नमः परमदेवाय त्रैगुण्याविजितात्मने
नमः परमदेवाय त्रैगुण्याविजितात्मने ।
सर्वतो योगरूपाय संसाराभावहेतवे
॥१॥स्थितिसंरोधसर्गाणां हेतवेऽन्तःप्रसारिणे ।
षड्विंशाय प्रधानाय महादेवाय धीमते
॥२॥प्रजापतेर्महाक्षेत्रे गङ्गाकालिन्दिसंगमे ।
प्रयागे परमे पुण्ये ब्रह्मणो लोकवर्त्मनि
॥३॥मुनयः संशितात्मानस्तपसा क्षीणकल्मषाः ।
तीर्थसम्प्लवनार्थाय पौर्णमास्यां कृताह्निकाः
॥४॥पौराणिकमपश्यन्त सूतं सत्यपरायणम् ।
स्नात्वा तस्मिन्महातीर्थे प्रणामार्थमुपागतम्
॥५॥दृष्ट्वा ते सूतमायान्तमृषयो हृष्टमानसाः ।
आशास्यासनसंवेशं तद्योग्यं समकल्पयन्
॥६॥स प्रणम्य च तान्सर्वान्सूतस्तान्मुनिपुंगवान् ।
प्रदत्तमासनं भेजे सर्वधर्मसमन्वितः
॥७॥तमासीनमपृच्छन्त मुनयस्तपसैधिताः ।
ब्रह्मसत्त्रे पुरा साधो नैमिशारण्यवासिनाम्
॥८॥कथितं भारताख्यानं पुराणं च परं त्वया ।
तेन नः प्रतिभासि त्वं साक्षात्सत्यवतीसुतः
॥९॥सर्वागमपरार्थज्ञः सत्यधर्मपरायणः ।
द्विजपूजारतो नित्यं तेन पृच्छां त्वमर्हसि
॥१०॥भारताख्यानसदृशं पुराणाद्यद्विशिष्यते ।
तत्त्वा पृच्छाम वै जन्म कार्त्तिकेयस्य धीमतः
॥११॥इमे हि मुनयः सर्वे त्वदुपास्तिपरायणाः ।
स्कन्दसम्भवशुश्रूषासंजातौत्सुक्यमानसाः
॥१२॥एवमुक्तस्तदा सूतः संसिद्धैर्मुनिपुंगवैः ।
प्रोवाचेदं मुनीन्सर्वान्वचो भूतार्थवाचकम्
॥१३॥शृणुध्वं मुनयः सर्वे कार्त्तिकेयस्य सम्भवम् ।
ब्रह्मण्यत्वं समाहात्म्यं वीर्यं च त्रिदशाधिकम्
॥१४॥मुमुक्षया परं स्थानं याते शुकमहात्मनि ।
सुतशोकाभिसंतप्तो व्यासस्त्र्यम्बकमैक्षत
॥१५॥दृष्ट्वैव स महेशानं व्यासोऽभूद्विगतव्यथः ।
विचरन्स तदा लोकान्मुनिः सत्यवतीसुतः
॥१६॥मेरुशृङ्गेऽथ ददृशे ब्रह्मणः सुतमग्रजम् ।
सनत्कुमारं वरदं योगैश्वर्यसमन्वितम्
॥१७॥विमाने रविसंकाशे तिष्ठन्तमनलप्रभम् ।
मुनिभिर्योगसंसिद्धैस्तपोयुक्तैर्महात्मभिः
॥१८॥वेदवेदाङ्गतत्त्वज्ञैः सर्वधर्मागमान्वितैः ।
सकलावाप्तविद्यैस्तु चतुर्वक्त्रमिवावृतम्
॥१९॥दृष्ट्वा तं सुमहात्मानं व्यासो मुनिमथास्थितम् ।
ववन्दे परया भक्त्या साक्षादिव पितामहम्
॥२०॥ब्रह्मसूनुरथ व्यासं समायातं महौजसम् ।
परिष्वज्य परं प्रेम्णा प्रोवाच वचनं शुभम्
॥२१॥दिष्ट्या त्वमसि धर्मज्ञ प्रसादात्पारमेश्वरात् ।
अपेतशोकः सम्प्राप्तः पृच्छस्व प्रवदाम्यहम्
॥२२॥श्रुत्वाथ वचनं सूनोर्ब्रह्मणो मुनिपुंगवः ।
इदमाह वचो विप्राश्चिरं यद्धृदये स्थितम्
॥२३॥कुमारस्य कथं जन्म कार्त्तिकेयस्य धीमतः ।
किंनिमित्तं कुतो वास्य इच्छाम्येतद्धि वेदितुम्
॥२४॥कथं रुद्रसुतश्चासौ वह्निगङ्गासुतः कथम् ।
उमायास्तनयश्चैव स्वाहायाश्च कथं पुनः ।
सुपर्ण्याश्चाथ मातॄणां कृत्तिकानां कथं च सः
॥२५॥कश्चासौ पूर्वमुत्पन्नः किंतपाः कश्च विक्रमः ।
भूतसम्मोहनं ह्येतत्कथयस्व यथातथम्
॥२६॥सूत उवाच
एवं स पृष्टस्तेजस्वी ब्रह्मणः पुत्रसत्तमः ।
उवाच सर्वं सर्वज्ञो व्यासायाक्लिष्टकारिणे ।
तच्छृणुध्वं यथातत्त्वं कीर्त्यमानं मयानघाः
॥२७॥इति स्कन्दपुराणे प्रथमोऽध्यायः ॥