सर्वतीर्थक्षेत्रादिकृतनिवासवर्णनम्
श्रीप्रह्लाद उवाच
श्रुत्वा ब्रह्ममहेशानौ यदुक्तं विष्णुपार्षदैः ॥
द्वारकायास्तु माहात्म्यं तद्वर्णयितुमूचतुः
॥१॥श्रीब्रह्मेशानावूचतुः
भोभोः क्षेत्राणि तीर्थानि सरांसि सागरादयः ॥
प्रयागादीनि तीर्थानि काश्याद्या मुक्तिदायकाः
॥२॥भवतां तीर्थराजानां महाराजस्त्वियं शुभा ॥
द्वारका सेवनीया वै स्थीयतां स्वेच्छया बहिः
॥३॥श्रीप्रह्लाद उवाच
महेशवचनं श्रुत्वा सर्वेषामुत्सवोऽभवत् ॥
प्रदक्षिणां ततः कृत्वा द्वारकां प्रणिपत्य च ॥
आवासं चक्रिरे तत्र क्षेत्रतीर्थानि हर्षतः
॥४॥भागीरथी प्रयागं च यमुना च सरस्वती ॥
सरयूगंडकी पुण्या गोमती पूर्ववाहिनी
॥५॥अन्याश्च सरितः सर्वाः सिन्धुशोणौ नदौ तथा ॥
पंचाशत्कोटिभिस्तीर्थैर्दिग्भागे ह्युत्तरे स्थिताः ॥
लंपटाः कृष्णसेवायां पश्यतो द्वारकां मुहुः
॥६॥मन्दाकिनी तथा पुण्या नदी भागीरथी च या ॥
महानदी नर्मदा च शिप्रा प्राची सरस्वती
॥७॥चक्षुर्भद्रा तथा सीता नद्योऽन्याः पापनाशिनी ॥
वर्तंते पूर्वदिग्भागे तीर्थैश्च षष्टिकोटिभिः
॥८॥पयोष्णी तपती पुण्या विदर्भा च पयस्विनी ॥
गोदावरी महापुण्या भीमा कृष्णानदी तथा
॥९॥कावेरीप्रमुखाः पुण्या अन्यैश्चैवाघनाशिनीः ॥
स्वतीर्थसहिता भक्त्या नवनवतिकोटिभिः
॥१०॥स्थिता दक्षिणदिग्भागे द्वारकासेवनोत्सुकाः ॥
क्रीडंति गोमतीनीरे तीरे च कृष्णसन्निधौ ॥
सप्तद्वीपेषु याः संति तथाऽन्या वै सरिद्वराः ॥
सागराश्च तथा सप्त पश्चिमायां दिशि स्थिताः
॥१२॥क्रीडंति चक्रतीर्थे वै तीर्थैश्च शतकोटिभिः ॥
पश्यंति च मुहुः कृष्णं पश्चिमाभिमुखं सदा
॥१३॥विदिशासु च सर्वासु तीर्थसंख्या न विद्यते ॥
पुष्करादीनि तीर्थानि विशाला विरजा गया
॥१४॥शतैककोटिभिस्तीर्थैर्गोमत्युदधिसंगमे ॥
वर्त्तंते कृष्णसेवायां सोत्सवानि द्विजोत्तमाः
॥१५॥वाराणसी पूरैशान्यामवन्ती पूर्वदिक्स्थिता ॥
आग्नेय्यां दिशि कांती च दक्षिणे मथुरा स्थिता
॥१६॥नैर्ऋत्यां च तथा माया अयोध्या पश्चिमे स्थिताः ॥
वायव्यां तु कुरुक्षेत्रं हरिक्षेत्रं तथोत्तरे
॥१७॥शिवक्षेत्रं च ऐशान्यामैंद्र्यां च पुरुषोत्तमः ॥
आग्नेय्यां च भृगुक्षेत्रं प्रभासं दक्षिणाश्रितम्
॥१८॥श्रीरंगं नैर्ऋते भागे लोहदंडं तु पश्चिमे ॥
नारसिंहानि वायव्ये कोकामुख्यं तथोत्तरे
॥१९॥कामाख्या रेणुकादीनि शाक्तेयानि च सर्वशः ॥
क्षेत्रराजानि सर्वाणि यथास्थाने वसंति हि
॥२०॥उत्तरे चैव सौराणि गाणपत्यानि कृत्स्नशः ॥
क्षेत्राण्युत्तरतः संति रुक्मिण्याः सन्निधौ द्विजाः
॥२१॥धेनुकं नैमिषारण्यं दंडकं सैंधवं तथा ॥
दशारण्यमर्बुदं च नरनारायणाश्रमम्
॥२२॥यथादिशं वसंति स्म द्वारकायाः समन्ततः ॥
मेर्वाद्याः पर्वताः सौम्ये द्वारकासेवनोत्सुकाः
॥२३॥कैलासाद्याश्च ऐशान्यामैन्द्र्यां हिमवदादयः ॥
श्रीशैलाद्याश्च आग्नेय्यां सिंहाद्र्याद्या यमे तथा
॥२४॥नैर्ऋत्यां वाममार्गाद्या महेन्द्रऋषभादयः ॥
अन्ये च पुण्यशैलाश्च सलोकालोक मानसाः ॥
द्वारकां परितः संति पर्य्युपासंति प्रत्यहम्
॥२५॥एवं ब्रह्मादयो देवा ऋषयः सनकादयः ॥
क्षेत्रतीर्थादिभिर्युक्ता अन्यैः पुण्यतमैस्तथा
॥२६॥श्रद्धया परया भक्त्या कन्याराशिस्थिते गुरौ ॥
आयांति द्वारकां द्रष्टुं ब्राह्म्याद्याश्च प्रहर्षिताः
॥२७॥इति श्रीस्कान्दे महा पुराण एकाशीतिसाहस्र्यां संहिताया सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्ये द्वारकामाहात्म्यवर्णनपूवकं द्वारकायां सर्वतीर्थक्षेत्रादिकृतनिवास वर्णनंनाम त्रयस्त्रिंशत्तमोऽध्यायः ॥ ३३ ॥