ते गणेशा महासत्त्वाः सर्वे देवेश्वरेश्वराः
सनत्कुमार उवाच
ते गणेशा महासत्त्वाः सर्वे देवेश्वरेश्वराः ।
प्रणम्य देवं देवीं च इदं वचनमब्रुवन्
॥१॥भगवन्देवतारिघ्न देवदेवाम्बिकापते ।
किमर्थं वयमाहूता आज्ञापय कृतं हि तत्
॥२॥किं सागराञ्छोषयामो यमं वा सह किंकरैः ।
हन्मो मृत्युमुतामृत्युर्न भवत्वद्य पद्मजः
॥३॥बद्ध्वेन्द्रं सह देवैश्च सविष्णुं सह वायुना ।
आनयामः सुसंक्रुद्धा दैत्यान्वा सह दानवैः
॥४॥कस्याद्य व्यसनं घोरं करिष्यामस्तवाज्ञया ।
कस्य वाद्योत्सवं देव सर्वकामसमृद्धिमत्
॥५॥तांस्तथावादिनः सर्वान्नमतो भक्तवत्सलः ।
उवाच देवः सम्पूज्य गणान्गणपतिर्भवः
॥६॥देव उवाच
शृणुध्वं यत्कृते यूयमिहाहूता जगद्धिताः ।
श्रुत्वा च प्रयतात्मानः कुरुध्वं तदशङ्किताः
॥७॥नन्दीश्वरोऽयं पुत्रो नः सर्वेषामीश्वरेश्वरः ।
प्रियोऽग्रनायकश्चैव सेनानीर्वः समाहितः
॥८॥तमिमं मम संदेशाद्यूयं सर्वेऽभिसम्मताः ।
सेनान्यमभिषिञ्चध्वं महायोगपतिं पतिम्
॥९॥अद्यप्रभृति युष्माकमयं नन्दीश्वरः शुभः ।
प्रियो गौरवयुक्तश्च सेनानीरमरः प्रभुः
॥१०॥सनत्कुमार उवाच
एवमुक्ते भगवता गणपाः सर्व एव ते ।
एवमस्त्विति सम्मन्त्र्य सम्भारानाहरंस्ततः
॥११॥तस्य रूपाश्रयं दिव्यं जाम्बूनदमयं शुभम् ।
आसनं मेरुसंकाशं मनोरममथाहरन्
॥१२॥शातकुम्भमयं चापि चारुचामीकरप्रभम् ।
मुक्तादामावलम्बं च मणिरत्नावभासितम्
॥१३॥स्तम्भैश्च वैडूर्यमयैः किङ्किणीजालसंवृतम् ।
चारुरत्नकसंयुक्तं मण्डपं विश्वतोमुखम् ।
कृत्वा चक्रुश्च तन्मध्ये तदासनवरं शुभम्
॥१४॥तस्याग्रतः पादपीठं नीलं वज्रावभासितम् ।
चक्रुः पादप्रतिष्ठार्थं कलशौ चास्य पार्श्वगौ ।
सम्पूर्णौ परमाम्भोभिररविन्दावृताननौ
॥१५॥अग्रतोऽग्निं समाधाय वृषभं चापि पार्श्वतः ।
सवत्सां सुरभिं चापि तस्य पार्श्वेऽथ दक्षिणे
॥१६॥छत्त्रं शतशलाकं च जाम्बूनदमयं शुभम् ।
शङ्खहाराम्बुगौरेण पृष्ठेनाभिविराजितम्
॥१७॥व्यजनं चन्द्रशुभ्रं च हेमदण्डं सुचारुमत् ।
मालां कुशेशयानां च भ्रमरावलिसेविताम्
॥१८॥आनिन्युस्तत्र गणपा नन्द्यावर्तांश्च काञ्चनान् ।
पुनर्वसुं च पुष्यं च द्वौ मत्स्यौ वरुणालयौ
॥१९॥स्वस्तिकं वर्धमानं च श्रीवत्सं चैव काञ्चनम् ।
कीचका वेणवश्चैव कन्या चैवाभिपूजिता
॥२०॥ऐरावतं सुप्रतीकं गजावेतौ च पूजितौ ।
ध्वजं च पूजितं दिव्यं शङ्खं चैवेन्दुवर्चसम्
