मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — द्वारकामाहात्म्यम्, अध्याय १३

3
प्रभासखण्डः · द्वारकामाहात्म्यम् · 13

गोपीसरस्तीर्थमाहात्म्यवर्णनम्

श्रीप्रह्लाद उवाच

इति कृष्णवचः श्रुत्वा गोप्यः संहृष्टमानसाः ॥

तस्मिन्मयसरे स्नात्वा विमुक्ताऽशेषबन्धनाः

॥१॥

कृष्णदर्शनसंजातपरमानन्दसंप्लुताः ॥

ऊचुश्च वचनं गोप्यो मधुरं माधवं प्रति

॥२॥

गोप्य ऊचुः

धन्यः स दैत्यप्रवरो मयो येन कृतं सरः ॥

यस्मिंस्त्वं देवतैः सार्द्धं समेष्यसि जगत्पते

॥३॥

यदि तुष्टोऽसि भगवन्ननुग्राह्या वयं यदि ॥

अस्माकमपि वार्ष्णेय कारयस्व सरोत्तमम्

॥४॥

कीर्त्तनान्मृत्युलोकेऽस्मिंस्तव संदर्शनेन हि ॥

अहर्निशं तव ध्यानाद्यास्यामः परमां गतिम्

॥५॥

श्रीकृष्ण उवाच

करिष्ये वः प्रियं साध्व्यो यूयं मम परिग्रहाः ॥

अनुग्राह्या मया नित्यं भक्तिग्राह्योऽस्मि सर्वदा

॥६॥

प्रह्लाद उवाच

इत्युक्त्वा भगवान्कृष्णो गोपीनां हितकाम्यया ॥

सरसः सन्निधौ तस्य सरस्त्वन्यच्चकार ह

॥७॥

तदगाधं स्वच्छजलं नलिनीदलशोभितम् ॥

हंससारसयुग्मैश्च चक्रवाकैश्च शोभितम्

॥८॥

कुमुदोत्पलकह्लारपद्मिनीखण्डमण्डितम् ॥

सेवितं द्विजमुख्यैश्च सिद्धविद्याधरैस्तथा

॥९॥

सेवितं यदुनारीभिस्तथा यदुकुमारकैः ॥

दिवारात्रौ सुसंपूर्णं सर्वैर्जानपदैर्जनैः

॥१०॥

तं दृष्ट्वा जलकल्लोलैः सुसंपूर्णं जलाशयम् ॥

हर्षाद्गोपीजनं कृष्णः प्रोवाच वचनं तदा

॥११॥

पश्यध्वं गोपिकाः शुभ्रं सरः सरं समीपतः ॥

स्वच्छमिष्टजलापूर्णं सज्जनानां यथा मनः

॥१२॥

कारणाद्भवतीनां च यस्मात्कृतमिदं सरः ॥

भवतीनां तथा नाम्ना ख्यातमेतद्भविष्यति

॥१३॥

गोर्वाचावाचकः शब्दो भवतीभिर्मया सह ॥

गोप्रचारेति वै नाम्नां ख्यातिं लोके गमिष्यति

॥१४॥

युष्माकं प्रियकामार्थं यस्मात्कृतमिदं सरः ॥

तस्माद्गोपीसर इति ख्यातिं लोके गमिष्यति

॥१५॥

गोप्य ऊचुः

अनुग्राह्या यदि वयमस्मन्नाम्ना कृतं सरः ॥

अन्यत्किमपि वार्ष्णेय प्रार्थयामो वदस्व नः

॥१६॥

श्रीकृष्ण उवाच

प्रार्थ्यतां यदभिप्रेतं यद्वो मनसि वर्तते ॥

भक्त्या समागता यूयं नास्त्यदेयं ततो मया

॥१७॥

गोप्य ऊचुः

यदि तुष्टोऽसि भगवन्यदि देयो वरो हि नः ॥

तस्मात्त्वया सदा कृष्ण नरयानेन माधव

॥१८॥

अत्रागत्य नभस्येऽस्मिन्स्नातव्यं नियमेन हि ॥

यत्र त्वं तत्र देवाश्च यज्ञास्तीर्थानि केशव

॥१९॥

यत्र त्वं तत्र दानानि व्रतानि नियमाश्च ये ॥

ओंकारश्च वषट्कारः स्वाहाकारः स्वधा तथा

॥२०॥

भूर्भुवःस्वर्महर्ल्लोको जनः सत्यं तपस्तथा ॥

त्वन्मयं हि जगत्सर्वं सदेवासुरमानुषम्

॥२१॥

तस्मात्त्वयि जगन्नाथे ह्यत्र स्नाते जनार्दने ॥

स्नातमत्र त्रिभुवनं भविष्यति न संशयः

॥२२॥

त्रैलोक्यपावनी गंगा तव पादजलं हि तत् ॥

