कृत्वा जागरणं विष्णोर्यथान्यायं नरेश्वर
मार्कण्डेय उवाच
कृत्वा जागरणं विष्णोर्यथान्यायं नरेश्वर ॥
पितॄन्यच्छति पुण्यं च ततः किं कुरुते यमः
॥१॥भुक्तो वा यदि वाऽभुक्तः स्वच्छो वाऽस्वच्छ एव वा ॥
विमुक्तिः कथिता तत्र हरिजागरणान्नृणाम्
॥२॥अस्नातो वा नरः स्नातो जागरे समुपस्थिते ॥
सर्वतीर्थाप्लुतो ज्ञेयस्तं दृष्ट्वा दिवमाव्रजेत्
॥३॥श्वपचा जागरं कृत्वा पदं निर्वाणमागताः ॥
किं पुनर्वर्णसंभूताः सदाचारपरास्तथा
॥४॥युवतीनादमाकर्ण्य यथा निद्रा न जायते ॥
जागरे चैवमेव स्यात्तत्कथानां च कीर्तने
॥५॥ब्रह्महत्या सुरापानं स्तेयं गुर्वंगनागमः ॥
उत्कल्लनं मनःपापं शोधयेद्विष्णु जागरः
॥६॥विमुक्तिः कामुकस्योक्ता किं पुनर्वीक्षतां हरिम्
॥७॥वाचिकं मानसं पापं करणैर्यदुपार्जितम् ॥
अन्यैर्निमिषमात्रेण व्यपोहति न संशयः
॥८॥गोष्ठ्यां समागता ये तु तेषां पापं कुतः स्मृतम् ॥
मातृपूजा गयाश्राद्धं सुतीर्थगमनं तथा ॥
जागरस्य नृणां राजन्समानि कवयो विदुः
॥९॥जननीपूजनं भूप ह्यश्वमेधायुतैः समम् ॥
पूर्णं वर्षशतं भूप कुशाग्रेणोद्धृतं जलम्
॥१०॥पिबन्पात्रे द्विजः सम्यक्तीर्थे पुष्करसंज्ञिते ॥
जागरस्यैव चैतानि कलां नार्हंति षोडशीम्
॥११॥कृत्वा कांचनसंपूर्णां वसुधां वसुधाधिप ॥
दत्त्वा यत्फलमाप्नोति तत्फलं हरिजागरे
॥१२॥निकृंतनं कर्मणश्च ह्यात्मना दुष्कृतं कृतम् ॥
व्यपोहति न संदेहो येन जागरणं कृतम् ॥
संक्षेपतः प्रवक्ष्यामि पुनरेव महीपते ॥
जागरे पद्मनाभस्य यत्फलं कवयो विदुः
॥१४॥रवेर्बिंबमिदं भित्त्वा स योगी हरिजागरे ॥
प्रयाति परमं स्थानं योगिगम्यं निरंजनम् ॥
सांख्ययोगैः सुदुःखेन प्राप्यते यत्पदं हरेः
॥१५॥नद्यो नदा यथा यांति सागरे संस्थितिं क्रमात् ॥
एवं जागरणात्सर्वे तत्पदे यांति संस्थितिम्
॥१६॥मेरुमंदरमानानि कृत्वा पापानि वा नरः ॥
हरिजागरणे तानि व्यपोहति न संशयः
॥१७॥राज्यं स्वर्गं तथा मोक्षं यच्चान्यदीप्सितं नृणाम् ॥
ददाति भगवान्कृष्णः स्वगीतैर्जागरे स्थितः
॥१८॥जागरेणैव पापानां श्वपचानां महीपते ॥
तत्पदं कविभिः प्रोक्तं किं पुनस्तु द्विजन्मनाम्
॥१९॥जपध्यानविहीनस्य गायकस्यापि भूपते ॥
कर्मभ्रष्टस्य च प्रोक्तो मोक्षस्तु हरिजागरे
॥२०॥तन्नास्ति त्रिषु लोकेषु पुण्यं पुण्यवतां नृणाम् ॥
यत्तु साधयते भूप जागरे संव्यवस्थितः
॥२१॥त्वया पुनरिदं कार्य्यं स्मर्त्तव्यो गरुडध्वजः ॥
एकादश्यां न भोक्तव्यं कर्तव्यं जागरं सदा
॥२२॥जागरे वर्त्तमानस्य श्वपचस्य गतिर्भवेत् ॥
किंपुनर्वर्णजातीनां वैष्णवानां महीपते
॥२३॥ये तु जागरणे निद्रां न यांति नृपपुंगव ॥
न तेषां जननी याति खेदं गर्भावधारणात्
