मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अम्बिकाखण्डः, अध्याय १७

3
अम्बिकाखण्डः · 17

कस्मात्स राजा तमृषिं चखाद तपसान्वितम्

व्यास उवाच

कस्मात्स राजा तमृषिं चखाद तपसान्वितम् ।

रक्षसा स किमर्थं च हृतचेताभवन्नृपः

॥१॥

सनत्कुमार उवाच

वसिष्ठयाज्यो राजासीन्नाम्ना मित्रसहः प्रभुः ।

सुदासपुत्रो बलवानिन्द्रचन्द्रसमद्युतिः

॥२॥

तमागम्योचिवाञ्छक्तिश्चरिष्ये दीक्षितो व्रतम् ।

तत्र मे निशि राजेन्द्र सदैव पिशिताशनम्

॥३॥

इहागतस्य यच्छस्व शुचि सर्वगुणान्वितम् ।

अप्रतीकारसंयुक्तमेकदैकान्त एव च

॥४॥

एवमस्त्विति तेनोक्तो जगाम स महामनाः ।

अथास्यान्तर्हितं रक्षो नृपतेरभवत्तदा ।

नाज्ञापयत्तदा सूदं तस्यार्थे मुनिसत्तम

॥५॥

गतेऽथ दिवसे तात संस्मृत्य प्रयतात्मवान् ।

सूदमाहूय चोवाच आर्तवत्स नराधिपः

॥६॥

सौदास उवाच

मयामृतवसो प्रातर्गुरुपुत्रस्य धीमतः ।

पिशितं सम्प्रतिज्ञातं भोजनं निशि संस्कृतम् ।

तत्कुरुष्व तथा क्षिप्रं कालो नो नात्यगाद्यथा

॥७॥

स एवमुक्तः प्रोवाच सूदोऽमृतवसुस्तदा ।

राजंस्त्वया नो नाख्यातं प्रागेव नरपुंगव ।

साम्प्रतं नास्ति पिशितं स्तोकमप्यभिकाङ्क्षितम्

॥८॥

पिशितस्यैव चाल्पत्वाद्बहूनां चैव तद्भुजाम् ।

अमितस्य प्रदानाच्च न किंचिदवशिष्यते

॥९॥

राजोवाच

जाने सर्वोपयोगं च जाने चादुष्टतां तव ।

जाने स्तोकं च पिशितं कार्यं चेदं तथाविधम् ।

मृग्यतां पिशितं क्षिप्रं लब्धव्यं यत्र मन्यसे

॥१०॥

सनत्कुमार उवाच

एवमुक्तोऽमृतवसुः प्रयत्नं महदास्थितः ।

पिशितं मृगयन्सम्यश्ण्नाप्यविन्दत कर्हिचित्

॥११॥

यदा न लब्धवान्मांसं तदोवाच नराधिपम् ।

गत्वा निशि महाराजमिदं वचनमर्थवत्

॥१२॥

राजन्न पिशितं त्वस्ति पुरेऽस्मिञ्छुचि कर्हिचित् ।

मृगयन्परिखिन्नोऽस्मि शाधि किं करवाणि ते

॥१३॥

सनत्कुमार उवाच

स एवमुक्तः सूदेन तस्मिन्काले नराधिपः ।

नोवाच किंचित्तं सूदं तूष्णीमेव बभूव ह

॥१४॥

तदन्तरमभिप्रेक्ष्य विश्वामित्रसमीरितः ।

राक्षसो रुधिरो नाम संविवेश नराधिपम्

॥१५॥

रक्षसा स तदाविष्टो रुधिरेण दुरात्मना ।

उवाच सूदं शनकैः कर्णमूले महाद्युतिः

॥१६॥

गच्छ यत्किंचिदानीय मांसं मानुषमन्ततः ।

गार्दभं वाप्यथौष्ट्रं वा सर्वं संस्कर्तुमर्हसि

॥१७॥

किमसौ ज्ञास्यते रात्रौ त्वया भूयश्च संस्कृतम् ।

रसवद्गन्धवच्चैव क्षिप्रमेव समाचर

॥१८॥

सनत्कुमार उवाच

स एवमुक्तस्तेनाथ मानुषं मांसमाददे ।

राजापकारिणो व्यास मृतोत्सृष्टस्य कस्यचित्

॥१९॥

अथार्धरात्रसमये भास्कराकारवर्चसम् ।

शतानलसमप्रख्यमपश्यन्मुनिसत्तमम्

॥२०॥

स तमर्घ्येण पाद्येन आसनाग्र्यवरेण च ।

समर्चयित्वा विधिवदन्नमस्योपपादयत्

॥२१॥

स तदन्नं समानीतं समालभ्य महातपाः ।

चुकोप कुपितश्चाह पार्थिवं प्रदहन्निव

॥२२॥

शक्तिरुवाच

पार्थिवाधम विप्राणां भोजनं राक्षसोचितम् ।

न दीयते विधिज्ञेन त्वं तु मामवमन्यसे

॥२३॥

यस्मात्त्वं राक्षसमिदं मह्यं दित्ससि भोजनम् ।

तस्मात्त्वं कर्मणा तेन पुरुषादो भविष्यसि

॥२४॥

सनत्कुमार उवाच

एवमुक्तस्तु तेजस्वी राजा संचिन्त्य तत्तदा ।

उवाच क्रोधरक्ताक्षो राक्षसाविष्टचेतनः

॥२५॥

पुरुषादो भवेत्येवं मामवोचद्भवान्यतः ।

ततस्त्वां भक्षयिष्यामि भ्रातृभिः सहितं द्विज

॥२६॥

भक्षयित्वा विशुद्ध्यर्थं मुक्तशापस्ततः परम् ।

चरिष्यामि तपः शुद्धं संयम्येन्द्रियसंहतिम् ।

पित्रा तवाभ्यनुज्ञातः स्वर्गे वत्स्ये यथेप्सितम्

॥२७॥

इति स्कन्दपुराणे सप्तदशमोऽध्यायः ॥