गीतागोपीचन्दनमाहात्म्यवर्णनम्
इंद्रद्युम्न उवाच
कथयस्व मुनिश्रेष्ठ किंचित्कौतूहलं मम ॥
पुण्यं पवित्रं पापघ्नं तीर्थं तु वद विस्तरात्
॥१॥मार्कण्डेय उवाच
मथुरा द्वारकाऽयोध्या कलिकाले पुरीत्रयम् ॥
धर्मार्थकामदं भूप मोक्षदं हरिवल्लभम्
॥२॥मधुरायां तु कालिंदी गोमती कृष्णसन्निधौ ॥
अयोध्यायां तु सरयूर्मुक्तिदा सेविता सदा
॥३॥द्रारवत्यामयोध्यायां कृष्णं रामं शुभप्रदम् ॥
मथुरायां हरिं विष्णुं स्मृत्वा मुक्तिमवाप्नुयात्
॥४॥धन्या सा मथुरा लोके यत्र जातो हरिः स्वयम् ॥
द्वारका सफला लोके क्रीडितं यत्र विष्णुना
॥५॥धन्यानामपि सा पूज्या अयोध्या सर्वकामदा ॥
या स्वयं रामदेवेन पालिता धर्मबुद्धिना
॥६॥यद्ददाति फलं काशी सेविता कल्पसंख्यया ॥
कला ददाति मथुरा वासरेणापि तत्फलम्
॥७॥मन्वंतरसहस्रे तु प्रयागे यत्फलं भवेत् ॥
निमिषार्द्धेन वसतां द्वारकायां तु तत्फलम्
॥८॥प्रभासे च कुरुक्षेत्रे यत्फलं वत्सरैः शतैः ॥
वसतां निमिषार्द्धेन ह्ययोध्यायां च तद्भवेत्
॥९॥अयोध्याधिपतिं रामं मथुरायां तु केशवम् ॥
द्वारकावासिनं कृष्णं कीर्तनं चापि दुर्ल्लभम्
॥१०॥मथुराकीर्तनेनापि श्रवणाद्द्वारकापुरः ॥
अयोध्यादर्शनेनापि त्रिशुद्धं च पदं व्रजेत्
॥११॥कृष्णं स्वयंभुवं देवं द्वारका त्रिदिवोपमा ॥
श्रुता चाप्यथवा दृष्टा कुरुते जन्मसंक्षयम्
॥१२॥श्रुताभिलिखिता दृष्टा ह्ययोध्या मथुरापुरी ॥
पापं हरति कल्पोत्थं द्वारका च तृतीयका
॥१३॥कृष्णं विष्णुं हरिं देवं विश्रांतं च कलौ स्मृतम् ॥
द्वादश्यां जागरे रात्रावश्वमेधायुतं फलम्
॥१४॥बालक्रीडनकं स्थानं ये स्मरंति दिनेदिने ॥
स्वर्णशैलपदं नृणां जायते राजसत्तम
॥१५॥धन्यास्ते मानवा लोके कलिकाले नरोत्तम ॥
प्लवनं सिंधुतोयेन गोमत्यां यैर्नरैः कृतम्
॥१६॥पश्चिमाशां नरः स्नात्वा कृत्वा वै करसंपुटम् ॥
द्वारकां ये स्मरिष्यंति तेषां कोटिगुणं फलम्
॥१७॥मनसा चिन्तयेद्यो वै कलौ द्वारवतीं पुरीम् ॥
कपिलाऽयुतपुण्यं च लभते हेलया नरः
॥१८॥गंगासागरजं पुण्यं गंगाद्वारभवं तथा ॥
कलौ द्वारवतीं गत्वा प्राप्नोति मनुजाधिप
॥१९॥सप्तकल्पस्मरो भूप मार्कण्डेयः स्मराम्यहम् ॥
समाना वाऽधिका वापि द्वारवत्या न कापि पूः
॥२०॥दुर्वाससा समो धन्यो नास्ति नाप्यधिको नृप ॥
भाषाबंधं येन कृत्वा द्वारकायां धृतो हरिः
॥२१॥मा काशीं मा कुरुक्षेत्रं प्रभासं मा च पुष्करम् ॥
द्वारकां गच्छ राजर्षे पश्य कृष्णमुखं शुभम्
॥२२॥अश्वमेधसहस्रं तु राजसूयशतं कलौ ॥
