मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — द्वारकामाहात्म्यम्, अध्याय ३८

3
प्रभासखण्डः · द्वारकामाहात्म्यम् · 38

द्वारकायाश्च माहात्म्यं शृणु पौत्र मयोदितम्

श्रीप्रह्लाद उवाच

द्वारकायाश्च माहात्म्यं शृणु पौत्र मयोदितम् ॥

शृण्वतो गदतश्चापि मुक्तिः कृष्णाद्भवेद्ध्रुवम्

॥१॥

पुत्रेण लोकाञ्जयति पौत्रेणानन्त्यमश्नुते ॥

अथ पुत्रस्य पौत्रेण नाकमेवाधिरोहति

॥२॥

यस्य पुत्रः शुचिर्दक्षः पूर्वे वयसि धार्मिकः ॥

विष्णुभक्तिं च कुरुते तं पुत्रं कवयो विदुः

॥३॥

हेमशृंगं रौप्यखुरं सवत्सं कांस्यदोहनम् ॥

सवस्त्रं कपिलानां तु सहस्रं च दिनेदिने

॥४॥

दत्त्वा यत्फलमाप्नोति ब्राह्मणे वेदपारगे ॥

तत्फलं स्नानमात्रेण गोमत्यां मधुभिद्दिने

॥५॥

यस्त्वेकं भोजयेद्विप्रं द्वारकायां च संस्थितम् ॥

सुभिक्षे भो द्विजश्रेष्ठाः फलं लक्षगुणं भवेत्

॥६॥

फलं लक्षगुणं प्रोक्तं दुर्भिक्षे कृष्णसन्निधौ ॥

एवं धर्मानुसारेण दयाद्भिक्षां तु भिक्षुके

॥७॥

अपि नः स कुले कश्चिद्भविष्यति नरोत्तमः ॥

यो यतीनो कलौ प्राप्ते पितॄनुद्दिश्य दास्यति

॥८॥

द्वारकायां विशे षेण सत्कृत्य कृष्णसन्निधौ ॥

अन्नदानं यतीनां तु कौपीनाच्छादनानि च

॥९॥

नात्मनः क्रतुभिः स्विष्टैर्नास्ति तीर्थैः प्रयोजनम् ॥

यत्र वा तत्र वा कार्य्यं यतीनां प्रीणनं सदा

॥१०॥

श्वपचादयोऽपि ते धन्या ये गता द्वारकां पुरीम् ॥

प्राप्य भागवतान्ये वै पितॄनुद्दिश्य पुत्रकाः

॥११॥

भक्त्या संपूजयिष्यंति वस्त्रैर्दानैश्च भूरिभिः

॥१२॥

गयापिंडेन नास्माकं तृप्तिर्भवति तादृशी ॥

यादृशी विष्णुभक्तानां सत्कारेणोप जायते

॥१३॥

वैशाखे ये करिष्यंति द्वादशीं कृष्णसन्निधौ ॥

कृष्णं संपूजयन्तश्च रात्रौ कुर्वंति जागरम्

॥१४॥

माहात्म्यं पठनीयं तु द्वारकासंभवं शुभम् ॥

कृष्णस्य बालचरितं बालकृष्णादिदर्शनम्

॥१५॥

क्रीडनं गोकुलस्यैव क्रीडा गोपीजनस्य च ॥

कृष्णावतारकर्माणि श्रोतव्यानि पुनःपुनः

॥१६॥

रुक्मशृंगीं रौप्यखुरीं मुक्तालांगूलभूषिताम् ॥

सवत्सां ब्राह्मणे दत्त्वा होमार्थं चाहिताग्नये

॥१७॥

निमिषस्पर्शनांशेन फलं कृष्णस्य जागरे ॥

यत्किंचित्कुरुते पापं कोटिजन्मसु मानवः ॥

कृष्णस्य जागरे रात्रौ दहते नात्र संशयः

॥१८॥

पठेद्भागवतं रात्रौ पुराणं दयितं हरेः ॥

यावत्सूर्य्यकृताऽऽलोको यावच्चन्द्रकृता निशा

॥१९॥

यावत्ससागरा पृथ्वी यावच्च कुलपर्वताः ॥

तावत्कालं वसेत्स्वर्गे नान्यथा मम भाषितम्

॥२०॥

आस्फोटयंति पितरः प्रहर्षंति पितामहाः ॥

एवं तं स्वसुतं दृष्ट्वा शृण्वानं कृष्णसंभवम्

॥२१॥

द्वारकायाश्च माहात्म्यं यत्र नो जागरे पठेत् ॥

तन्म्लेच्छसदृशं स्थानमपवित्रं परित्यजेत्

॥२२॥

शालिग्रामशिला नैव यत्र भागवता न हि ॥

