विस्तृते हिमवत्पृष्ठे विमानशतसंकुले
सनत्कुमार उवाच
विस्तृते हिमवत्पृष्ठे विमानशतसंकुले ।
अभवत्स तु कालेन शैलपुत्र्याः स्वयंवरः
॥१॥अथ पर्वतराजोऽसौ हिमवान्ध्यानकोविदः ।
दुहितुर्देवदेवेन ज्ञात्वा तदभिमन्त्रितम्
॥२॥जानन्नपि महाशैलः समाचारक्रियेप्सया ।
स्वयंवरं ततो देव्याः सर्वलोकेष्वघोषयत्
॥३॥देवदानवसिद्धानां सर्वलोकनिवासिनाम् ।
वृणुयात्परमेशानं समक्षं येन मे सुता
॥४॥तदेव सुकृतं श्लाघ्यं ममाभ्युदयसम्मतम् ।
इति संचिन्त्य शैलेन्द्रः कृत्वा हृदि महेश्वरम्
॥५॥आब्रह्मकेषु लोकेषु देव्याः शैलेन्द्रसत्तमः ।
कृत्वा रत्नाकुलं देशं स्वयंवरमचीकरत्
॥६॥अथैवमाघोषितमात्र एव स्वयंवरे व्यास महीध्रपुत्र्याः ।
देवादयः सर्वजगन्निवासाः समाययुर्दिव्यगृहीतवेषाः
॥७॥प्रफुल्लपद्मासनसंनिविष्टः सिद्धैर्वृतो योगिभिरप्रमेयैः ।
विज्ञापितस्तेन महीध्रराज्ञा पितामहस्तत्र समाजगाम
॥८॥अक्ष्णां सहस्रं सुरराट् स बिभ्रद्दिव्याङ्गहारस्रगुदात्तरूपः ।
ऐरावतं सर्वगजेन्द्रमुख्यं स्रवन्मदासारकृतप्रवाहम् ।
आरुह्य सर्वामरराट् स वज्रं बिभ्रत्समागात्पुरतः सुराणाम्
॥९॥तेजःप्रतापाधिकदिव्यरूपः प्रोद्भासयन्सर्वदिशो विवस्वान् ।
हैमं विमानं सचलत्पताकमारुह्य आगात्त्वरितं जवेन
॥१०॥मणिप्रदीप्तोज्ज्वलकुण्डलश्च वह्न्यर्कतेजःप्रतिमे विमाने ।
समभ्यगात्कश्यपविप्रसूनुरादित्य आगाद्भगनामधारी
॥११॥पीनाङ्गयष्टिः सुकृताङ्गहारस्तेजोबलाज्ञासदृशप्रभावः ।
दण्डं समादाय कृतान्त आगादारुह्य भीमं महिषं जवेन
॥१२॥महामहीध्रोच्छ्रयपीनगात्रः स्वर्णादिरत्नाचितचारुवेषः ।
समीरणः सर्वजगद्विभर्ता विमानमारुह्य समभ्यगाद्धि
॥१३॥संतापयन्सर्वसुरासुरेशांस्तेजोधिकस्तेजसि संनिविश्य ।
वह्निः समभ्येत्य सुरेन्द्रमध्ये ज्वलन्प्रतस्थौ वरवेषधारी
॥१४॥नानामणिप्रज्वलिताङ्गयष्टिर्जगच्चरन्दिव्यविमानमग्र्यम् ।
आरुह्य सर्वद्रविणाधिपेशः स राजराजस्त्वरितोऽभ्यगाच्च
॥१५॥आप्याययन्सर्वसुरासुरेशान्कान्त्या च वेषेण च चारुरूपः ।
ज्वलन्महारत्नविचित्ररूपं विमानमारुह्य शशी समागात्
॥१६॥श्यामाङ्गयष्टिः सुविचित्रवेषः सर्वस्रगाबद्धसुगन्धमाली ।
तार्क्ष्यं समारुह्य महीध्रकल्पं गदाधरोऽसौ त्वरितं समेतः
॥१७॥तथाश्विनौ देवभिषग्वरौ तु एकं विमानं त्वरयाभिरुह्य ।