॥२१॥कलशानां सहस्रं च काञ्चनानां सुवर्चसाम् ।
राजतानां सहस्रं च पार्थिवानां तथैव च
॥२२॥ताम्राणामथ दिव्यानां सहस्रमनलत्विषाम् ।
वासोयुगं वृक्षजं च विरजः सूक्ष्ममेव च
॥२३॥मुकुटं काञ्चनं चैव सुकृतं विश्वकर्मणा ।
कुण्डले चामले दिव्ये वज्रं चैव वरायुधम्
॥२४॥पट्टिसं च महद्दिव्यं शूलं चाशनिमेव च ।
जाम्बूनदमयं सूत्रं केयूरद्वयमेव च
॥२५॥हारं च मणिचित्राङ्गं रोचनारुचकं तथा ।
नलभां पारियात्रं च वर्षं कङ्कणिमेव च
॥२६॥दर्भांश्च दिव्यां समिधमाज्यं धूपमथापि च ।
समन्तान्निन्युरव्यग्रा गणपा देवसम्मताः
॥२७॥ततो दिशः समुद्राश्च वरुणः सधनेश्वरः ।
यमोऽग्निर्वसवश्चैव चन्द्रादित्यौ ग्रहैः सह
॥२८॥तारारूपाणि सर्वाणि नक्षत्राणि ध्रुवस्तथा ।
रुद्रा रक्षांसि यक्षाश्च अश्विनौ दैत्यदानवाः
॥२९॥गन्धर्वाप्सरसश्चैव नारदः पर्वतस्तथा ।
पृथिवी च समुद्राश्च वर्षाणि गिरयस्तथा
॥३०॥वृक्षाश्च वीरुधश्चैव ओषध्यश्च महाबलाः ।
नद्यः सर्वाः समाजग्मुः पशवश्चैव सर्वशः
॥३१॥लोकस्य मातरश्चैव पृथिवी स्वर्ग एव च ।
भूतानि प्रकृतिश्चैव इन्द्रियाणि च सर्वशः
॥३२॥तीर्थानि चैव सर्वाणि दानानि विविधानि च ।
ऋचो यजूंषि सामानि अथर्वाङ्गिरसावपि
॥३३॥यज्ञाश्च क्रतवश्चैव इष्टयो नियमास्तथा ।
छन्दांसि चैव सर्वाणि पिशाचा देवयोनयः ।
ब्रह्मा च ऋषयश्चैव विष्णुः सानुचरस्तथा
॥३४॥तेष्वागतेषु सर्वेषु भगवान्गोवृषध्वजः ।
सर्वकार्यविधिं कर्तुमादिदेश पितामहम्
॥३५॥एकैकं कलशं तत्र सर्वौषधिसमन्वितम् ।
कृत्वाद्भिः पूरयित्वा च कुशेशयमुखावृतम्
॥३६॥जयां च विजयां चैव सिंहीं व्याघ्रीं तथैव च ।
सुवर्चलां शङ्खपुष्पीं विष्णुक्रान्तां पुनर्नवाम्
॥३७॥कुमारीं चन्द्रकान्तां च मृतसंजीवनीमपि ।
आदित्यवर्चसं चैव अमृतां श्रीनिकेतनाम्
॥३८॥तथा कुमुद्वतीं चैव प्राक्षिपंस्तेष्वथौषधीः ।
पार्थिवेषु तदा व्यास सर्वेष्वेव गणेश्वराः
॥३९॥सौवर्णेषु तु सर्वेषु तीर्थानि विविधानि च ।
दानानि चैव सर्वाणि भगवान्संन्यवेशयत्
॥४०॥राजतेषु च कुम्भेषु मन्त्रांश्छन्दांसि चैव ह ।
क्रतूनन्यांश्च विविधा इष्टीः काम्यांस्तथेतरान्
॥४१॥औदुम्बरेषु सर्वेषु सरितः सागरांस्तथा ।
तपांसि नियमांश्चैव भगवानभ्यविन्यसत्
॥४२॥एकैकं कलशं तत्र अभिपूर्याभिमन्त्र्य च ।
वेष्टयित्वा च सूत्रेण देवेभ्यः प्रददौ विभुः
॥४३॥स जग्राह तदा ब्रह्मा एकं कलशमात्मना ।