त्यजेत्तीर्थं महापुण्यं पुण्यमायतनं त्यजेत्

॥२३॥

त्यजेद्गुह्यं तथाऽरण्यं यत्र न द्वादशीव्रतम्

॥२४॥

सुदेशोऽपि भवेन्निंद्यो यत्र नो वैष्णवा व्रतम् ॥

कुदेशोऽपि भवेत्पुण्यो यत्र भागवताः कलौ

॥२५॥

संकीर्णयोनयः पूता ये भक्ता मधुसूदने ॥

म्लेच्छतुल्याः कुलीनास्ते ये न भक्ता जनार्दने

॥२६॥

रथारूढं प्रकुर्वंति ये कृष्णं मधुमाधवे ॥

मुक्तिं प्रयांति ते सर्वे कुलकोटिसमन्विताः

॥२७॥

देवकीनन्दनस्यार्थे रथं कारापयन्ति ये ॥

कल्पांतं विष्णुलोके ते वसन्ति पितृभिः सह

॥२८॥

द्वारकायास्तु माहात्म्यं श्रावयेद्यः कलौ नृणाम् ॥

भावमुत्पादयेद्यो वै लभेत्क्रतुशतंफलम्

॥२९॥

यो नार्चयति पापिष्ठो देवमन्यत्र गच्छति ॥

कोटिजन्मार्जितं पुण्यं हरते रुक्मिणीपतिः

॥३०॥

शंखोद्धारसमुद्भूतां नित्यं देहे बिभर्त्ति हि ॥

मृत्तिकां दैत्यराजेन्द्र शृणु वक्ष्यामि यत्फलम्

॥३१॥

यो ददाति यतीनां च वैष्णवानां प्रयच्छति ॥

स्वर्णभारशतं पुण्ड्रं नित्यं प्राप्नोति मानवः

॥३२॥

गृहे यस्य सदा तिष्ठेच्छंखोद्धारस्य मृत्तिका ॥

नित्य क्रियाकृतंपुण्यं लभेत्कोटिगुणं बले

॥३३॥

यस्य पुण्ड्रं ललाटे तु गोपीचंदनसंज्ञकम् ॥

न जहाति गृहं तस्य लक्ष्मीः कृष्णप्रिया द्विजाः

॥३४॥

न ग्रहो बाधते तस्य नोरगो न च राक्षसः ॥

पिशाचा न च कूष्मांडा न च प्रेता न जंभकाः

॥३५॥

नाग्निचौरभयं तस्य दरीणां चैव बन्धनम् ॥

विद्युदुल्काभयं चैव न चोत्पातसमुद्भवम्

॥३६॥

नारिष्टं नापशकुनं दुर्निमित्तादिकं च यत् ॥

सत्कृते विष्णुभक्ते च शालिग्रामशिलार्चने

॥३७॥

पीते पादोदके विप्रा नैवेद्यस्यापि भक्षणे ॥

तुलसीसन्निधौ विष्णोर्विलयावसरे कृते

॥३८॥

पुरा देवेन कथितं शृणु पात्रं वदाम्यहम् ॥

प्रिया भागवता येषां तेषां दासोऽस्म्यहं सदा

॥३९॥

विहाय मथुरां काशीमवन्तीं सर्वपापहाम् ॥

मायां कांचीमयोध्यां च संप्राप्ते च कलौ युगे

॥४०॥

वसाम्यहं द्वारकायां सर्वसेनासमावृतः ॥

तीर्थव्रतैर्यज्ञदानै रुद्राद्यैर्मुनिचारणैः

॥४१॥

श्रद्धात्यागेन भक्त्या वा यस्तोषयितुमिच्छति ॥

गत्वा द्वारवतीं रम्यां द्रष्टव्योऽहं कलौ युगे

॥४२॥

त्रैलोक्ये यानि तीर्थानि मया शुद्धानि भूरिशः ॥

विन्यस्तानि च गोमत्यां चक्रतीर्थेऽतिपावने

॥४३॥

दिनेनैकेन गोमत्यां चक्रतीर्थे कलौ युगे ॥

त्रैलोक्यसंभवैस्तीर्थैः स्नातो भवति मानवः

॥४४॥

कोटिपापविनिर्मुक्तो मत्समं वसते नरः ॥

मम लोके न संदेहः कुलकोटिसमन्वितः

॥४५॥

नापराधकृतैः पापैर्लिप्तः स्यादु त्कटैः कृतैः ॥

शतजन्मायुतानीह लक्ष्मीर्न च्यवते गृहात्

॥४६॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्ये गोमतीतीरगत द्वारकाचक्रतीर्थयोर्जागरादिमाहात्म्यवर्णनं-नामाष्टात्रिंशत्तमोऽध्यायः ॥ ३८ ॥