पदेपदे च लभते द्वारकां याति यो नरः
॥२३॥सफलं जीवितं तेषां कलौ नृपवरोत्तम ॥
ये षां न स्खलितं चित्तं द्वारकां प्रति गच्छताम्
॥२४॥माता च पुत्रिणी तेन पिता चैव पितामहाः ॥
पिंडदानं कृतं येन गोमत्यां कृष्णसन्निधौ
॥२५॥गोपीचन्दनमुद्रां तु कृत्वा भ्रमति भूतले ॥
सोऽपि देशो भवेत्पूतः कि पुनर्यत्र संस्थितम्
॥२६॥द्वारकायां समुद्भूतां तुलसीं कृष्णसेविताम् ॥
नित्यं बिभर्ति शिरसा स भवेत्त्रिदशाधिपः
॥२७॥दैत्यारेर्भगवत्तिथिश्च विजया नीरं च गगोद्भवं नित्यंकाशिपुरी तथैव तुलसी धात्रीफलं वल्लभम्
॥२८॥शास्त्रं भागवतं तथा च दयितं रामायणं द्वारका पुण्यं मालतिसम्भवं सुदयितं गीतं कृतं जागरम्
॥२९॥गृहे यस्य सदा तिष्ठेद्गोपीचन्दनमृत्तिका ॥
द्वारका तिष्ठते तत्र कृष्णेन सहिता कलौ
॥३०॥कृतघ्नो वाऽथ गोघ्नोऽपि हैतुकः कृत्स्नपापकृत् ॥
गोपीचन्दनसंपर्कात्पूतो भवति तत्क्षणात्
॥३१॥गोपीचन्दनखंडं तु यो ददातीह वैष्णवे ॥
कुलमेकोत्तरं तेन शतं तारितमेव वा
॥३२॥द्वारकासम्भवा भूप तुलसी यस्य मंदिरे ॥
तस्य वैवस्वतो नित्यं बिभेति सह किंकरैः
॥३३॥द्वारकासंभवा मृत्स्ना तुलसीकृष्णकीर्तनम् ॥
क्रतुकोटिशतं पुण्यं कथितं व्याससूनुना
॥३४॥आलोड्य सर्वशास्त्राणि पुराणानि पुनःपुनः ॥
मया दृष्टा महीपाल न द्वारकासमा पुरी
॥३५॥द्वारकागमनं येन कृतं कृष्णस्य कीर्तनम् ॥
स्नातं तीर्थसहस्रैस्तु तेनेष्टं क्रतुकोटिभिः
॥३६॥इद्रियाणां तु दमनं किं करिष्यति देहिनाम् ॥
सांख्यमध्ययनं चापि द्वारकां गच्छते न चेत्
॥३७॥पशवस्ते न सन्देहो गर्दभेन समा जनाः ॥
दृष्टं कृष्णमुखं यैर्न गत्वा द्वारवतीं पुरीम्
॥३८॥कृतकृत्यास्तु ते धन्या द्वादश्यां जागरे हरेः ॥
कृत्वा जागरणं भक्त्या नृत्यमाना मुहुर्मुहुः
॥३९॥कृष्णालयं तु यो गत्वा गोमत्यां पिंडपातनम् ॥
करोति शक्त्या दानं च मुक्तास्तस्य पितामहाः
॥४०॥प्रेतत्वं च पिशा चत्वं न भवेत्तस्य देहिनः ॥
जन्मजन्मनि राजेंद्र यो गतो द्वारकां पुरीम्
॥४१॥अनशनेन यत्पुण्यं प्रयागे त्यजतस्तनुम् ॥
द्वादश्यां निमिषार्द्धेन तत्फलं कृष्णसन्निधौ
॥४२॥सूर्यग्रहे गवां कोटिं दत्त्वा यत्फलमाप्नुयात् ॥
तत्फलं कलिकाले तु द्वारवत्यां दिनेदिने
॥४३॥कोटिभारं सुवर्णस्य ग्रहणे चंद्रसूर्ययोः ॥
दत्त्वा यत्फलमाप्नोति तत्फलं कृष्णदर्शने
॥४४॥दोलासंस्थं च ये कृष्णं पश्यंति मधुमाधवे ॥
तेषां पुत्राश्च पौत्राश्च मातामहपितामहाः
॥४५॥श्वशुराद्याः सभृत्याश्च पशवश्च नरोत्तम ॥
