ब्रह्मलोकं समासाद्य भगवान्सर्वलोकपः
वायुरुवाच
ब्रह्मलोकं समासाद्य भगवान्सर्वलोकपः ।
भैक्ष्यं भैक्ष्यमिति प्रोच्य द्वारे समवतिष्ठत
॥१॥तं दृष्ट्वा विकृतं ब्रह्मा कपालकरभूषणम् ।
ज्ञात्वा योगेन महता तुष्टाव भुवनेश्वरम्
॥२॥तस्य तुष्टस्तदा देवो वरदोऽस्मीत्यभाषत ।
वृणीष्व वरमव्यग्रो यस्ते मनसि वर्तते
॥३॥ब्रह्मोवाच
इच्छामि देवदेवेश त्वया चिह्नमिदं कृतम् ।
येन चिह्नेन लोकोऽयं चिह्नितः स्याज्जगत्पते
॥४॥तस्य तद्वचनं श्रुत्वा भगवान्वदतां वरः ।
सर्वश्रुतिमयं ब्रह्म ओमिति व्याजहार ह
॥५॥शम्भोर्व्याहारमात्रेण वागियं दिव्यरूपिणी ।
निःसृता वदनाद्देवी प्रह्वा समवतिष्ठत
॥६॥तामुवाच तदा देवो वाचा संजीवयन्निव ।
यस्मात्त्वमक्षरो भूत्वा मम वाचो विनिःसृता ।
सर्वविद्याधिदेवी त्वं तस्माद्देवि भविष्यसि
॥७॥यस्माद्ब्रह्मसरश्चेदं मुखं मम समाश्रिता ।
तस्मात्सरस्वतीत्येव लोके ख्यातिं गमिष्यसि
॥८॥इमं लोकं वराम्भोभिः पावयित्वा च सुप्रभे ।
सर्वा/ल्लोकांस्तारयित्री पुनस्त्वं नात्र संशयः
॥९॥यज्ञभागं च देवास्ते दास्यन्ति सपितामहाः ।
पुण्या च सर्वसरितां भविष्यसि न संशयः
॥१०॥ततः सा समनुज्ञाता शंकरेण विभाविनी ।
चक्रे ब्रह्मसरः पुण्यं ब्रह्मलोकेऽतिपावनम्
॥११॥तोयामृतसुसम्पूर्णं स्वर्णपद्मोपशोभितम् ।
नानापक्षिगणाकीर्णं मीनसंक्षोभितोदकम् ।
ततो विनिःसृता भूयः सेमं लोकमपावयत्
॥१२॥तं गृहीत्वा महादेवः कपालममितौजसम् ।
इमं लोकमनुप्राप्य देशे श्रेष्ठेऽवतिष्ठत
॥१३॥तत्र तच्च महद्दिव्यं कपालं देवताधिपः ।
स्थापयामास दीप्तार्चिर्गणानामग्रतः प्रभुः
॥१४॥तत्स्थापितमथो दृष्ट्वा गणाः सर्वे महात्मनः ।
अनदन्सुमहानादं नादयन्तो दिशो दश ।
क्षुब्धार्णवाशनिप्रख्यं नभो येन व्यशीर्यत
॥१५॥तेन शब्देन घोरेण असुरो देवकण्टकः ।
हालाहल इति ख्यातस्तं देशं सोऽभ्यगच्छत
॥१६॥अमृष्यमाणः क्रोधान्धो दुरात्मा यज्ञनाशकः ।
ब्रह्मदत्तवरश्चैव अवध्यः सर्वजन्तुभिः ।
महिषश्छन्नरूपाणामसुराणां शतैर्वृतः
॥१७॥तमापतन्तं सक्रोधं महिषं देवकण्टकम् ।
सम्प्रेक्ष्याह गणाध्यक्षो गणान्सर्वान्पिनाकिनः
॥१८॥दैत्योऽयं गणपा दुष्टस्त्रैलोक्यसुरकण्टकः ।
आयाति त्वरितो यूयं तस्मादेनं निहन्यथ
॥१९॥ततस्ते गणपाः सर्वे समायान्तं सुरद्विषम् ।
