुः ॥

दाने मनोरथावाप्तिर्जायते नात्र संशयः

॥२४॥

कंबुसरस्ततो गच्छेत्तीर्थं पापप्रणाशनम् ॥

तर्पणे च कृते श्राद्धे ह्यग्निष्टोमफलं लभेत्

॥२५॥

कुशतीर्थं ततो गच्छेत्स्नात्वा सन्तर्पयेत्पितॄन् ॥

दानं दत्त्वा यथाशक्त्या निर्मलं लोकमाप्नुयात्

॥२६॥

द्युम्नतीर्थं च तत्रैव सर्वपापप्रणाशनम् ॥

कृत्वा श्राद्धं च तत्रैव वाजिमेधफलं लभेत्

॥२७॥

कुशतीर्थं ततो गच्छेत्पितॄणां तृप्तिरक्षया ॥

यत्र श्राद्धात्तर्पणाच्च जायते नात्र संशयः

॥२८॥

जालतीर्थं ततो गच्छेत्सर्वपापहरं शुभम् ॥

दुर्वाससा यत्र शप्ताः कोपाद्यदुकुमारकाः

॥२९॥

देवो जालेश्वरस्तत्र सं बभूव उमापतिः ॥

जालेश्वरं नरो दृष्ट्वा सद्यः पापात्प्रमुच्यते

॥३०॥

संपूज्य देवं भक्त्या च शिवलोकमवाप्नुयात्

॥३१॥

चक्रस्वामिसुतीर्थं च ततो गच्छेद्धि मानवः ॥

कृत्वा स्नानं पितॄंस्तर्प्य विष्णुलोकमवाप्नुयात्

॥३२॥

जरत्कारुकृतं तीर्थं सर्वपापप्रणाशनम् ॥

स्नात्वा तत्र द्विजश्रेष्ठा न दुर्गतिमवाप्नुयात्

॥३३॥

ततो गच्छेद्द्विजश्रेष्ठास्तीर्थं खञ्जनकाभिधम् ॥

आसीत्खञ्जनको नाम दैत्यश्चातिबलान्वितः

॥३४॥

ततः खञ्जनकं तीर्थं तस्य नाम्नेति विश्रुतम् ॥

तत्र स्नात्वा नरो याति सोमलोकं न संशयः

॥३५॥

सन्ति तीर्थान्यनेकानि सुगुप्तानि द्विजोत्तमाः ॥

तानि गच्छेत्तु विप्रेन्द्राः सर्वपापापनुत्तये

॥३६॥

ततो गच्छेद्द्विजश्रेष्ठास्तीर्थमानकदुन्दुभेः ॥

शूरतीर्थं परमकं गदतीर्थमतः परम्

॥३७॥

गावल्गणस्य तीर्थं च अक्रूरस्य महात्मनः ॥

बलदेवस्य तीर्थं तु उग्रसेनस्य चापरम्

॥३८॥

अर्जुनस्य च तीर्थं तु सुभद्रातीर्थमेव च ॥

देवकीतीर्थमाद्यं तु रोहिणीतीर्थमेव च

॥३९॥

उद्धवस्य च तीर्थं तु सारंगाख्यं तथैव च ॥

सत्यभामाकृतं तीर्थं भद्रातीर्थमतः परम्

॥४०॥

जामदग्न्यस्य तीर्थं तु रामस्य च महात्मनः ॥

भासतीर्थं च तत्रैव शुकतीर्थमतः परम्

॥४१॥

कर्दमस्य च तीर्थं तु कपिलस्य महात्मनः ॥

सोमतीर्थं च तत्रैव रोहिणीतीर्थमेव च

॥४२॥

एतान्यन्यानि संक्षेपान्मया वः कथितानि च ॥

सर्वपापहराणीह मोक्षदानि न संशयः

॥४३॥

प्रच्छन्नानि द्विजवरास्तीर्थानि कलिसंक्रमे ॥

प्लावितानि समुद्रेण पांसुनाऽप्युदकेन च

॥४४॥

एतन्मया वः कथितं संक्षेपात्तीर्थविस्तरम् ॥

आत्मप्रज्ञानुमानेन किमन्यच्छ्रोतुमिच्छथ

॥४५॥

शृणुयात्परया भक्त्या तीर्थयात्रामिमां द्विजाः ॥

सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति

॥४६॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारका माहात्म्ये तीर्थवृन्दमाहात्म्यवर्णनंनाम षोडशोऽध्यायः ॥ १६ ॥