मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — द्वारकामाहात्म्यम्, अध्याय २१

3
प्रभासखण्डः · द्वारकामाहात्म्यम् · 21

शिवलिगमलंघ्यं हि बुद्धिपूर्वं हतो ह्यहम्

श्रीप्रह्लाद उवाच

शिवलिगमलंघ्यं हि बुद्धिपूर्वं हतो ह्यहम् ॥

उवाच कृष्णं दनुजश्छलितोऽहं त्वयाऽनघ

॥१॥

श्रीविष्णु रुवाच

परितुष्टोस्मि ते दैत्य शौर्येण शिवसंश्रयात् ॥

वरं वरय भद्रं ते यदिच्छसि महामते

॥२॥

कुश उवाच

यथा पूज्यो महादेवो मम त्वं च तथा हरे ॥

एक एव द्विधामूर्तिस्तस्मात्त्वां वरयाम्यहम्

॥३॥

शिवलिंगं त्वया नाथ स्थापितं यन्ममोपरि ॥

मम नाम्ना भवतु च कुशेश्वर इति स्मृतम्

॥४॥

अनुग्राह्यो यद्यहं ते मम कीर्तिर्भवत्वियम् ॥

एवं भविष्यतीत्युक्तस्तत्रैवावस्थितोऽसुरः

॥५॥

ततोऽन्यदानवान्सर्वान्प्रेषयामास माधवः ॥

रसातलगता केचित्केचिद्विष्णुं समागताः

॥६॥

अनंतः संस्थितस्तत्र विष्णुश्च तदनंतरम् ॥

ज्ञात्वा विमुक्तिदं तीर्थं दुर्वासा मुनिपुंगवः

॥७॥

गोमत्यां चक्रतीर्थे च भगवांश्च त्रिविक्रमः ॥

तेन तन्मुक्तिदं मत्वा दुर्वासास्तत्र संस्थितः

॥८॥

एवं त्रिविक्रमः स्वामी तदाप्रभृति संस्थितः ॥

कलौ पुनः कलान्यासात्कृष्णत्वमगमत्प्रभुः

॥९॥

प्रह्लाद उवाच

पूजाविधिं हरेर्विप्राः शृणुध्वं सुसमाहिताः ॥

विशेषात्फलदः प्रोक्तः पूजितो मधुमाधवे

॥१०॥

मधुसूदनीं नरो यस्तु द्वारवत्यां करोति च ॥

पूजयेत्कृष्णदेवं च स्नापयित्वा विलिप्य च

॥११॥

गन्धैश्च वाससाऽऽच्छाद्य धूपैर्दीपैरनेकधा ॥

नैवेद्यैर्भूषणैश्चैव तांबूलेन फलेन च

॥१२॥

आरार्तिकेन संपूज्य दण्डवत्प्रणिपत्य च ॥

घृतेन दीपकं दत्त्वा रात्रौ जागरणं तथा ॥

कुर्य्याच्च गीतवादित्रैस्तथा पुस्तकवाचकैः

॥१३॥

कृत्वा चैवं विधिं भक्त्या सर्वान्कामानवाप्नु यात्

॥१४॥

तथा नभसि सम्पूज्य पवित्रारोपणेन च ॥

पितॄणां चाक्षया तृप्तिः सफलाः स्युर्मनोरथाः

॥१५॥

प्रबोधवासरे प्राप्ते कार्तिके द्विज सत्तमाः ॥

संपूज्य कृष्णं देवेशं परां गतिमवाप्नुयात्

॥१६॥

तथा नभस्ये संपूज्य पवित्रारोपणेन च ॥

सर्वान्कामानवाप्नोति विष्णुलोकं च गच्छति

॥१७॥

युगादिषु च संपूज्य ह्ययने दक्षिणोत्तरे ॥

आषाढज्येष्ठमाघेषु पौषादिद्वादशीषु च

॥१८॥

कलौ कृष्णं पूजयित्वा गोमत्युदधिसंगमे ॥

विमलं लोकमाप्नोति यत्र गत्वा न शोचति

॥१९॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे चतुर्थे द्वारकामाहात्म्ये गोमतीतीरस्थ क्षेत्रस्थ भगवत्पूजामाहात्म्यवर्णनंनामैकविंशतितमोऽध्यायः ॥ २१ ॥