मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अम्बिकाखण्डः, अध्याय ८

3
अम्बिकाखण्डः · 8

एवमेषा भगवती ब्रह्मलोकानुसारिणी

वायुरुवाच

एवमेषा भगवती ब्रह्मलोकानुसारिणी ।

युष्माकं धर्मसिद्ध्यर्थं वेदीमध्याद्व्यवर्तत

॥१॥

सनत्कुमार उवाच

एवं तेषां समाप्तेऽथ सत्त्रे वर्षसहस्रिके ।

प्रवृत्तायां सरस्वत्यामगात्तत्र पितामहः

॥२॥

ब्रह्मोवाच

भूयोऽन्येन ह सत्त्रेण यजध्वं देवमीश्वरम् ।

यदा वो भविता विघ्नं तदा निष्कल्मषं तपः

॥३॥

विघ्नं तच्चैव संतीर्य तपस्तप्त्वा च भास्वरम् ।

योगं प्राप्य महद्युक्तास्ततो द्रक्ष्यथ शंकरम्

॥४॥

तथेत्युक्त्वा गते तस्मिन्सत्त्राण्याजह्रिरे तदा ।

बहूनि विविधाकाराण्यभियुक्ता महाव्रताः

॥५॥

निःसोमां पृथिवीं कृत्वा कृत्स्नामेतां ततो द्विजाः ।

राजानं सोममानाय्य अभिषेक्तुमियेषिरे

॥६॥

अथ सोऽपि कृतातिथ्यः अदृश्येन दुरात्मना ।

स्वर्भानुना हृतः सोमस्ततस्ते दुःखिताभवन्

॥७॥

ते गत्वा मुनयः सर्वे कलापग्रामवासिनः ।

पुरूरवसमानीय राजानं तेऽभ्यषेचयन्

॥८॥

ऊचुश्चैनं महाभागा हृतः सोमो हि नः प्रभो ।

केनापि तद्भवान्क्षिप्रमिहानयतु मा चिरम्

॥९॥

स एवमुक्तो मृगयन्न तमासादयत्प्रभुः ।

उवाच स तदा विप्रान्प्रणम्य भयपीडितः

॥१०॥

परमं यत्नमास्थाय मया सोमोऽभिमार्गितः ।

न च तं वेद्मि केनासौ क्व वा नीत इति प्रभुः

॥११॥

तमेवंवादिनं क्रुद्धा ऋषयः संशितव्रताः ।

ऊचुः सर्वे सुसंरब्धा इलापुत्रं महामतिम्

॥१२॥

भवान्राजा कुतस्त्राता कृतोऽस्माभिर्भयार्दितैः ।

न च नस्तद्भयं शक्तो विनाशयितुमाश्वपि

॥१३॥

विषयेष्वतिसक्तात्मा योगात्तं नानुपश्यसि ।

तस्माद्विरोधमास्थाय द्विजेभ्यो वधमाप्स्यसि

॥१४॥

वयमेव हि राजानमानयिष्याम दुर्विदम् ।

तपसा स्वेन राजेन्द्र पश्य नो बलमुत्तमम्

॥१५॥

ततस्ते ऋषयः सर्वे तपसा दग्धकिल्बिषाः ।

अस्तुवन्वाग्भिरिष्टाभिर्गायत्रीं वेदभाविनीम्

॥१६॥

स्तुवतां तु ततस्तेषां गायत्री वेदभाविनी ।

रूपिणी दर्शनं प्रादादुवाचेदं च तान्द्विजान्

॥१७॥

तुष्टास्मि वत्साः किं वोऽद्य करोमि वरदास्मि वः ।

ब्रूत तत्कृतमेवेह भविष्यति न संशयः

॥१८॥

ऋषय ऊचुः

सोमो नोऽपहृतो देवि केनापि सुदुरात्मना ।

तमानय नमस्तेऽस्तु एष नो वर उत्तमः

॥१९॥

सनत्कुमार उवाच

सा तथोक्ता विनिश्चित्य दृष्ट्वा दिव्येन चक्षुषा ।

श्येनीभूता जगामाशु स्वर्भानुमसुरं प्रति

॥२०॥

व्यग्राणामसुराणां सा गृहीत्वा सोममागता ।

आगम्य तानृषीन्प्राह अयं सोमोऽभिषूयताम्

॥२१॥

ते तमासाद्य ऋषयः प्राप्य यज्ञफलं महत् ।

अमन्यन्त तपोऽस्माकं निष्कल्मषमिति द्विजाः

॥२२॥

ततस्तत्र स्वयं ब्रह्मा सह देवोरगादिभिः ।

आगत्य तानृषीन्प्राह तपः कुरुत मा चिरम्

॥२३॥

ते सह ब्रह्मणा गत्वा मैनाकं पर्वतोत्तमम् ।

सर्वैर्देवगणैः सार्धं तपश्चेरुः समाहिताः

॥२४॥

तेषां कालेन महता तपसा भावितात्मनाम् ।

योगप्रवृत्तिरभवत्सूक्ष्मयुक्तास्ततस्तु ते

॥२५॥

ते युक्ता ब्रह्मणा सार्धमृषयः सह देवतैः ।

महेश्वरे मनः स्थाप्य निश्चलोपलवत्स्थिताः

॥२६॥

अथ तेषां महादेवः पिनाकी नीललोहितः ।

अभ्यगच्छत तं देशं विमानेनार्कतेजसा

॥२७॥

तद्भावभाविताञ्ज्ञात्वा सद्भावेन परेण ह ।

उवाच मेघनिर्ह्रादः शतदुन्दुभिनिस्वनः

॥२८॥

भो भो सब्रह्मका देवाः सविष्णुऋषिचारणाः ।

दिव्यं चक्षुः प्रयच्छामि पश्यध्वं मां यथेप्सितम्

॥२९॥

सनत्कुमार उवाच

अपश्यन्त ततः सर्वे सूर्यायुतसमप्रभम् ।

विमानं मेरुसंकाशं नानारत्नविभूषितम्

॥३०॥

तस्य मध्येऽग्निकूटं च सुमहद्दीप्तिमास्थितम् ।

ज्वालामालापरिक्षिप्तमर्चिभिरुपशोभितम्

॥३१॥

दंष्ट्राकरालवदनं प्रदीप्तानललोचनम् ।

त्रेताग्निपिङ्गलजटं भुजगाबद्धमेखलम्

॥३२॥

मृष्टकुण्डलिनं चैव शूलासक्तमहाकरम् ।

पिनाकिनं दण्डहस्तं मुद्गराशनिपाणिनम्

॥३३॥

असिपट्टिसहस्तं च चक्रिणं चोर्ध्वमेहनम् ।

अक्षसूत्रकरं चैव दुष्प्रेक्ष्यमकृतात्मभिः ।

चन्द्रादित्यग्रहैश्चैव कृतस्रगुपभूषणम्

॥३४॥

तमपश्यन्त ते सर्वे देवा दिव्येन चक्षुषा ।

यं दृष्ट्वा न भवेन्मृत्युर्मर्त्यस्यापि कदाचन

॥३५॥

तपसा विनियोगयोगिनः प्रणमन्तो भवमिन्दुनिर्मलम् ।

वियतीश्वरदत्तचक्षुषः सह देवैर्मुनयो मुदान्विताः

॥३६॥

प्रसमीक्ष्य महासुरेशकालं मनसा चापि विचार्य दुर्विसह्यम् ।

प्रणमन्ति गतात्मभावचिन्ताः सह देवैर्जगदुद्भवं स्तुवन्तः

॥३७॥

इति स्कन्दपुराणे अष्टमोऽध्यायः ॥