लक्ष्मीर्वक्षःस्थलस्थाने मुखे देवी सरस्वती

॥२३॥

सर्वभूतमयश्चात्र ततस्त्वं जगदीश्वर ॥

यद्ददासि मनुष्याणां भविष्याणां कलौ युगे ॥

तद्वदस्व महाबाहो कृपां कृत्वा जगत्पते

॥२४॥

यात्रायामागतानां च अथ षण्मासवासिनाम् ॥

सदैवात्र स्थितानां च यत्फलं तद्वदस्व नः

॥२५॥

श्रीकृष्ण उवाच

यत्फलं हि मनुष्याणां स्नातानां गोपिकासरे ॥

तच्छृणुध्वमसंदिग्धं प्रसन्ने मयि गोपिकाः

॥२६॥

सोपस्करां सवत्सां च वस्त्रालंकारभूषिताम् ॥

यथोक्तदक्षिणोपेतां ब्राह्मणाय कुटुंबिने

॥२७॥

सदाचाराय शुद्धाय दरिद्रायानुकारिणे ॥

गां दत्त्वा फलमाप्नोति स्नानमात्रेण तत्फलम्

॥२८॥

यावत्पदानि मनुजः कृष्णेन सह गच्छति ॥

कुलानि देव्यस्तावंति वसंति हरिमन्दिरे

॥२९॥

कृष्णेन सह गच्छन्ति गीतवादित्रनिस्वनैः ॥

स्तुवन्तो विविधैः स्तोत्रैर्गोविंदं गोपिकासरे

॥३०॥

न मातुर्जठरे तेषां यातना जायते नृणाम् ॥

सर्वान्कामानवाप्यांते वैष्णवं लोकमाप्नुयुः

॥३१॥

अर्घ्यं दत्त्वा विधानेन स्नानं कुर्याद्विचक्षणः ॥

मंत्रेणानेन वै साध्व्यः श्रद्धया परया युतः

॥३२॥

नमस्ते गोपरूपाय विष्णवे परमात्मने ॥

गोप्रचारे जगन्नाथ गृहाणार्घ्यं नमोऽस्तु ते

॥३३॥

अर्घ्यं दत्त्वा विधानेन मृदमालिप्य पाणिना ॥

स्नायाच्छ्रद्धासमायुक्तस्तर्पयेत्पितृदेवताः

॥३४॥

श्राद्धं कुर्य्यात्ततो भक्त्या एकचित्तः समाहितः ॥

यथोक्तदक्षिणा दद्याद्रजतं रुक्ममेव च

॥३५॥

विशेषतः प्रदातव्यं तांबूलं कज्जलं तथा ॥

दुकूलानि च देयानि तथा कौसुंभकानि च

॥३६॥

दंपत्योर्वाससी चैव भूषणानि स्वशक्तितः ॥

गावो देया द्विजातिभ्यो वृषभाश्च धुरंधराः ॥

दीनांधकृपणानां च दानं देयं स्वशक्तितः

॥३७॥

एवं कृत्वा नरः सम्यगुत्तमां गतिमाप्नुयात् ॥

प्रयांति परमं लोकं पितरस्त्रिकुलोद्भवाः

॥३८॥

लभते पुत्रकामस्तु पुत्रानिष्टान्मनोरमान्

॥३९॥

यं यं कामयते कामं स्वर्गमोक्षादिकं नरः ॥

तत्सर्वं समवाप्नोति यः स्नाति गोपिकासरे

॥४०॥

यावल्लोका भविष्यंति तावत्स्थास्यति वै सरः ॥

यावत्सरो यशस्तावद्भवतीनां भविष्यति

॥४१॥

यावत्कीर्तिर्मनुष्येषु तावत्स्वर्गे महीयते ॥

विमुक्ताः सकलात्पापाद्यास्यंति परमां गतिम्

॥४२॥

तत्पुण्यं गोपीसर इदं जलैः पूर्णं सदैव हि ॥

अवगाह्यं मया गोप्यो नभस्ये नियमेन हि

॥४३॥

भवत्यः पतिभावेन ब्रह्मभावेन वा पुनः ॥

चिंतयंत्यः परं मां हि परागतिमवाप्स्यथ

॥४४॥

प्रह्लाद उवाच

अनुज्ञाता भगवता ततस्ता गोपकन्यकाः ॥

नमस्कृत्य च गोविंदं ययुः सर्वा यथागता

॥४५॥

भगवानपि गोविंद उद्धवेन समन्वितः ॥

विसृज्य गोपिकाः कृष्णः स्वकं मंदिरमाविशत्

॥४६॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्ये गोपीसरस्तीर्थमाहात्म्यवर्णनंनाम त्रयोदशोऽध्यायः ॥ १३ ॥