मनोहरावुज्ज्वलचारुवेषावाजग्मतुर्देवसदः सुवीरौ
॥१८॥शेषः सहस्रं स्फुरदग्निवर्णं बिभ्रत्स्फटानां ज्वलनार्कतेजाः ।
सार्धं स नागैरपरैर्महात्मा विमानमारुह्य समभ्यगाच्च
॥१९॥दितेः सुतानां च महासुराणां वह्न्यर्कशक्रानिलतुल्यभासाम् ।
वरानुरूपं प्रविधाय वेषं वृन्दं समागात्पुरतः सुराणाम्
॥२०॥गन्धर्वराजः स च चारुरूपी दिव्यङ्गमो दिव्यविमानचारी ।
गन्धर्वसंघैः सहितोऽप्सरोभिः शक्राज्ञया तत्र समाजगाम
॥२१॥अन्ये च देवास्त्रिदिवौकसेशाः पृथक्पृथक्चारुगृहीतवेषाः ।
आजग्मुरारुह्य विमानपृष्ठं गन्धर्वयक्षोरगकिंनराश्च
॥२२॥शचीपतिस्तत्र सुरेन्द्रमध्ये राजाधिकाराधिकलक्ष्यमूर्तिः ।
आज्ञाबलैश्वर्यकृतप्रमोहो वृथाधिकं यत्नमुपाचकार
॥२३॥हेतुस्त्रिलोकस्य जगत्प्रसूतेर्माता च तेषां ससुरासुराणाम् ।
पत्नी च शम्भोः पुरुषस्य धाम्नो गीता पुराणे प्रकृतिः परार्था ।
दक्षस्य कोपाद्धिमवद्गृहं सा कार्यार्थमागात्परमेशपत्नी
॥२४॥एवं यतस्तां न विदुः सुरेशा मोहस्ततस्तान्पर आविवेश ।
वरार्थमाजग्मुरतो विमूढा ईशेन यस्माद्वृडिताः कृतास्ते
॥२५॥ततः प्रनृत्ताभिरथाप्सरोभिर्गन्धर्वसंघैश्च सुगीतशब्दैः ।
स्थितैश्च नानाविधरूपवेषैर्देवासुरादित्रिदिवौकसंघैः
॥२६॥विमानपृष्ठे मणिहेमचित्रे स्थिता चलच्चामरवीजिताङ्गी ।
सर्वर्तुपुष्पां सुसुगन्धमालां प्रगृह्य देवी प्रसभं प्रतस्थे
॥२७॥सनत्कुमार उवाच
मालां प्रगृह्य देव्यां तु स्थितायां देवसंसदि ।
शक्राद्यैरागतैर्देवैः स्वयंवरमुपागतैः
॥२८॥देव्या जिज्ञासया शम्भुर्भूत्वा पञ्चशिखः शिशुः ।
उत्सङ्गतलसंसुप्तो बभूव सहसा विभुः
॥२९॥अकस्मादथ तं देवी शिशुं पञ्चशिखं स्थितम् ।
ज्ञात्वा योगसमाधानाज्जहृषे प्रीतिसंयुता
॥३०॥अथ सा शुद्धसंकल्पा काङ्क्षितप्राप्तसत्फला ।
निर्वृतेव तदा तस्थौ कृत्वा हृदि तमेव तु
॥३१॥ततो दृष्ट्वा शिशुं देवा देव्या उत्सङ्गवर्तिनम् ।
कोऽयमत्रेति सम्मन्त्र्य चुक्रुधुर्भृशमार्दिताः
॥३२॥वज्रमाकारयत्तस्य बाहुमुत्क्षिप्य वृत्रहा ।
स बाहुरुत्थितस्तस्य तथैव समतिष्ठत
॥३३॥स्तम्भितः शिशुरूपेण देवदेवेन शम्भुना ।
वज्रं क्षेप्तुं न शशाक बाहुं चालयितुं न च
॥३४॥भगो नाम ततो देव आदित्यः काश्यपो बली ।
