मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — द्वारकामाहात्म्यम्, अध्याय २

3
प्रभासखण्डः · द्वारकामाहात्म्यम् · 2

रुक्मिणीशापवृत्तान्तवर्णनम्

प्रह्लाद उवाच

सर्वेषामपि भूतानां दैत्यदानवरक्षसाम् ॥

भवन्तो वै पूज्यतमा देवादीनां तथैव च

॥१॥

अनुज्ञया तु युष्माकं प्रसादात्केशवस्य हि ॥

अधिष्ठानं भगवतः कथयामि निबोधत

॥२॥

पश्चिमस्य समुद्रस्य तीरमाश्रित्य तिष्ठति ॥

कुशस्थलीति या पूर्वं कुशेन स्थापिता पुरी

॥३॥

वहते गोमती यत्र सागरेण समंततः ॥

द्वारावतीति सा विप्रा आनर्त्तेषु प्रकीर्त्तिता

॥४॥

तस्यां वसति विश्वात्मा सर्वकामप्रदो हरिः ॥

कला षोडशसंयुक्तो मूर्तिं द्वादशकान्वितः

॥५॥

तदेव परमं धाम तदेव परमं पदम् ॥

द्वारका सा च वै धन्या यत्राऽऽस्ते मधुसूदनः

॥६॥

यत्र कृष्णश्चतुर्बाहुः शंखचक्रगदाधरः ॥

नरा मुक्तिं प्रयास्यंति तत्र गत्वा कलौ युगे

॥७॥

तच्छ्रुत्वा वचनं तस्य प्रह्लादस्य महात्मनः ॥

विस्मयाविष्टमनसस्त- मूचुर्मुनिसत्तमाः

॥८॥

ऋषय ऊचुः

क्षयं यदुकुले याते भारे चोपहृते भुवः ॥

प्रभासे यादवश्रेष्ठः स्वस्थानमगमद्धरिः

॥९॥

द्वारावत्या प्लावितायां समंतात्सागरेण हि ॥

कथं स भगवांस्तत्र कलौ दैत्य प्रकीर्त्यते

॥१०॥

कथयस्व सुरश्रेष्ठ कथं विष्णुर्महीतले ॥

स्थितश्चानर्त्तविषय एतद्विस्तरतो वद

॥११॥

उग्रसेने नरपतौ प्रशासति वसुन्धराम् ॥

कृष्णो यदुपुरीमेतां शोभयामास सर्वतः

॥१२॥

रममाणे रमानाथे रामाभिरमणे हरौ ॥

एकदा तु समासीने सभायां यदुसत्तमे १३ ॥

कथाभिः क्रियमाणाभिर्विचित्राभिरनेकधा ॥

उद्धवः कथयामास प्रचारं यदुनंदनम्

॥१४॥

यात्रायामनुसंप्राप्तं दुर्वाससमकल्मषम् ॥

स्थितं तं गोमतीतीरे चक्रतीर्थसमीपतः

॥१५॥

तच्छ्रुत्वा सहसोत्थाय भगवान्रुक्मिणीगृहम् ॥

जगाम हृष्टमनसा विश्वशक्तिरधोक्षजः

॥१६॥

आगत्योवाच वैदर्भीं संप्राप्तमृषिसत्तमम् ॥

तपोनिर्धूत पाप्माऽयमत्रिपुत्रो महातपाः

॥१७॥

आतिथ्येनार्चितो विप्रो दास्यते च महोदयम् ॥

गृहिणी न गृहे यस्य सत्पात्रागमनं वृथा

॥१८॥

तस्य देवा न गृह्णंति पितरश्च तथोदकम् ॥

तदागच्छस्व गच्छामो निमंत्रयितुमत्रिजम्

॥१९॥

तथेत्युक्त्वा तु सा देवी रथमारुरुहे सती ॥

