धन्यास्तु नरलोकास्ते गोमत्यां तु कृतोदकाः
श्रीप्रह्लाद उवाच
धन्यास्तु नरलोकास्ते गोमत्यां तु कृतोदकाः ॥
पूजयिष्यंति ये कृष्णं केतकीतुलसीदलैः
॥१॥न तेषां संभवोऽस्तीह घोरसंसा रगह्वरे ॥
तेषां मृत्युः पुनर्नास्ति ह्यमरत्वं हि ते गताः
॥२॥अन्यत्र वै यतीनां तु कोटीनां यत्फलं भवेत् ॥
द्वारकायां तु चैकेन भोजितेन ततोऽधिकम्
॥३॥अतीतं वर्त्तमानं च भविष्यद्यच्च पातकम् ॥
निर्द्दहेन्नास्ति संदेहो द्वारका मनसा स्मृता
॥४॥ज्ञात्वा कलियुगे घोरे हाहाभूतमचेतनम् ॥
द्वारकां ये न मुञ्चन्ति कृतार्थास्ते नरोत्तमाः
॥५॥मृतानां यत्र जंतूनां श्वेतद्वीपे स्थितिः सदा
॥६॥अग्निष्वात्ता बर्हिषद आज्यपाः सोमपाश्च ये ॥
एकविंशतिः पितृगणा द्वारकायां वसंति ते
॥७॥पुष्करादीनि तीर्थानि गंगाद्याः सरितस्तथा ॥
कुरुक्षेत्रादि क्षेत्राणि काश्यादीन्यूषराणि च
॥८॥गयादिपितृतीर्थानि प्रभासाद्यानि यानि च ॥
स्थानानि यानि पुण्यानि ग्रामाश्च निवसंति वै
॥९॥काश्यादिपुर्यो या नित्यं निवसंति कलौ युगे ॥
नित्यं कृष्णस्य सदने पापिनां मुक्तिदे सदा
॥१०॥वैशाखशुक्लद्वादश्यां प्रबोधिन्यां शेषतः ॥
वैशाख्यां दैत्यशार्दूल कल्पादिषु युगादिषु
॥११॥चंद्रसूर्योपरागेषु मन्वादिषु न संशयः ॥
व्यतीपातेषु संक्रांतौ वैधृतौ दैत्यनायक
॥१२॥तिलोदकं च यद्दत्त तत्स्थले पितृभक्तितः ॥
तत्सर्वमक्षयं प्रोक्तं गोमत्यां स्नानपूर्वकम्
॥१३॥येऽत्र श्राद्धं प्रकुर्वंति पिंडदानपुरःसरम् ॥
तेषामत्राक्षया तृप्तिः पितॄणामुपजायते
॥१४॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थ द्वारकामाहात्म्ये गोमतीस्नान कृष्णपूजन यतिभोजन दान श्राद्धादिसत्फलवर्णनंनामैकचत्वारिंशोऽध्यायः ॥ ४१ ॥