मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अम्बिकाखण्डः, अध्याय २५

3
अम्बिकाखण्डः · 25

ततस्तत्रागतान्देवान्देवताधिपतिर्भवः

सनत्कुमार उवाच

ततस्तत्रागतान्देवान्देवताधिपतिर्भवः ।

मरुतः प्राह सम्पूज्य कन्यार्थं सदसत्पतिः

॥१॥

मरुतो ये महावेगा महासत्त्वा महौजसः ।

आमन्त्र्य नाम्ना तानीशः सशक्रः सपितामहः

॥२॥

युष्माकं सुयशा कन्या सुभगा दिव्यरूपिणी ।

दातुमर्हथ तां सुभ्रूं स्नुषां मह्यं महाबलाः

॥३॥

मरुत ऊचुः

त्वमस्माकं च तस्याश्च सर्वस्य जगतस्तथा ।

प्रभविष्णुस्त्रिलोकेश न तु याचितुमर्हसि

॥४॥

त्वयैव देया ग्राह्या च त्वं नो गतिरनुत्तमा ।

मा नः परानिवेशान याचनेन विभावय

॥५॥

पिता नः कश्यपः श्रीमान्मरीचिश्च पितामहः ।

पितामहपिता ब्रह्मा तस्यापि त्वं पितामहः ।

स त्वं पितामहोऽस्माकं न परान्कर्तुमर्हसि

॥६॥

स एवमुक्तो देवेशो मरुद्भिर्देवसत्तमैः ।

सुयशां मरुतां कन्यामानयामास तत्क्षणात्

॥७॥

स्वयं होतास्य तत्रासीद्ब्रह्मा लोकपितामहः ।

कश्यपश्च तथोद्गाता अत्रिः साम स्वयं जगौ ।

अथर्वाङ्गिरसौ देवौ ब्रह्मत्वमपि चक्रतुः

॥८॥

नारदः पर्वतश्चैव चित्रसेनश्च गायनः ।

विश्वावसू रुचिश्चैव हाहा हूहू तथैव च

॥९॥

तथा शालिशिरा यश्च विश्रुतो गण्डमण्डकः ।

ईतिश्चैवेन्द्रवाहश्च यज्ञवाहोऽथ दक्षिणः ।

एते चान्ये च गन्धर्वा जगुर्मधुरकण्ठिनः

॥१०॥

उर्वशी चैव रम्भा च घृताची पूर्वचित्त्यपि ।

तिलोत्तमा च विश्वाची अन्याश्चाप्सरसः शुभाः ।

अनृत्यन्त महाभागा नृत्तं सुरमनोहरम्

॥११॥

सनत्कुमार उवाच

स एवमभवद्व्यास विवाहस्तस्य धीमतः ।

नन्दिनो गणमुख्यस्य अनौपम्यो ह्यनिन्दितः

॥१२॥

ततः स तु कृतोद्वाहो नन्दी गत्वा महामनाः ।

पादान्ववन्दे देवस्य देव्या ब्रह्मण एव च ।

शिलादस्य च लोकेशः श्रिया परमया युतः

॥१३॥

देव उवाच

वरं वृणीष्व पुत्र त्वं स्नुषा चेयं तव प्रिया ।

वरं ददामि ते वत्स अनया सहमीप्सितम्

॥१४॥

नन्द्युवाच

भगवन्यदि तुष्टोऽसि त्वयि भक्तिर्दृढास्तु मे ।

सदा च तुष्टो भव मे साम्बः सह गणेश्वरैः

॥१५॥

पितरं चैव मे देव उत्पादकमिमं प्रभो ।

अनुग्रहेण युक्तेन योक्तुमर्हसि कामद

॥१६॥

देव उवाच

सदाहं तव नन्दीश सुतुष्टः सगणेश्वरः ।

पार्वत्या सहितो धीमन्निदं च शृणु मे वचः

॥१७॥

सदेष्टश्च वरिष्ठश्च परमैश्वर्यसंयुतः ।

महायोगी महेष्वासो महाबलपराक्रमः

॥१८॥

अजय्यश्चैव जेता च पूज्येज्यश्च सदा भव ।

