गोमत्युत्पत्तिमाहात्म्यवर्णनम्
प्रह्लाद उवाच
ततो गच्छेद्द्विजश्रेष्ठा गोमतीं कृष्णसंश्रयाम् ॥
यस्या दर्शनमात्रेण मुच्यते सर्वपातकैः ॥
सर्वपापविनिर्मुक्तः कृष्णसायुज्यमाप्नुयात्
॥१॥दुरितौघक्षयकरममंगल्यविनाशनम् ॥
सर्वकामप्रदं नॄणां प्रणमेद्गोमतीजलम्
॥२॥महापापक्षयकरमगतीनांगतिप्रदम् ॥
पूर्वपुण्यवशात्प्राप्तं प्रणमेद्गोमतीजलम्
॥३॥ऋषय ऊचुः
दैत्येन्द्र संशयोऽस्माकं तं त्वं छेत्तुमिहार्हसि ॥
इयं का गोमती तत्र केनानीता महामते
॥४॥केन कार्यवशेनेह संप्राप्ता वरुणालयम् ॥
सर्वं भागवतश्रेष्ठ ह्येतद्विस्तरतो वद
॥५॥प्रह्लाद उवाच
एकार्णवे पुरा भूते नष्टे स्थावर जंगमे ॥
तदा ब्रह्मा समभवद्विष्णोर्नाभिसरोरुहात्
॥६॥आदिष्टः प्रभुणा ब्रह्मा सृजस्व विविधाः प्रजाः ॥
इति धाता समादिष्टो हरिणा सृष्टि कारणे
॥७॥उक्त्वा बाढमिति ब्रह्मा ततः सृष्टौ मनो दधे ॥
ससर्ज मानसात्सद्यः सनकाद्यान्कुमारकान् ॥
उवाच वचनं ब्रह्मा प्रजाः सृजत पुत्रकाः
॥८॥ब्रह्मणो वचनं श्रुत्वा ते कृतांजलयोऽब्रुवन् ॥
भगवन्भगवद्रूपं द्रष्टुकामा वयं प्रभो
॥९॥न बन्धमनुवर्त्तामः सृष्टिरूपं दुरासदम् ॥
इत्युक्त्वा ते ययुः सर्वे सनकाद्या कुमारकाः
॥१०॥पश्चिमां दिशमास्थाय तीरे नदनदीपतेः ॥
तेजोमयस्य रूपस्य द्रष्टुकामा महात्मनः ॥
तस्मिन्मानसमाधाय तेपिरे परमं तपः
॥११॥बहुवर्षसहस्रैस्तु प्रसन्ने धरणीधरे ॥
भित्त्वा जलं समुत्तस्थौ तेजोरूपं दुरासदम्
॥१२॥अनेकदैत्यदमनं बहुयंत्रविदारणम् ॥
सूर्यकोटिप्रभाभासं सहस्रारं सुदर्शनम्
॥१३॥तं दृष्ट्वा विस्मिताः सर्वे ब्रह्मपुत्राः परस्परम् ॥
वीक्षमाणा भगवतः परमायुधमुत्तमम्
॥१४॥तान्विलोक्य तथाभूतान्वागुवाचाशरीरिणी ॥
भो ब्रह्मपुत्रा भगवाञ्छ्रीघ्रमाविर्भविष्यति
॥१५॥अर्हणार्थं भगवतः शीघ्रमर्घ्यं प्रकल्प्यताम् ॥
आयुधं लोकनाथस्य द्विजाः शीघ्रं प्रसाद्यताम्
॥१६॥तच्छ्रुत्वाऽऽकाशवचनं तुष्टुवुस्ते सुदर्शनम्
॥१॥ऋषय उचुः ॥
ज्योतिर्मय नमस्तेऽस्तु नमस्ते हरिवल्लभ ॥
सुदर्शन नमस्तेऽस्तु सहस्राराऽक्षराऽव्यय
॥१८॥नमस्ते सूर्यरूपाय ब्रह्म रूपाय ते नमः ॥
अमोघाय नमस्तुभ्यं रथांगाय नमोनमः
॥१९॥एवं ते पूजयामासुः सुमनोभिस्तथाऽक्षतैः
॥२०॥स्तवैर्नानाविधैः स्तुत्वा प्रणेमुर्हरिवल्लभम् ॥
तत्प्रसाद्य सुनाभं तु प्रभुसंदर्शनोत्सुकाः
॥२०॥अस्मरन्मनसा देवं ब्रह्माणं पितरं स्वकम् ॥
तेषां तु चिंतितं ज्ञात्वा ब्रह्मा गंगामथाब्रवीत्
॥२१॥याहि शीघ्रं सरिच्छ्रेष्ठे पृथिव्यां हरिकारणात् ॥
गां गता त्वं महाभागे ततो बहुमताऽसि मे
॥२२॥उर्व्यां ते गोमती नाम सुप्रसिद्धं भविष्यति
॥२३॥वसिष्ठस्यानुगा भूत्वा याहि शीघ्रं धरातलम् ॥
तातं पुत्रीवानुयाता वसिष्ठतनया भव
॥२४॥बाढमित्येव सा देवी प्रस्थिता वरुणालयम् ॥
वसिष्ठस्त्वग्रतो याति तं गंगा पृष्ठतोऽन्वगात्
॥२५॥तां दृष्ट्वा मनुजाः सर्वे वसिष्ठेन समन्विताम् ॥