रथमारुह्य देवेशो रुक्मिण्या सहितो हरिः ॥

जगाम तत्र यत्रास्ते दुर्वासा मुनिसत्तमः

॥२०॥

दृष्ट्वा ज्वलंतं तपसा कूले नदनदीपतेः ॥

कापालिकस्य पुरतः सुस्नातं वरसीकरैः

॥२१॥

प्रणम्य भगवान्भक्त्या पप्रच्छाऽनामयं ततः ॥

पश्चाद्विदर्भतनया रुक्मिणी प्रणनाम तम्

॥२२॥

दुर्वासाश्चापि तौ दृष्ट्वा दर्शनार्थमुपागतौ ॥

पप्रच्छ कुशलं तत्र स्वागतेनाभिनंद्य च

॥२३॥

दुर्वासा उवाच

कुशलं कृष्ण सर्वत्र कुत्र वासस्तवाऽधुना ॥

कति दारा धनापत्यमेतद्विस्तरतो वद

॥२४॥

श्रीकृष्ण उवाच

समुद्रेण प्रदत्ता मे भूभिर्द्वादशयोजना ॥

तस्यां निवसतो ब्रह्मन्पुरी हेममयी मम

॥२५॥

प्रासादास्तत्र सौवर्णा नवलक्षाणि संख्यया ॥

तस्यां वसामि संहृष्टस्त्वत्प्रसादात्सुनिर्भयः

॥२६॥

तच्छुत्वा वचनं तस्य विस्मयाविष्टमानसः ॥

प्रत्युवाच स दुर्वासाः प्रहस्य मधुसूदनम्

॥२७॥

वसंति तावका ये च तेषां संख्या वदस्व भोः ॥

यावत्यश्च महिष्यस्ते पुत्राः परिजनास्तथा

॥२८॥

श्रीकृष्ण उवाच

ब्रह्मन्षोडशसाहस्रं भार्य्याश्चाष्टाधिका मम ॥

तासां मध्येऽभीष्टतमा विदर्भाधिपतेः सुता

॥२९॥

एकैकस्या दश सुताः कन्या चैका तथा मुने ॥

षट्पंचाशद्यदूनां तु कोट्यः परिजनो मम

॥३०॥

शेषाः प्रकृतयो ब्रह्मंस्तेषां संख्या न विद्यते ॥

तच्छ्रुत्वा चिंतयामास किमेतदिति विस्मितः

॥३१॥

अहो ह्यनंतवीर्यस्य मायामाश्रित्य तिष्ठतः ॥

अनंता सर्वकर्तृत्वे प्रवृत्तिर्दृश्यतामिय म्

॥३२॥

दुर्वासा उवाच

स्वागतं ते महाबाहो ब्रूहि किं करवाणि ते ॥

दर्शनेन त्वदीयेन प्रीतिमेति च मे मनः

॥३३॥

श्रीकृष्ण उवाच

यदि प्रसन्नो भगवांस्तदागच्छस्व मे गृहम् ॥

शिरसा धार्य्य पादांबु प्रयास्यामि पवित्रताम्

॥३४॥

दुर्वासा उवाच

अक्षमासारसर्वस्वं किं मां नयसि माधव ॥

नय मां यदि मद्वाक्यं करोषि सह भार्यया

॥३५॥

प्रह्लाद उवाच

एवमस्त्विति चोक्त्वा स प्रस्थितः स्वरथेन हि।

तं दृष्ट्वा प्रस्थितं विष्णुं प्रहस्योवाच भर्त्सयन्

॥३६॥

दुर्वासा उवाच

दुर्वाससं न जानासि मुञ्चेमान्हयसत्तमान् ॥

त्वं च भार्या तथा चेयं वहतं स्वरथेन माम्

॥३७॥

श्रीकृष्ण उवाच

भगवन्यथा प्रब्रवीषि विप्र कर्तास्मि तत्तथा ॥

त्वया कृपालुना ब्रह्मन्पारितोऽहं सबांधवः

॥३८॥

प्रह्लाद उवाच