अहं यत्र भवांस्तत्र यत्र त्वं तत्र चाप्यहम्

॥१९॥

अयं च ते पिता विप्रः परमैश्वर्यसंयुतः ।

भविष्यति गणाध्यक्षो महागणपतिर्मम

॥२०॥

पर्वतं चास्य वैभ्राजं कामगं सर्वकाञ्चनम् ।

उपेतं भवनैर्दिव्यैः प्रयच्छामि जनावृतम् ।

तेनायं सर्वलोकेषु चरिष्यति यथेप्सितम्

॥२१॥

स्थानं श्रीपर्वते चास्य भविष्यति सुपूजितम् ।

भृगौ तस्मिंश्च यः प्राणांस्त्यक्ष्यते वै सुधार्मिकः ।

स कामचारी वैभ्राजे गणपोऽस्य भविष्यति

॥२२॥

सनत्कुमार उवाच

ततो देवी महाभागा शैलादेरददद्वरम् ।

सोऽब्रवीत्त्वयि भक्तिर्मे सदैवानपगा भवेत्

॥२३॥

ततो मरुत्सुता चैव उभाभ्यामपि चोदिता ।

वरं वृणु यथेष्टं वै ताविदं प्रत्युवाच ह

॥२४॥

युवयोरस्तु भक्तिर्मे तथा भर्तरि चैव हि ।

नित्यं चानपगा स्यान्मे धर्मे च मतिरुत्तमा ।

एतदिच्छामि देवेशौ वरं वरसहस्रदौ

॥२५॥

सनत्कुमार उवाच

ततस्तावेवमेतत्ते भवितेति शुचिस्मिते ।

ऊचतुर्मुदितौ देवौ स्नुषां तां वरवर्णिनीम्

॥२६॥

गणाश्चास्य ततोऽभ्येत्य सर्वे देवप्रियेप्सया ।

वरं ददुर्महासत्त्वाः स वव्रे काञ्चनप्रभः

॥२७॥

युष्मासु मम भक्तिश्च ऐश्वर्यं चापि सम्मतम् ।

वश्याश्च यूयं सर्वे मे प्रियो युष्माकमेव च

॥२८॥

गणा ऊचुः

भवान्मन्तानुमन्ता च गतिरागतिरेव च ।

अस्माकमीशः सर्वेषां देवानामपि चेश्वरः

॥२९॥

कुष्माण्डानां वरिष्ठश्च रुद्राणां त्वं महाबलः ।

ईतीनां द्वारपालश्च प्रमथानां तथैव च

॥३०॥

महाबलो महायोगी सेनानीस्त्वं हि नो मतः ।

त्वं भूतो भूतनेता च नायकोऽथ विनायकः

॥३१॥

ग्रहाणामधिपश्चैव उग्रदण्डधरस्तथा ।

त्वमग्रयोधी शत्रुघ्नस्त्वं वीरस्त्वं दिवस्पतिः

॥३२॥

महानुभावस्त्वं चैव क्षीरोदनिलयश्च ह ।

जप्येश्वरनिकेतश्च जप्येश्वरविभावितः

॥३३॥

भावनः सर्वभूतानां वरदो वरदार्चितः ।

अस्माकं वरदश्चैव भव भूतेश्वर प्रभो

॥३४॥

सनत्कुमार उवाच

स एवं गणपैः सर्वैः स्तुतो नन्दीश्वरो विभुः ।

उवाच प्रणतः सर्वान्ब्रूत किं करवाणि वः

॥३५॥

त एवमुक्ता गणपाः सर्व एव महाबलाः ।

ऊचुस्तं दिव्यभावज्ञा देवदेवस्य संनिधौ

॥३६॥

त्वमस्माकं गणाध्यक्षः कृतो देवेन शम्भुना ।

अस्माभिश्चाभिषिक्तस्त्वं नायको धर्मदायकः

॥३७॥

स त्वं शिवश्च सौम्यश्च गुणवानगुणेष्वपि ।

क्षमाशौचदमोपेतो भव नः प्रियकृत्सदा

॥३८॥

सनत्कुमार उवाच

एवमुक्तस्तदा सर्वान्प्रणम्य बहुमानतः ।

शिरस्यञ्जलिमाधाय गणपानस्तुवत्तदा

॥३९॥

नन्द्युवाच

