मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अम्बिकाखण्डः, अध्याय १९

3
अम्बिकाखण्डः · 19

एवं तव पिता व्यास रक्षःसत्त्रं समाहरत्

सनत्कुमार उवाच

एवं तव पिता व्यास रक्षःसत्त्रं समाहरत् ।

समापयित्वा च पुनस्तपस्तेपे च भास्वरम्

॥१॥

तमागत्य वसिष्ठस्तु तपसा भास्करद्युतिम् ।

उवाच प्रीतिसम्पन्नमिदमर्थवदव्ययः

॥२॥

वसिष्ठ उवाच

पितरः पुत्रकामा वै तपः कृत्वातिदुश्चरम् ।

पुत्रमुत्पादयन्ति स्म तपोज्ञानसमन्वितम्

॥३॥

अयं नः संततिं चैव ज्ञानवांस्तपसान्वितः ।

करिष्यति गतिं चैव इति वेदविदो विदुः

॥४॥

स त्वं तपोन्वितश्चैव ज्ञानवान्यशसान्वितः ।

पुत्रः पुत्रवतां श्रेष्ठो विहीनः प्रजया विभो

॥५॥

तस्मात्पितॄणामानृण्यं गच्छ व्रतवतां वर ।

सुतमुत्पादय क्षिप्रमधिकं सममेव वा

॥६॥

सनत्कुमार उवाच

स एवमुक्तस्तेजस्वी वसिष्ठेनामितात्मना ।

मैनाकं पर्वतं प्राप्य तपस्तेपे सुदुश्चरम्

॥७॥

तस्य कालेन महता तपसा भावितस्य तु ।

उमापतिर्वरं प्रादात्स च वव्रे सुतं शुभम्

॥८॥

स लब्धवर आगम्य ययाचे पुत्रकारणात् ।

क्षेत्रं सुपरिशुद्धं च स्वपुत्रो यत्र सम्भवेत्

॥९॥

सम्भ्रमन्दाशराजस्य दुहितृत्वमुपागताम् ।

पितृकन्यां ततः कालीमपश्यद्दिव्यरूपिणीम्

॥१०॥

मत्सीगर्भसमुत्पन्नां वसोर्बीजाशनात्पुरा ।

अद्रिकामप्सरःश्रेष्ठां ब्रह्मतेजोमयीं शुभाम्

॥११॥

तस्यां स जनयामास वरं दत्त्वा महातपाः ।

भवन्तं तपसां योनिं श्रौतस्मार्तप्रवर्तकम्

॥१२॥

तव पुत्रोऽभवच्चापि शुको योगविदां वरः ।

तस्य पुत्राश्च चत्वारः कन्या चैका सुमध्यमा

॥१३॥

व्यास उवाच

कथं वैरं समभवद्विश्वामित्रवसिष्ठयोः ।

कथं चापगतं भूय एतदिच्छामि वेदितुम्

॥१४॥

सनत्कुमार उवाच

पराशरे तु गर्भस्थे विप्रत्वं गाधिजे गते ।

सरस्वत्यां कुरुक्षेत्रे द्वयोरप्याश्रमौ तयोः

॥१५॥

तत्र वैरमनुस्मृत्य विश्वामित्रेण धीमता ।

मिषतस्तु वसिष्ठस्य हतं पुत्रशतं रुषा

॥१६॥

मुनिरप्याह तत्रासौ विश्वामित्रः प्रतापवान् ।

सरस्वतीमथैकान्ते वसिष्ठं मे महापगे ।

स्रोतसा महताक्षिप्य स्नायमानमिहानय

॥१७॥

सैवमुक्ता तु तं गत्वा वसिष्ठं प्राह दुःखिता ।

यदुक्तवांस्तु गाधेयः स चोवाच महानदीम्

॥१८॥

एवं कुरु महाभागे मां नयस्व यथेप्सितम् ।

मा ते क्रूरः स गाधेयः शापं दद्यात्सुदुस्तरम्

॥१९॥

सनत्कुमार उवाच

गाधेयस्य ततः सा तु जुह्वतोऽग्निं दिवाकरे ।

मध्यं प्राप्तेऽनयद्वेगाद्वसिष्ठं स्रोतसा शुभा

॥२०॥

तं दृष्ट्वापहृतं व्यास स्रोतसा मुनिसत्तमम् ।

उवाच च्छद्मना यस्माद्वेगेनापहृतस्त्वया ।

तस्मात्त्वं कर्मणानेन सासृक्तोया भविष्यसि

॥२१॥

विश्वामित्रेण सा शप्ता नदी लोकसुखप्रदा ।

अवहद्रुधिरं चैव मांसमेदस्तथैव च

॥२२॥

अथ तीर्थप्रसङ्गेन मुनिभिः समुपागतैः ।

अनुग्रहः कृतस्तस्या येन स्वच्छजलाभवत्

॥२३॥

महतस्तपसः शक्त्या कालेन महता तदा ।

वसिष्ठस्य च तां क्षान्तिं ज्ञात्वा स ऋषिपुंगवः

॥२४॥

विश्वामित्रो महातेजा वसिष्ठे वैरमत्यजत् ।

एवं तौ वैरमन्योन्यं जहतुर्मुनिसत्तमौ

॥२५॥

सनत्कुमार उवाच

य इमं शृणुयान्नित्यं ब्राह्मणाञ्छ्रावयीत वा ।

स दुस्तराणि दुर्गाणि तरत्यश्रान्तपौरुषः

॥२६॥

ह्रीपौरुषौदार्यविहारसत्त्वैः समन्वितः सोज्ज्वलचारुवेषः ।

भवेच्च सर्वामरराजतुल्यस्त्रिपिष्टपे क्रीडति चेच्छया स्वयम्

॥२७॥

एवं तदभवद्व्यास विश्वामित्रवसिष्ठयोः ।

वैरं समाप्तं लोकानां हितार्थं पुनरेव च

॥२८॥

इति स्कन्दपुराणे ऊनविंशतितमोऽध्यायः ॥