नमश्चक्रुर्महाभागां गच्छतो पश्चिमार्णवम्
॥२६॥आविर्बभूव तत्रैव यत्र ते मुनयः स्थिताः ॥
द्रष्टुकामा हरे रूपं श्रिया जुष्टं चतुर्भुजम्
॥२७॥दृष्ट्वा वसिष्ठमनुगामायान्तीं सुरपावनीम् ॥
अवाकिरन्महाभागां सुमनोभिश्च सर्वशः
॥२८॥दिव्यैर्माल्यैः सुगन्धैश्च गन्धधूपैस्तथाऽक्षतैः ॥
संपूज्य हृष्टमनसः साधुसाध्विति चाब्रुवन्
॥२९॥वसिष्ठं तेऽग्रगं दृष्ट्वा ह्युदतिष्ठंस्ततो द्विजाः ॥
अर्घ्यादिसत्क्रियां कृत्वा प्रहृष्टा इदमब्रुवन्
॥३०॥यस्मात्त्वया समानीता ह्यस्मिँल्लोके सरिद्वरा ॥
तस्मात्तव सुतेत्येवं ख्यातिं लोके गमिष्यति
॥३१॥गोः स्वर्गादागता यस्मादिदं स्थानं मती मता ॥
तस्माद्धि गोमतीनाम ख्यातिं लोके गमिष्यति
॥३२॥अस्या दर्शनमात्रेण मुक्तिं यास्यंति मानवाः ॥
किं पुनः स्नान दानादि कृत्वा यांति हरेः पदम्
॥३३॥तामेव चार्घ्यं दत्त्वा ते योगींद्रा ईडिरे हरिम् ॥
परं पुरुषसूक्तेन पुरुषं शेषशायिनम्
॥३४॥इति संस्तुवतां तेषां हरिराविर्बभूव ह ॥
पीतकौशेयवसनो वनमालाविभूषितः ॥
दिव्यमाल्यानुलिप्तांगो दिव्याभरणभूषितः
॥३५॥शेषासनगतं देवं दिव्यानेकोद्यतायुधम् ॥
ज्वलत्किरीटमुकुटं स्फुरन्मकरकुंडलम्
॥३६॥भक्ताभयप्रदं शांतं श्रीवत्सांकं महाभुजम् ॥
सदा प्रसन्नवदनं घनश्यामं चतुर्भुजम्
॥३७॥पादसंवाहनासक्तलक्ष्म्या जुष्टं मनोहरम् ॥
तं दृष्ट्वा मुनयः सर्वे हर्षोत्कर्षसमन्विताः ॥
विष्णुं ते विष्णुसूक्तैश्च तुष्टुवुर्वेदसंभवैः
॥३८॥एवं संस्तुवता तेषां विष्णुर्दीनानुकंपकः ॥
उवाच सुप्रसन्नेन मनसा द्विजसत्तमान्
॥३९॥श्रीभगवानुवाच
भोभोः कुमारास्तुष्टोऽहं प्रदास्यामि यथेप्सितम् ॥
भविष्यथ ज्ञानयुता अस्पृष्टा मम मायया
॥४०॥यस्मान्मोक्षार्थिभिर्विप्रा जलेनाहं प्रसादितः ॥
तस्मादिदं परं तीर्थं सर्वकामप्रदं परम्
॥४१॥अनुग्रहाय भवतां यत्र चक्रं सुदर्शनम् ॥
निःसृतं प्रथमं विप्रा जलं भित्त्वा ममाग्रतः
॥४२॥चक्रतीर्थमिति ख्यातं तस्मादेतद्भविष्यति ॥
ममापि नियतं वासो भविष्यति महार्णवे
॥४३॥येऽत्र स्नानं प्रकुर्वंति प्रसंगेनापि मानवाः ॥
चक्रतीर्थे द्विजश्रेष्ठास्तेषां मुक्तिः करे स्थिता
॥४४॥भवतोऽपि सदा ह्यत्र तिष्ठध्वं च द्विजर्षभाः ॥
वायुभूतांतरिक्षस्थाः सर्वकामस्य दायकाः
॥४५॥प्रह्लाद उवाच
तच्छ्रुत्वा हृष्टमनसः कृत्वार्घ्यं सुरपावनीम् ॥
अवनिज्य हरेः पादौ मूर्ध्नाऽपश्चाप्यधारयन्
॥४६॥प्रक्षाल्य सा हरेः पादौ प्रविष्टा वरुणालयम् ॥
तस्मिन्महापापहरा गोमती सागरं गता
॥४७॥वरं दत्त्वा ततो विष्णुस्तत्रैवान्तर धीयत ॥
सनकाद्या ब्रह्मसुतास्तस्थुस्तत्र समाहिताः
॥४८॥एवं सा गोमती तत्र संजाता सागरंगमा ॥
सर्वपापहरा प्रोक्ता पूर्वगंगेति या श्रुता
॥४९॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्यं सनत्कुमारतपोबलेन भगवत्प्रादुर्भाव वृत्तान्तवर्णनपुरःसर गोमत्युत्पत्तिमाहात्म्यवर्णनंनाम पञ्चमोऽध्यायः ॥ ५ ॥