तौ तथा ऋषिवर्य्योऽसौ युक्तां देवीं रथे स्वके ॥

तथैव पुण्डरीकाक्षं याहि याहीत्यभाषत

॥३९॥

तं दृष्ट्वा देवताः सर्वा वहमानं रथं हरिम् ॥

साधुसाध्विति भाषंत ऊचुः सर्वे परस्परम्

॥४०॥

अहो ब्रह्मण्यदेवस्य परां भक्तिं प्रपश्यत ॥

स्कन्धे कृत्वा धुरं यो हि वहते भार्य्यया सह

॥४१॥

विकीर्यमाणः कुसुमैः सुरसंघैर्जनार्दनः ॥

जगाम स रथं गृह्य सभार्यो द्वारकां प्रति

॥४२॥

उह्यमाने रथे तस्मिन्रुक्मिणी तृषिताऽभवत् ॥

उवाच कृष्णं वैदर्भी श्रमव्याकुललोचना

॥४३॥

श्रान्ता भारपरिक्लिष्टा वहती कोपनं द्विजम् ॥

पाययित्वोदकं कान्त नय मां मन्दिरं स्वकम्

॥४४॥

तच्छ्रुत्वा वचनं तस्याः पादाक्रान्त्या धरातलात् ॥

आनयामास भगवान्गगां त्रिपथगां शुभाम्

॥४५॥

तद्दृष्ट्वा निर्मलं शीतं सुगंधं पावनं तथा ॥

पपौ पिपासिता देवी रुक्मिणी जाह्नवीजलम्

॥४६॥

पीतं तया जलं दृष्ट्वा चुकोप ऋषिसत्तमः ॥

जज्वाल ज्वलनप्रख्यः शशाप परमेश्वरीम्

॥४७॥

दुर्वासा उवाच

मामपृष्ट्वा जलं यस्मात्पीतवत्यसि रुक्मिणी ॥

तस्मात्पानरता नित्यं भविष्यसि न संशयः

॥४८॥

अवियुक्ता रथाद्यस्मान्मामपृष्ट्वा जलं त्वया ॥

पीतं तस्माच्च कृष्णेन वियुक्ता त्वं भविष्यसि

॥४९॥

प्रह्लाद उवाच

एतावदुक्त्वा वचनं क्रोधसंरक्तलोचनः ॥

परित्यज्य रथं विप्रो भूमावेवावतिष्ठति

॥५०॥

एवं शप्ता तदा देवी रुदोदातीव विह्वला ॥

उवाच कृष्णं करुणं कथं स्थास्ये त्वया विना

॥५१॥

श्रीकृष्ण उवाच

आयास्ये प्रत्यहं देवि द्विकालं भवनं तव ॥

यो मां पश्यति चात्रस्थं स त्वामेव प्रपश्यति

॥५२॥

मां हि दृष्ट्वा नरो यस्तु त्वां न पश्यति भक्तितः ॥

अर्द्ध्ं यात्रा फलं तस्य भविष्यति न संशयः

॥५३॥

आश्वास्य च प्रियामेवं ब्राह्मणं यदुनन्दनः ॥

ततः प्रसादयामास दुर्वाससमकल्मषम्

॥५४॥

बाह्यो पवनमध्ये तु पूजयामास तं तथा ॥

अवनिज्य स्वयं पादौ विप्रपादावनेजनम् ॥

धारयामास शिरसा जगतः पावनो हरिः

॥५५॥

दत्त्वार्घ्यं गां च विप्राय मधुपर्कं स भक्तितः ॥

विधिवद्भोजयामास षड्रसेन द्विजोत्तमम्

॥५६॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्ये दुर्वासो द्वारकानयन दुर्वासोदत्त रुक्मिणीशापवृत्तान्तवर्णनं नाम द्वितीयोऽध्यायः ॥ २ ॥