मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — द्वारकामाहात्म्यम्, अध्याय ३७

3
प्रभासखण्डः · द्वारकामाहात्म्यम् · 37

पाषाणमाहात्म्यवर्णनपूर्वकतत्पूजनफलादिकथनम्

श्रीप्रह्लाद उवाच

कृष्णकृष्णेति कृष्णेति श्वपचो जागरन्निशि ॥

जपेदपि कलौ नित्यं कृष्णरूपी भवेद्धि सः

॥१॥

कृष्णकृष्णेति कृष्णेति कलौ वदत्यहर्निशम् ॥

नित्यं यज्ञायुतं पुण्यं तीर्थकोटिसमुद्भवम्

॥२॥

संपूर्णैकादशी भूत्वा द्वादश्यां वर्द्धते यदि ॥

उन्मीलिनीति विख्याता तिथीनामुत्तमा तिथिः

॥३॥

वंजुलीवासरे ये वै रात्रौ कुर्वंति जागरम् ॥

यज्ञायुतायुतं पुण्यं मुहूर्तार्द्धेन जायते

॥४॥

संपूर्णा द्वादशी भूत्वा वर्द्धते चापरे दिने ॥

त्रयोदश्यां मुनिश्रेष्ठा वंजुली दुर्ल्लभा कलौ

॥५॥

उन्मीलिनीमनुप्राप्य ये प्रकुर्वंति जागरम् ॥

निमिषार्द्धेन तत्पुण्यं गवां कोटिफलप्रदम्

॥६॥

संपूर्णैकादशी भूत्वा प्रत्यऽहं वर्द्धते यदि ॥

दर्शश्च पौर्णमासी च पक्षवृद्धिस्तथोच्यते

॥७॥

पक्षवृद्धिकरीं प्राप्य ये प्रकुर्वंति जागरम् ॥

निमिषार्द्धार्द्धमात्रेण गवां कोटिफलप्रदम्

॥८॥

श्रीप्रह्लाद उवाच

चक्रतीर्थे नरः स्नात्वा मुच्यते सर्व किल्बिषैः ॥

स याति परमं स्थानं दाहप्रलयवर्जितम्

॥९॥

चक्रं प्रक्षालितं यत्र कृष्णेन स्वयमेव हि ॥

तेन वै चक्रतीर्थं हि पुण्यं च परमं हरेः ॥

भवंति तत्र पाषाणाश्चक्रांका मुक्तिदायकाः

॥१०॥

तत्रैव यदि लभ्यंते चक्रैर्द्वादशभिः सह ॥

द्वादशात्मा स विज्ञेयो मोक्षदः परिकीर्तितः

॥११॥

एकचक्रेण पाषाणो द्वारवत्यां सुशोभनः ॥

सुदर्शनाभिधेयोसौ मोक्षैकफलदायकः

॥१२॥

लक्ष्मीनारायणौ द्वौ तौ भुक्तिमुक्तिफलप्रदौ ॥

त्रिभिश्चैवाच्युतं देवं सदेन्द्रपददायकम्

॥१३॥

भूतिदो विघ्नहंता च चतुश्चक्रो जनार्द्दनः ॥

पञ्चभिर्वासुदेवस्तु जन्ममृत्युभयापहः

॥१४॥

प्रद्युम्नः षड्भिरेवासौ लक्ष्मीं कांतिं ददाति च ॥

सप्तभिर्बलदेवस्तु गोत्रकीर्तिविवर्द्धनः

॥१५॥

वांछितं चाष्टभिर्भक्त्या ददाति पुरुषोत्तमः ॥

सर्वं दद्यान्नवव्यूहो दुर्ल्लभो यः सुरोत्तमैः

॥१६॥

राज्यप्रदो दशभिस्तु दशावतार एव च ॥

एकादशभिरैश्वर्य्यमनिरुद्धः प्रयच्छति

॥१७॥

निर्वाणं द्वादशात्मा तु चक्रैर्द्वादशभिः स्मृतम् ॥

अत ऊर्ध्वमनंतोऽसौ सौख्यमोक्षप्रदायकः

॥१८॥

ये केचित्तत्र पाषाणाः कृष्णचक्रेण मुद्रिताः ॥

तेषां स्पर्शनमात्रेण मुच्यते सर्वकिल्बिषैः

॥१९॥

ब्रह्महत्यादिकं पापं मनोवाक्कायकर्मजम् ॥

तत्सर्वं विलयं याति चक्रांकितप्रपूजनात्

॥२०॥

म्लेच्छदेशे शुभे वाऽपि चक्रांको यत्र तिष्ठति ॥

योजनानि दश द्वे च मम क्षेत्रं च सुन्दरि

॥२१॥

मृत्युकाले च संप्राप्ते हृदये यस्तु धारयेत् ॥

चक्राकं पापदलनं स याति परमां गतिम्

॥२२॥

गोमतीसंगमे स्नात्वा भृगुतीर्थे तथैव च ॥

न मातुर्वसते कुक्षौ यद्यपि स्यात्स पातकी

॥२३॥

तामसं राजसं वापि यत्कृतं विष्णुपूजनम् ॥

तत्सात्त्विकत्वमभ्येति निम्नगांभो यथार्णवे

॥२४॥

इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्ये द्वारकाक्षेत्रस्थसुदर्शनप्रमुखानन्तान्तचक्रचिह्नांकित पाषाणमाहात्म्यवर्णनपूर्वकतत्पूजनफलादिकथनंनाम सप्तत्रिंशत्तमोऽध्यायः ॥ ३७ ॥