उत्क्षिप्य मुशलं दीप्तं क्षेप्तुमैच्छद्विमोहितः ।
तस्यापि भगवान्बाहुं तथैवास्तम्भयत्तदा
॥३५॥शिरः प्रकम्पयन्विष्णुः सक्रोधस्तमवैक्षत ।
तस्यापि शिरसो देवः खालित्यं प्रचकार ह
॥३६॥पूषा दन्तान्दशन्दन्तैः शर्वमैक्षत मोहितः ।
तस्यापि दशनाः पेतुर्दृष्टमात्रस्य शम्भुना
॥३७॥यमस्य स्तम्भितो दण्डस्तेजो वह्नेः शशेः प्रभा ।
बलं वायोस्तथान्येषां तस्मिन्सर्वदिवौकसाम् ।
बलं तेजश्च योगं च तथैवास्तम्भयद्विभुः
॥३८॥अथ तेषु स्थितेष्वेवं मन्युमत्सु सुरेषु तु ।
ब्रह्मा परमसंविग्नो ध्यानमास्थाय सादरम् ।
बुबुधे देवदेवेशमुमोत्सङ्गसमास्थितम्
॥३९॥स बुद्ध्वा परमेशानं शीघ्रमुत्थाय सादरम् ।
ववन्दे चरणौ शम्भोरस्तुवच्च पितामहः ।
पौराणैः सामसंगीतैः पुण्याख्यैर्गुह्यनामभिः
॥४०॥अजस्त्वममरो देव स्रष्टा हर्ता विभुः परः ।
प्रधानपुरुषस्तत्त्वं ब्रह्म ध्येयं तदक्षयम्
॥४१॥अमृतं परमात्मा च ईश्वरः कारणं महत् ।
ब्रह्मकृत्प्रकृतेः स्रष्टा सर्वसृक्परमेश्वरः
॥४२॥इयं च प्रकृतिर्देवी सदा ते सृष्टिकारणम् ।
पत्नीरूपं समास्थाय जगत्कारणमागता
॥४३॥नमस्तुभ्यं सदेशान देव्याश्चैव सदा नमः ।
प्रसादात्तव देवेश नियोगाच्च मया प्रजाः
॥४४॥देवाद्यास्त इमे सृष्टा मूढास्त्वद्योगमोहिताः ।
कुरु प्रसादमेतेषां यथापूर्वं भवन्त्विमे
॥४५॥तत एवं तदा ब्रह्मा विज्ञाप्य परमेश्वरम् ।
स्तम्भितान्सर्वदेवांस्तानिदमाह महाद्युतिः
॥४६॥मूढाः स्थ देवताः सर्वे नैनं बुध्यत शंकरम् ।
देवदेवमिहायातं ममैवोत्पत्तिकारणम्
॥४७॥अयं रुद्रो महादेवः शर्वो भीमः कपर्दिमान् ।
उग्र ईशान आत्मा च अजः शंकर एव च
॥४८॥देवदेवः परं धाम ईशः पशुपतिः पतिः ।
जगत्स्रष्टा जगद्धर्ता जगत्संस्थितिकारणम्
॥४९॥गच्छध्वं शरणं शीघ्रमेवमेवामरेश्वराः ।
सार्धं मयैव देवेशं परमात्मानमव्ययम्
॥५०॥ततस्ते स्तम्भिताः सर्वे तथैव त्रिदिवौकसः ।
प्रणेमुर्मनसा शर्वं भावशुद्धेन चेतसा
॥५१॥अथ तेषां प्रसन्नोऽभूद्देवदेवो महेश्वरः ।
यथापूर्वं चकाराशु देवतानां तनूस्तदा
॥५२॥तत एवं प्रवृत्ते तु सर्वदेवनिवारणे ।
वपुश्चकार देवेशस्त्र्यक्षं परममद्भुतम् ।
तेजसा यस्य देवास्ते चक्षुरप्रार्थयन्विभुम्
॥५३॥तेभ्यः परमकं चक्षुः स्ववपुर्दृष्टिशक्तिमत् ।
प्रादात्परमदेवेशः अपश्यंस्ते तदा प्रभुम्
