एतत्पुराणमखिलं पुरा स्कन्देन भाषितम्
सूत उवाच
एतत्पुराणमखिलं पुरा स्कन्देन भाषितम् ॥
भृगवे ब्रह्मपुत्राय तस्माल्लेभे तथांऽगिराः
॥१॥ततश्च च्यवनः प्राप ऋचीकश्च ततो मुनिः ॥
एवं परंपरा प्राप्तं सर्वेषु भुवनेष्वपि
॥२॥स्कान्दं पुराणमेतच्च कुमारेण पुरोद्धृतम् ॥
यः शृणोति सतां मध्ये नरः पापाद्विमुच्यते
॥३॥इदं पुराणमायुष्यं चतुर्वर्णसुखप्रदम् ॥
निर्मितं षण्मुखेनेह नियतं सुमहात्मना
॥४॥एवमेतत्समाख्यातमाख्यानं भद्रमस्तु वः
॥५॥मण्डितं सप्तभिः खण्डैः स्कान्दं यः शृणुयान्नरः ॥
न तस्य पुण्यसंख्यानं कर्तुं शक्येत केनचित्
॥६॥य इदं धर्ममाहात्म्यं ब्राह्मणाय प्रयच्छति ॥
स्वर्गलोके वसेत्तावद्यावदक्षरसंख्यया
॥७॥यथा हि वर्षतो धारा यथा वा दिवि तारकाः ॥
गंगायां सिकता यद्वत्तद्वत्संख्या न विद्यते
॥८॥यो नरः शृणुयाद्भक्त्या दिनानि च कियन्ति वै ॥
सर्वार्थसिद्धो भवति य एतत्पठते नरः
॥९॥पुत्रार्थी लभते पुत्रान्धनार्थी लभते धनम् ॥
लभते पतिकामा या पतिं कन्या मनोरमम्
॥१०॥समागमं लभन्ते च बान्धवाश्च प्रवासिभिः ॥
स्कान्दं पुराणं श्रुत्वा तु पुमानाप्नोति वाञ्छितम्
॥११॥शृण्वतः पठतश्चैव सर्वकामप्रदं नृणाम्
॥१२॥पुण्यं श्रुत्वा पुराणं वै दीर्घमायुश्च विन्दति ॥
महीं विजयते राजा शत्रूंश्चाप्यधितिष्ठति
॥१३॥वेदविच्च भविद्विप्रः क्षत्रियो राज्यमाप्नुयात् ॥
धनं धान्यं तथा वैश्यः शूद्रः सुखमवाप्नुयात्
॥१४॥अध्यायमेकं शृणुयाच्छ्लोकं श्लोकार्धमेव वा ॥
यः श्लोकपादं शृणुयाद्विष्णुलोकं स गच्छति
॥१५॥श्रुत्वा पुराणमेतद्धि वाचकं यस्तु पूजयेत् ॥
तेन ब्रह्मा च विष्णुश्च रुद्रश्चैव प्रपूजितः
॥१६॥एकमप्यक्षरं यस्तु गुरुः शिष्ये निवेदयेत् ॥
पृथिव्यां नास्ति तद्द्रव्यं यद्दत्त्वा ह्यनृणी भवेत्
॥१७॥अतः संपूजनीयस्तु व्यासः शास्त्रोपदेशकः ॥
गोभू हिरण्यवस्त्राद्यैर्भोजनैः सार्वकामिकैः
॥१८॥य एवं भक्तियुक्तस्तु श्रुत्वा शास्त्रमनुत्तमम् ॥
पूजयेदुपदेष्टारं स शैवं पदमाप्नुयात्
॥१९॥पुराणश्र वणादेव अनेकभवसंचितम् ॥
पापं प्रशममायाति सर्वतीर्थफलं लभेत्
॥२०॥अमृतेनोदरस्थेन म्रियन्ते सर्वदेवताः ॥
कण्ठस्थितविषेणापि यो जीवति स पातु वः
॥२१॥व्यास उवाच
इत्युक्त्वोपरते सूते शौनकादि महर्षयः ॥
संपूज्य विधिवत्सूतं प्रशस्याथाभ्यनन्दयन्
॥२२॥ऋषय ऊचुः
कथितो भवता सर्गः प्रतिसर्गस्तथैव च ॥
वंशानुवंशचरितं पुराणानामनुक्रमः
॥२३॥मन्वन्तरप्रमाणं च ब्रह्माण्डस्य च विस्तरः ॥
ज्योतिश्चक्रस्वरूपं च यथावदनुवर्णितम्
॥२४॥धन्याः स्म कृतकृत्याः स्म वयं तव मुखाम्बुजात् ॥
स्कान्दं महापुराण हि श्रुत्वा सूतातिहर्षिताः
॥२५॥वयं महर्षयो विप्राः प्रदद्मोऽद्य तवाऽऽशिषः ॥
व्यासशिष्य महाप्राज्ञ चिरं जीव सुखी भव
॥२६॥इति दत्त्वाऽऽशिषस्तस्मै दत्त्वा वासोविभूषणम् ॥
विसृज्य लोमशं सूतं यज्ञकर्माण्यथाचरन्
॥२७॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्ये स्कन्दमहापुराणश्रवणपठनपुस्तकप्रदानपौराणिकव्यासपूजनमाहात्म्यवर्णनपूर्वकं समस्तस्कान्दमहा पुराणग्रन्थसमाप्त्युपसंहारसूतसत्कारवृत्तान्तवर्णनंनाम चतुश्चत्वारिंशत्तमोऽध्यायः ॥ ४४ ॥
इति श्रीस्कान्दे महापुराणे सप्तमे प्रभासखण्डे चतुर्थं द्वारकामाहात्म्यं सम्पूर्णम् ॥
(७-४) ॥
इति श्रीस्कान्दे महापुराणे सप्तमं प्रभासखण्डं सम्पूर्णम्
॥७॥