मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — द्वारकामाहात्म्यम्, अध्याय १९

3
प्रभासखण्डः · द्वारकामाहात्म्यम् · 19

तच्छ्रुत्वा देवदेवेशश्चिंतयित्वा पुनःपुनः

प्रह्लाद उवाच

तच्छ्रुत्वा देवदेवेशश्चिंतयित्वा पुनःपुनः ॥

उवाच वचनं तत्र दुर्वाससमकल्मषम्

॥१॥

श्रीभगवानुवाच

पराधीनोऽस्मि विप्रेन्द्र भक्त्या क्रीतोऽस्मि नान्यथा ॥

बलेरादेशकारी च दैत्येन्द्रवशगो ह्यहम्

॥२॥

तस्मात्प्रार्थय विप्रेन्द्र दैत्यं वैरोचनिं बलिम् ॥

अस्यादेशात्करिष्यामि यदभीष्टं तवाधुना

॥३॥

तच्छ्रुत्वा वचनं विप्रो बलिं प्रोवाच सत्वरम् ॥

यज्वनां त्वं वरिष्ठश्च दातॄणां त्वं मतोऽधिकः

॥४॥

पारावारः कृपायाश्च दयां कुरु ममोपरि ॥

प्रेषयस्व महाभाग देवं दैत्यविनिग्रहे

॥५॥

संपूर्णनियमः स्नातस्त्वत्प्रसादाद्भवाम्यहम् ॥

तच्छुत्वा वचनं दैत्यो नातिहृष्टमनास्तदा ॥

दुर्वाससमुवाचेदं नैतदेवं भविष्यति

॥६॥

अन्यत्प्रार्थय विप्रेन्द्र यत्ते मनसि वर्त्तते ॥

तद्दास्यामि न सन्देहो यद्यपि स्यात्सुदुर्लभम्

॥७॥

आत्मानमपि दास्यामि नाहं त्यक्ष्ये हरिं द्विज ॥

बहुभिः सुकृतैः प्राप्तं कथं त्यक्ष्यामि केशवम्

॥८॥

दुर्वासा उवाच

नातिलुब्धं हि मां विद्धि किमन्यत्प्रार्थयाम्यहम् ॥

रक्ष मे जीवितं दैत्य प्रेषयस्व जनार्द्दनम्

॥९॥

बलिरुवाच

जानासि त्वं यथा विप्र हिरण्याक्षं निपातितम् ॥

भूत्वा यज्ञवराहस्तु दधारोर्वीं बलाद्दिवि

॥१०॥

यथा च दैत्यप्रवरमवध्यं दैत्यदानवैः ॥

हतवान्हिरण्यकशिपुं नृसिंहः सर्वगः प्रभुः

॥११॥

तथैव वृत्रं नमुचिं रक्षो लंकेश संज्ञकम् ॥

जघान मायया विष्णुः सुरार्थं सुरसत्तमः

॥१२॥

प्रथमं वामनो भूत्वा ह्ययाचत पदत्रयम् ॥

पुनस्त्रिविक्रमो भूत्वा भुवनानि जहार मे

॥१३॥

मया पुण्यवशाद्विष्णुर्यदि प्राप्तः कथञ्चन ॥

नाहं त्यक्ष्ये जगन्नाथं मायावामनकं प्रभुम्

॥१४॥

दुर्वासा उवाच

नाहं भोक्ष्ये विना स्नानं गोमत्युदधिसंगमे ॥

यदि न प्रेष्यसि हरिं ततस्त्यक्ष्ये कलेवरम्

॥१५॥

बलिरुवाच

यद्भाव्यं तद्भवतु ते यज्जानासि तथा कुरु ॥

ब्रह्मरुद्रेन्द्रनमितं नाहं त्यक्ष्ये पदद्वयम्

॥१६॥

तदा विवदमानौ तौ दृष्ट्वा स जगदीश्वरः ॥

ब्रह्मण्यदेवः कृपया ब्राह्मणं तमुवाच ह

॥१७॥

स्वस्थो भव द्विजश्रेष्ठ स्नापयिष्ये न संशयः ॥

हत्वा दैत्यगणान्सर्वान्गोमत्युदधिसंगमे

॥१८॥

प्रह्लाद उवाच

श्रुत्वा भगवतो वाक्यं ब्राह्मणं प्रति दैत्यराट् ॥

दृढं जग्राह चरणौ पतित्वा पादयोस्तदा

॥१९॥

ततः समृद्धिमगमत्पादौ दत्त्वा बलेः प्रभुः ॥

शंखचक्रगदापाणिर्विष्णुर्दुर्वाससाऽन्वितः

॥२०॥

प्रस्थितौ तौ तदा दृष्ट्वा दुर्वाससजनार्द्दनौ ॥

अनन्तः पुरुषो ऽगच्छन्मुशली च हलायुधः

॥२१॥

मुशली चाग्रतोऽगच्छत्ततो विष्णुस्त्रिविक्रमः ॥

तयोरन्वगमद्विप्रा दुर्वासा भूतलाद्बहिः

॥२२॥

भित्त्वा रसातलं सर्वे समुत्तस्थुस्त्वरान्विताः ॥

आविर्बभूवुस्तत्रैव गोमत्युदधिसंगमे

॥२३॥

सन्नद्धौ दृढधन्वानौ संकर्षणजनार्दनौ ॥

ऊचतुस्तौ तदा विप्रं कुरु स्नानं यदृच्छया

॥२४॥

तयोस्तु वचनं श्रुत्वा स्नानं चक्रे त्वरान्वितः ॥

स्नात्वा चावश्यकं कर्म कर्तुमारभत द्विजः

॥२५॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्ये चक्रतीर्थे कृष्णबलरामदुर्वासससमागमपूर्वकं दुर्वाससः स्नानाद्याह्निकविधिविधान- वर्णनंनामैकोनविंशतितमोऽध्यायः ॥ १९ ॥