क्रीडंति विष्णुना सार्द्धं यावदाभूतसंप्लवम्
॥४६॥या काचिद्द्वादशी भूप जायते कृष्णसन्निधौ ॥
पश्यामि नांतरं किञ्चित्कलिकाले विशेषतः
॥४७॥कृष्णस्य सन्निधौ नित्यं वासरा द्वादशीसमाः ॥
युगादिभिः समाः सर्वे नित्यं कृष्णस्य सन्निधौ
॥४८॥कलौ द्वारवती सेव्या ज्ञात्वा पुण्यं विशेषतः ॥
षटपुर्यश्चैव सुलभा दुर्ल्लभा द्वारका कलौ
॥४९॥स्मरणात्कीर्तनाद्यस्माद्भुक्तिमुक्ती सदा नृणाम् ॥
दुर्वाससा तु ऋषिणा रक्षिता तिष्ठते पुरी
॥५०॥कलौ न शक्यते गंतुं विना कृष्णप्रसादतः ॥
कृष्णस्य दर्शनं कर्तुं यान्ति रुद्रादयः सुराः
॥५१॥त्रिकालं जगतीनाथ रुक्मिणीदर्शनाय च ॥
सफला भारती तस्य कृष्णकृष्णेति या वदेत्
॥५२॥द्वारका यायिनं दृष्ट्वा गायंति दिविसंस्थिताः ॥
नरकात्पितरो मुक्ताः प्रचलंति हसंति च
॥५३॥गोप्यं यत्पातकं पुंसां गोमती तद्व्यपोहति ॥
स्मरणात्कीर्त्तनाद्वापि किं पुनः प्लवने कृते
॥५४॥रुक्मिणीसहितं देवं शंखोद्धारे च शंखिनम् ॥
पिंडारके चतुर्बाहुं दृष्ट्वाऽन्यैः किं करिष्यति
॥५५॥रुक्मिणी देवकीपुत्रश्चक्रतीर्थं च गोमती ॥
गोपीनां चंदनं लोके तुलसी दुर्लभा कलौ
॥५६॥दुर्लभास्ते सुता ज्ञेया धरणीपापनाशकाः ॥
गयां गत्वा तु ये पिंडं द्वारकां कृष्णदर्शनम् ॥
करिष्यंति कलौ प्राप्ते वंजुलीसमुपोषणम्
॥५७॥समं पुण्यफलं तेषां वंजुली द्वारका समा ॥
येन न्यूना नाधिकाऽपि कथितं विष्णुना स्वयम्
॥५८॥वंजुली चाधिकां राजञ्छृणु वक्ष्यामि कारणम् ॥
द्वादश्यामुपवासेन द्वादश्यां पारणेन तु ॥
प्राप्यते हेलया चैव तद्विष्णोः परमं पदम्
॥५९॥गृहेषु वसतां तीर्थं गृहेषु वसतां तपः ॥
गृहेषु वसतां मोक्षो वंजुलीसमुपोषणात्
॥६०॥वंजुली द्वारका गंगा गया गोविंदकीर्त्तनम् ॥
गोमती गोकुलं गीता दुर्ल्लभं गोपिचन्दनम्
॥६१॥एतच्छृणोति यो भक्त्या कृत्वा मनसि केशवम् ॥
अश्वमेधसहस्रस्य फलमाप्नोति मानवः
॥६२॥श्रोष्यंति जागरे ये वै माहात्म्यं केशवस्य च ॥
सर्वपापविनिर्मुक्ताः पदं यास्यंति वैष्णवम्
॥६३॥पठिष्यंति नरा नित्यं ये वै श्रोप्यंति भक्तितः ॥
तुलापुरुषदानस्य फलं ते प्राप्नुवंति हि
॥६४॥कृष्णजागरणे दानं यच्चाल्पमपि दीयते ॥
सर्वं कोटिगुणं ज्ञेयमित्याहुः कवयो नृप
॥६५॥मानकूटं तुलाकूटं कन्याहयगवां क्रयात् ॥
तत्सर्वं विलयं याति द्वादश्यां जागरे कृते
॥६६॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्ये वंजुलीद्वारकागंगागयागोविन्दगोमतीगोकुल गीतागोपीचन्दनमाहात्म्यवर्णनंनाम पञ्चविंशतितमोऽध्यायः ॥ २५ ॥