नमो वः सर्वभूतेभ्यो नमो योगिभ्य एव च ।

नमश्चाप्यनिकेतेभ्यो योगीशेभ्यो नमस्तथा

॥४०॥

नमः कामचरेभ्यश्च नम उग्रेभ्य एव च ।

मृत्युभ्यश्च यमेभ्यश्च कालेभ्यश्च नमो नमः

॥४१॥

नमः काञ्चनमालेभ्यः सर्वधर्मिभ्य एव च ।

नमो वो वधकेभ्यश्च अवध्येभ्यस्तथैव च

॥४२॥

नमः परमयोगिभ्यो जटिभ्यश्च नमो नमः ।

नमो वोऽदृश्यरूपेभ्यो विकृतेभ्यस्तथैव च

॥४३॥

नमो वल्कलवासेभ्यः कृत्तिवासेभ्य एव च ।

नमः श्वेताम्बरस्रग्भ्यश्चित्रस्रग्भ्यो नमो नमः

॥४४॥

धावद्भ्यश्च द्रवद्भ्यश्च प्रस्थितेभ्यो नमो नमः ।

नमो मुनिभ्यो गायद्भ्यो जपद्भ्यश्च नमो नमः

॥४५॥

नमः शरभरूपेभ्यः शतरूपेभ्य एव च ।

नमः पर्वतवासेभ्यो व्याघ्ररूपेभ्य एव च

॥४६॥

नमो मार्जाररूपेभ्यः काककोकेभ्य एव च ।

नमो दैवतरूपेभ्यः पवनेभ्यस्तथैव च

॥४७॥

नमोऽग्निभ्यस्तथाद्भ्यश्च वरुणेभ्यस्तथैव च ।

नमो धनेशरूपेभ्यः सर्वरूपिभ्य एव च

॥४८॥

नमश्चोदरवक्त्रेभ्यः सर्ववक्त्रेभ्य एव च ।

नमो वामनरूपेभ्यो वामरूपेभ्य एव च

॥४९॥

देवासुरमनुष्याणामाप्यायिभ्यो नमो नमः ।

नमो वः सर्वभूतानां नमो वः सर्वतः शुभाः

॥५०॥

ग्रहेभ्यश्च नमो वोऽस्तु मोक्षेभ्यश्च नमस्तथा ।

शुभेभ्यश्च नमो वोऽस्तु अशुभेभ्यस्तथैव च ।

मम सौम्याः शिवाश्चैव भवन्तु गणनायकाः

॥५१॥

इति स्तुता गणपतयो महाबलाः शुभैर्वचोभिः सुरशत्रुनाशनाः ।

दिशन्तु मे सुखमतुलं सुखप्रदा बलं च वीर्यं स्थिरतां

॥५२॥

तपोऽक्षयं स्थानमथातुलां गतिं यशस्तथाग्र्यं बहु

दिशन्तु सर्वं मनसेप्सितं च मे सुरेश्वराः पुष्टिमनुत्तमां

॥५३॥

सनत्कुमार उवाच

इमौ नन्दिगणेन्द्राणां स्तवौ योऽध्येति नित्यशः ।

सोऽश्वमेधावभृथवत्सर्वपापैः प्रमुच्यते

॥५४॥

सन्ध्यायामपरस्यां तु जपन्पापं दिवाकृतम् ।

पूर्वस्यां संत्यजेद्वापि सर्वरात्रिकृतं जपन्

॥५५॥

सनत्कुमार उवाच

ततस्ते गणपाः सर्वे संस्तुतास्तेन धीमता ।

निसृष्टाश्च तदा जग्मुः प्रणिपत्य वृषध्वजम्

॥५६॥

देवाश्च सर्वलोकाश्च ततो देवः स्वयं प्रभुः ।

सृष्ट्वा नन्दीश्वरगृहं प्रदाय च महामनाः ।

ईप्सितं सह देव्या वै जगाम स्थानमव्ययम्

॥५७॥

य इमं नन्दिनो जन्म वरदानं तथैव च ।

अभिषेकं विवाहं च पठेद्वा श्रावयीत वा ।

ब्राह्मणः स मृतो याति नन्दीश्वरसलोकताम्

॥५८॥

यो नियतस्तु पठेत्प्रयतात्मा सर्वमिमं प्रणतो भवभक्त्या ।

सोऽपि गतः परलोकविचारी नन्दिसमोऽनुचरो हि मम स्यात्

॥५९॥

इति स्कन्दपुराणे पञ्चविंशतिमोऽध्यायः ॥