विष्णवे च ददावेकमेकमिन्द्राय धीमते ।
गणपेभ्यस्तथा चान्यानृषिभ्यश्च पितामहः
॥४४॥ततस्तमासने तस्मिन्नुपवेश्य महामनाः ।
अर्चयित्वा ततो ब्रह्मा स्वयमेवाभ्यषिञ्चत
॥४५॥ततो विष्णुस्ततः शक्रो ऋषयश्च सहामरैः ।
गणाधिपाश्च सर्वे ते अभ्यषिञ्चन्त नन्दिनम्
॥४६॥वासोयुगं च तद्दिव्यं गन्धान्दिव्यांस्तथैव च ।
केयूरे कुण्डले चैव मुकुटं हारमेव च ।
पट्टिसं शूलवज्रे च अशनीं च ददौ स्वयम्
॥४७॥छत्त्रं जग्राह देवेन्द्रो वायुर्व्यजनमेव च ।
ऋषयस्तुष्टुवुश्चैव पितामहपुरोगमाः
॥४८॥विष्णुरुवाच
नमः कुष्माण्डराजाय वज्रोद्यतकराय च ।
शालङ्कायनपौत्राय हलमार्गोत्थिताय च
॥४९॥शिलादस्य च पुत्राय रुद्रजप्यकराय च ।
रुद्रभक्ताय देवाय नमोऽन्तर्जलशायिने
॥५०॥गणानां पतये चैव भूतानां पतये नमः ।
उमापुत्राय देवाय पट्टिसायुधधारिणे
॥५१॥नमो दंष्ट्राकरालाय ललाटनयनाय च ।
प्रमथाय वरेण्याय ईशानायार्पिताय च
॥५२॥द्वाराध्यक्षाय शूराय सुयशापतये नमः ।
नमः प्रवरमालाय क्षीरोदनिलयाय च
॥५३॥महागणाधिपतये महायोगेश्वराय च ।
दिण्डिमुण्डाय चण्डाय एकाक्षररताय च
॥५४॥अक्षयायामृतायैव अजरायामराय च ।
पशूनां पतये चैव जेत्रे मृत्योस्तथैव च
॥५५॥नमः पवनवेगाय सर्वज्ञायाजिताय च ।
अनेकशिरसे चैव अनेकचरणाय च
॥५६॥किरीटिने कुण्डलिने महापरिघबाहवे ।
सर्वान्देवान्गणांश्चैव पाहि देव नमोऽस्तु ते
॥५७॥सनत्कुमार उवाच
एवं स्तुत्वा ततो देवस्तस्मै व्यास महात्मने ।
प्राञ्जलिः प्रयतो भूत्वा जयशब्दं चकार ह
॥५८॥ततो गणा जयेत्यूचुस्ततो देवास्ततोऽसुराः ।
ततः सर्वाणि भूतानि ब्रह्मा शक्रस्तथैव च
॥५९॥ततः शङ्खांश्च भेरींश्च पटहाडम्बरांस्तथा ।
वंशांश्च पणवांश्चैव कृकवान्गोविषाणिकान्
॥६०॥दिण्डिमान्वेणुकांश्चैव मर्दलांश्चैव सर्वशः ।
अवादयन्त गणपा हर्षयन्तो मुदा युताः
॥६१॥सनत्कुमार उवाच
नन्दीश्वरस्य य इमं स्तवं देवाभिनिर्मितम् ।
पठेत सततं मर्त्यः स गच्छेन्मम लोकताम्
॥६२॥नमो नन्दीश्वरायेति कृत्वा यः स्वप्नमाचरेत् ।
तस्य कुष्माण्डराजेभ्यो न भयं विद्यते क्वचित्
॥६३॥यत्रायं स्थाप्यते नित्यं स्तवः परमपूजितः ।
न भयं तत्र भवति ग्रहेभ्यो व्यास सर्वदा
॥६४॥नन्दीश्वरं ये प्रणमन्ति मर्त्या नित्यं प्रसन्नेन्द्रियशुद्धसत्त्वाः ।
ते देवदेवस्य सहाद्रिपुत्र्या इष्टा वरिष्ठाश्च गणा भवन्ति
॥६५॥इति स्कन्दपुराणे चतुर्विंशतिमोऽध्यायः ॥