॥५४॥ते दृष्ट्वा परमेशानं तृतीयेक्षणधारिणम् ।
ब्रह्माद्या नेमिरे तूर्णं सर्व एव सुरेश्वराः
॥५५॥तस्य देवी तदा हृष्टा समक्षं त्रिदिवौकसाम् ।
पादयोः स्थापयामास स्रग्मालाममितद्युतेः
॥५६॥साधु साध्विति सम्प्रोच्य देवतास्ते पुनर्विभुम् ।
सह देव्या नमश्चक्रुः शिरोभिर्भूतलाश्रितैः
॥५७॥अथास्मिन्नन्तरे व्यास ब्रह्मा लोकपितामहः ।
हिमवन्तं महाशैलमिदमाह महाद्युतिः
॥५८॥श्लाघ्यः पूज्यश्च वन्द्यश्च सर्वेषां नस्त्वमद्य हि ।
शर्वेण सह सम्बन्धो यस्य तेऽभूदयं महान् ।
क्रियतां चाशु उद्वाहः किमर्थं स्थीयते परम्
॥५९॥ततः प्रणम्य हिमवांस्तं देवं प्रत्यभाषत ।
त्वमेव कारणं देव येन शर्वादयं मम
॥६०॥प्रसादः सहसोत्पन्नो हेतुश्चापि त्वमेव हि ।
उद्वाहं तु यथा यादृक्तद्विधत्स्व पितामह
॥६१॥तत एवं वचः श्रुत्वा गिरिराज्ञः पितामहः ।
उद्वाहः क्रियतां देव इति देवमुवाच ह ।
तमाह शंकरो देवं यथेष्टमिति लोकपः
॥६२॥तत्क्षणाच्च ततो व्यास ब्रह्मणा कल्पितं पुरम् ।
उद्वाहार्थं महेशस्य नानारत्नोपशोभितम्
॥६३॥रत्नानि मणयश्चित्रा हेम मौक्तिकमेव च ।
मूर्तिमन्त उपागम्य अलंचक्रुः पुरोत्तमम्
॥६४॥चित्रा मारकती भूमिः सौवर्णस्तम्भशोभिता ।
भास्वत्स्फटिकभित्तीभिर्मुक्ताहारप्रलम्बिता
॥६५॥तस्मिञ्छिवपुरे रम्ये उद्वाहार्थं विनिर्मिते ।
शुशुभे देवदेवस्य महेशस्य महात्मनः
॥६६॥सोमादित्यौ समं तत्र भासयन्तौ महामणी ।
सौरभेयं मनोरम्यं गन्धमाघ्राय मारुतः ।
प्रववौ सुखसंस्पर्श ईशे भक्तिं प्रसादयन्
॥६७॥समुद्रास्तत्र चत्वारः शक्राद्याश्च सुरोत्तमाः ।
देवनद्यो महानद्यः सिद्धा मुनय एव च
॥६८॥गन्धर्वाप्सरसः सर्वे नागा यक्षाः सराक्षसाः ।
गुह्यकाः खेचराश्चान्ये किंनरा देवचारणाः
॥६९॥तुम्बुरुर्नारदो हाहा हूहू चैव तु सामगाः ।
रत्नान्यादाय वाद्यांश्च तत्राजग्मुस्तदा पुरम्
॥७०॥ऋषयः कृत्स्नशस्तत्र वेदगीतांस्तपोधनाः ।
पुण्यान्वैवाहिकान्मन्त्राञ्जेपुः संहृष्टमानसाः
॥७१॥जगतो मातरः सर्वा देवकन्याश्च कृत्स्नशः ।
गायन्ति हृषिताः सर्वा उद्वाहे परमेष्ठिनः
॥७२॥ऋतवः षट् समं तत्र नानागन्धसुखावहाः ।
उद्वाहः शंकरस्येति मूर्तिमन्त उपस्थिताः
॥७३॥नीलजीमूतसंघातमन्द्रध्वानप्रहर्षितैः ।
