मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — द्वारकामाहात्म्यम्, अध्याय ४०

3
प्रभासखण्डः · द्वारकामाहात्म्यम् · 40

चक्रतीर्थस्नानदानश्राद्धादिमाहात्म्यवर्णनम्

श्रीप्रह्लाद उवाच

स्वनामांकित पत्रैस्तु श्रीपतिं योऽर्चयेत वै ॥

सप्तलोकाननुप्राप्य सप्तद्वीपाधिपो भवेत्

॥१॥

माकान्तवृक्षपत्रैस्तु योऽर्चयेत सदा हरिम् ॥

पुण्यं भवति तस्येह वाजिमेधायुतं कलौ

॥२॥

लक्ष्मीं सरस्वतीं देवीं सावित्रीं चंडिकां तथा ॥

पूजयित्वा दिवं याति पत्रैः श्रीवृक्षसंभवैः

॥३॥

तुलस्या अधिकं प्रोक्तं दलं श्रीवृक्षसंभवम् ॥

तस्मान्नित्यं प्रयत्नेन पूजनीयः सदाऽच्युतः

॥४॥

द्वादश्यां रविवारेण श्रीवृक्षमर्चयन्ति ये ॥

ब्रह्महत्यादिकैः पापैर्न लिप्यंते कृतैरपि

॥५॥

यथा करिपदेऽन्यानि प्रविशंति पदानि च ॥

तथा सर्वाणि पुण्यानि प्रविष्टानि हरेर्दिने

॥६॥

अध्रुवेणैव देहेन प्रतिक्ष णविनाशिना ॥

कथं नोपासते जंतुर्द्वादशीं जागरान्विताम्

॥७॥

अतीतान्पुरुषान्सप्त भविष्यांश्च चतुर्द्दश ॥

नरकात्तारयेत्सर्वाँल्लोकान्कृष्णेति कीर्तनात् ॥

न ते जीवंति लोकेऽस्मिन्यत्रतत्र स्थिता नराः

॥८॥

द्वारकायां च संप्राप्तास्त्रिषु लोकेषु वंदिताः ॥

द्वारकायां प्रकुर्वंति यतीनां भोजनं स्थितिम् ॥

ग्रासेग्रासे मखशतं ते लभंते फलं नराः

॥९॥

यतीनां ये प्रयच्छंति कौपीनाच्छादनादिकम् ॥

वसतां द्वारकामध्ये यथाशक्त्या तु भोजनम् ॥

शृणु पुण्यं प्रवक्ष्यामि समासेन हि दैत्यज

॥१०॥

कोटिभिर्वेदविद्वद्भिर्गयायां पितृवत्सलैः ॥

भोजितैर्यत्समाप्नोति तत्फलं दैत्यनायक

॥११॥

एकस्मिन्भोजिते पौत्र भिक्षुके फलमीदृशम् ॥

दातव्यं भिक्षुके चान्नं कुर्य्याद्वै चात्मविक्रयम्

॥१२॥

धन्यास्ते यतयः सर्वे ये वसंति कलौ युगे ॥

कृष्णमाश्रित्य दैत्येन्द्र द्वारकायां दिनेदिने

॥१३॥

प्राणिनो ये मृताः केचिद्द्वारकां कृष्णसन्निधौ ॥

पापिनस्तत्पदं यांति भित्त्वा सूर्यस्य मंडलम्

॥१४॥

द्वारकाचक्रतीर्थे ये निवसंति नरोत्तमाः ॥

तेषां निवारिताः सर्वे यमेन यमकिंकराः

॥१५॥

स्नात्वा पश्यंति गोमत्यां कृष्णं कलिमलापहम् ॥

न तेषां विषये यूयं न चास्मद्विषये तु ते

॥१६॥

अपि कीटः पतंगो वा वृक्षा वा ये तदाश्रिताः ॥

यांति ते कृष्णसदनं संसारे न पुनर्हिं ते

॥१७॥

किं पुनर्द्विजवर्य्याश्च क्षत्रियाश्च विशेषतः ॥

त्रिवर्णपूजासंयुक्ताः शूद्रास्तत्र निवासिनः

॥१८॥

गीतां पठंति कृष्णाग्रे कार्तिकं सकलं द्विजाः ॥

एकभक्तेन नक्तेन तथैवायाचितेन च

॥१९॥

त्रिरात्रेणापि कृच्छ्रेण तथा चान्द्रायणेन च ॥

यावकैस्तप्तकृच्छ्राद्यैः पक्षमासमुपोषणैः

॥२०॥

क्षपयंति च ये मासं कार्तिकं व्रतचारिणः ॥

स्नात्वा वै गोमतीनीरे तथा वै रुक्मिणीह्रदे

॥२१॥

शंखचक्रगदा हस्ताः कृष्णरूपा भवंति ते ॥

उपोष्यैकादशीं शुद्धां दशमीसंगवर्जिताम्

॥२२॥

श्राद्धं कुर्वंति द्वादश्यां चक्रतीर्थे च निर्मले ॥

ब्राह्मणान्भोजयित्वा च मधुपायससर्पिषा

॥२३॥

संतर्प्य विधिवद्भक्त्या शक्त्या दत्त्वा तु दक्षिणाम् ॥

गोभूहिरण्यवासांसि तांबूलं च फलानि च

॥२४॥

उपानहौ च्छत्रसुमं जलपूर्णा घटास्तथा ॥

पक्वान्नसंयुताः शुभ्राः सफला दक्षिणान्विताः

॥२५॥

एवं यः कुरुते सम्यक्कृष्णमुद्दिश्य कार्तिके ॥

मार्कंडेय समा प्रीतिः पितॄणां जायते ध्रुवम्

॥२६॥

कृष्णस्य त्रिदशैः सार्द्धं तुष्टिर्भवति चाक्षया

॥२७॥

ये कार्तिके पुण्यतमा मनुष्यास्तिष्ठंति मासं व्रतदानयुक्ताः ॥

रथांगतीर्थे कृतपूतगात्रास्ते यांति पुण्यं पदमव्ययं च

॥२८॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्ये कार्तिके चक्रतीर्थस्नानदानश्राद्धादिमाहात्म्यवर्णनंनाम चत्वारिंशत्तमोऽध्यायः ॥ ४० ॥