भित्त्वा शूलेन संक्रुद्धा विगतासुं च चक्रिरे
॥२०॥हते तस्मिंस्तदा देवो दिशः सर्वा अवैक्षत ।
ताभ्यः पिशाचा वृत्तास्याः पिशाच्यश्च महाबलाः ।
अभ्यगच्छन्त देवेशं ताभ्यस्तं विनिवेदयत्
॥२१॥स ताभिरुपयुक्तश्च विनियुक्तश्च सर्वशः ।
तमेव चाप्यथावासं देवादिष्टं प्रपेदिरे
॥२२॥भक्षयन्ति स्म महिषं मित्वा मित्वा यतस्तु ताः ।
कपालमातरः प्रोक्तास्तस्माद्देवेन धीमता
॥२३॥कपालं स्थापितं यस्मात्तस्मिन्देशे पिनाकिना ।
महाकपालं तत्तस्मात्त्रिषु लोकेषु गद्यते
॥२४॥स्थापितस्य कपालस्य यथोक्तमभवत्तदा ।
ख्यातं शिवतडागं तत्सर्वपापप्रमोचनम्
॥२५॥आगत्याथ ततो ब्रह्मा देवतानां गणैर्वृतः ।
कपर्दिनमुपामन्त्र्य तं देशं सोऽन्वगृह्णत
॥२६॥अर्धयोजनविस्तीर्णं क्षेत्रमेतत्समन्ततः ।
भविष्यति न संदेहः सिद्धक्षेत्रं महात्मनः
॥२७॥श्मेति हि प्रोच्यते पापं क्षयं शानं विदुर्बुधाः ।
ध्यानेन नियमैश्चैव श्मशानं तेन संज्ञितम् ।
गुह्यं देवातिदेवस्य परं प्रियमनुत्तमम्
॥२८॥एवं तत्र नरः पापं सर्वमेव प्रहास्यति ।
त्रिरात्रोपोषितश्चैव अर्चयित्वा वृषध्वजम् ।
राजसूयाश्वमेधाभ्यां फलं यत्तदवाप्स्यति
॥२९॥यश्च प्राणान्प्रियांस्तत्र परित्यक्ष्यति मानवः ।
स गुह्यगणदेवानां समतां समवाप्स्यति
॥३०॥वायुरुवाच ।
ततः स तत्र संस्थाप्य देवस्यार्चाद्वयं शुभम् ।
शूलेश्वरं महाकायं रुद्रस्यायतनं शुभम्
॥३१॥तत्राभिगमनादेव कृत्वा पापस्य संक्षयम् ।
रुद्रलोकमवाप्नोति स प्राहैवं पितामहः
॥३२॥यत्र चापि शिरस्तस्य चिच्छेद भुवनेश्वरः ।
कश्मीरः सोऽभवन्नाम्ना देशः पुण्यतमः सदा
॥३३॥ततो देवः सह गणै रूपं विकृतमास्थितः ।
पश्यतां सर्वदेवानामन्तर्धानमगात्प्रभुः
॥३४॥गते च देवनाथेऽथ कपालस्थानमव्ययम् ।
सर्वतीर्थाभिषेकस्य फलेन समयोजयत्
॥३५॥तदद्यापि महद्दिव्यं सरस्तत्र प्रदृश्यते ।
महाकपालं विप्रेन्द्राः स्वर्गास्तत्राक्षयाः स्मृताः
॥३६॥इदं शुभं दिव्यमधर्मनाशनं महाफलं सेन्द्रसुरासुरार्चितम् ।
महाकपालं प्रकृतोपदर्शनं सुरेशलोकादिविगाहने हितम्
॥३७॥तपोधनैः सिद्धगणैश्च संस्तुतं दिविष्ठतुल्यद्विजराजमण्डले ।
पठेन्नरो यः शृणुयाच्च सर्वदा त्रिपिष्टपं गच्छति
॥३८॥इति स्कन्दपुराणे सप्तमोऽध्यायः ॥