॥२४॥तस्माज्जागरणं कार्य्यं मातुर्जठरवर्जिभिः ॥
भीतेर्मोक्षपरैर्मर्त्यैः सुखचेष्टाबहिष्कृतैः
॥२५॥यस्तु जागरणं रात्रौ कुर्याद्भक्तिसमन्वितः ॥
निमिषेनिमिषे राजन्नश्वमेधफलं लभेत्
॥२६॥शयनो त्थापनाभ्यां च समं पुण्यमुदाहृतम् ॥
विशेषो नास्ति भूपाल विष्णुना कथितं पुरा
॥२७॥ब्राह्मणाः क्षत्रिया वैश्याः स्थिताः शूद्राश्च जागरे ॥
पक्षिणः कृमिकीटाश्च ह्यनेके चैव जंतवः ॥
ते गताः परमं स्थानं योगिगम्यं निरंजनम्
॥२८॥यानि कानि च पापानि ब्रह्महत्यासमानि च ॥
कृष्णजागरणे तानि क्षयं यांति न संशयः
॥२९॥एकतः क्रतवः सर्वे सर्वतीर्थसमन्विताः ॥
एकतो देवदेवस्य जागरः कृष्णवल्लभः ॥
न समं ह्यधिकः प्रोक्तः कविभिः कृष्णजागरः
॥३०॥सूर्यशक्रादयो देवा ब्रह्मरुद्रादयो गणाः ॥
नित्यमेव समायांति जागरे कृष्णवल्लभे
॥३१॥गंगा सरस्वती रेवा यमुना च शतह्रदा ॥
चंद्रभागा वितस्ता च नद्यः सर्वाश्च तत्र वै
॥३२॥सरांसि च ह्रदाश्चैव समुद्राः कृत्स्नशो नृप ॥
एकादश्यां नृपश्रेष्ठ गच्छंति हरिजागरे
॥३३॥स्पृहणीयास्तु देवेभ्यो ये नराः कृष्णजागरे ॥
नृत्यं गीतं प्रकुर्वंति वीणावाद्यं तथैव च
॥३४॥भक्त्या वाऽप्यथवाऽभक्त्या शुचिर्वाप्यथवाऽशुचिः ॥
कृत्वा जागरणं विष्णोर्मुच्यते पापकोटिभिः
॥३५॥पादयोः पांसुकणिका यावत्तिष्ठंति भूतले ॥
तावद्वर्षसहस्राणि जागरी वसते दिवि
॥३६॥तस्माद्गृहं प्रगन्तव्यं जागरे माधवस्य च ॥
कलौ मलविनाशाय द्वादशद्वादशीषु च
॥३७॥सुबहून्यपि पापानि कृत्वा जागरणं हरेः ॥
निर्द्दहेन्मेरुतुल्यानि युगकोटिशतान्यपि
॥३८॥उन्मीलिनी महीपाल यैः कृता प्रीतिसंयुतैः ॥
कलौ जागरणोपेता फलं वक्ष्यामि तच्छृणु
॥३९॥स्थितौ युगसहस्रं तु पादेनैकेन भूतले ॥
काश्यां च जाह्नवीतीरे तत्फलं लभते नरः
॥४०॥भवेद्युगसहस्रं च विनाऽऽहारेण यत्फलम् ॥
उन्मीलिनीं समासाद्य फलं जागरणे हरेः
॥४१॥दुष्प्राप्यं वैष्णवं स्थानं मखकोटिशतैः कृतैः ॥
हेलया प्राप्यते नूनं द्वादश्यां जागरे कृते
॥४२॥न कुर्वंति व्रतं विष्णोर्जागरेण समन्वितम् ॥
परस्वं पारदार्यं च पापं तान्प्रति गच्छति
॥४३॥एकेनैवोपवासेन भावहीनास्तु मानवाः ॥
निर्द्दग्धाऽखिलपापास्ते प्रयांति स्वर्गकाननम्
॥४४॥यत्र भागवतं शास्त्रं यत्र जागरणं हरेः ॥
शालिग्रामशिला यत्र तत्र गच्छेद्धरिः स्वयम्
॥४५॥न पुर्य्यः पावनाः सप्त कलौ वेदवचो नहि ॥
यादृशं वासरं विष्णोः पावनं जागरान्वितम्
॥४६॥संप्राप्ते वासरे विष्णोर्ये न कुर्वंति जागरम् ॥
मज्जंति नरके घोरे नरानार्य्यो न संशयः
॥४७॥इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्ये द्वादशीजागणरणमाहात्म्यवर्णनंनामाष्टाविंशतितमोऽध्यायः ॥ २८ ॥