केकायमानैः शिखिभिर्नृत्यमानैश्च सर्वशः
॥७४॥विलोलपिङ्गलस्पष्टविद्युल्लेखावभासिता ।
कुमुदापीतशुक्लाभिर्बलाकाभिश्च शोभिता
॥७५॥प्रत्यग्रसंजातशिलीन्ध्रकन्दला लताद्रुमाभ्युद्गतचारुपल्लवा ।
शुभाम्बुधाराप्रणयप्रबोधितैर्मदालसैर्भेकगणैश्च नादिता
॥७६॥प्रियेषु मानोन्नतमानसानां सुनिश्चितानामपि कामिनीनाम् ।
मयूरकेकाभिरुतैः क्षणेन मनोहरैर्मानविभङ्गकर्त्री
॥७७॥तथा त्रिवर्णोज्ज्वलचारुमूर्तिना शशाङ्कलेखाकुटिलेन सर्वतः ।
पयोदसंघातसमीपवर्तिना महेन्द्रचापेन भृशं विराजिता
॥७८॥विचित्रपुष्पस्पर्शात्सुगन्धिभिर्घनाम्बुसम्पर्कतया सुशीतलैः ।
विकम्पयन्ती पवनैर्मनोहरैः सुराङ्गनानामलकावलीः शुभाः
॥७९॥गर्जत्पयोदस्थगितेन्दुबिम्बा नवाम्बुसेकोद्गतचारुदूर्वा ।
निरीक्षिता सादरमुत्सुकाभिर्निश्वासधूम्रं पथिकाङ्गनाभिः
॥८०॥हंसनूपुरशब्दाढ्या समुन्नतपयोधरा ।
चलद्विद्युल्लताकाञ्ची स्पष्टपद्मविलोचना
॥८१॥असितजलदवृन्दध्वानवित्रस्तहंसा
सुरभिकुसुमरेणुक्।ल्प्तसर्वाङ्गशोभा गिरिदुहितृविवाहे
॥८२॥मेघकञ्चुकनिर्मुक्ता पद्मकोशोद्गतस्तनी ।
हंसनूपुरनिर्ह्रादा सर्वरम्यदिगन्तरा
॥८३॥विस्तीर्णपुलिनश्रोणी कूजत्सारसमेखला ।
प्रफुल्लेन्दीवराभोगविलोचनमनोहरा
॥८४॥पक्वबिम्बाधरपुटा कुन्ददन्तप्रहासिनी ।
नवश्यामालताश्यामरोमराजीपरिष्कृता
॥८५॥चन्द्रांशुहारवर्येण सौधोरःस्थलसर्पिणा ।
प्रह्लादयन्ती चेतांसि सर्वेषां त्रिदिवौकसाम्
॥८६॥समदालिकुलोद्गीतमधुरस्वरभाषिणी ।
चलत्कुमुदसंघातचारुकुण्डलशोभिनी
॥८७॥रक्ताशोकाग्रशाखोत्थपल्लवाङ्गुलिधारिणी ।
तत्पुष्पसंचयमयैर्वासोभिः समलंकृता
॥८८॥रक्तोत्पलाग्रचरणा जातीपुष्पनखावली ।
कदलीस्तम्भचारूरुः शशाङ्कवदना तथा
॥८९॥पद्मकिञ्जल्कसम्पृक्तपवनाग्रकरैः सुरान् ।
प्रेम्णा स्पृशन्ती कान्तेव शरदागान्मनोरमा
॥९०॥निर्मुक्तासितमेघकञ्चुकपुटा पूर्णेन्दुबिम्बानना
नीलाम्भोजविलोचनारविन्दमुकुलप्रोद्भिन्नचारुस्तनी ।
नानापुष्परजःसुगन्धिपवनप्रह्लादनी चेतसां
तत्रागात्कलहंसनूपुररवा देव्या विवाहे शरत्
॥९१॥अत्यर्थशीतलाम्भोभिः प्लावयन्तौ गिरेः शिलाः ।
ऋतू शिशिरहेमन्तावाजग्मतुरतिद्युती
॥९२॥ताभ्यामृतुभ्यां प्राप्ताभ्यां हिमवान्स नगोत्तमः ।
प्रालेयचूर्णवर्षिभ्यां क्षिप्रं रौप्य इवाबभौ
॥९३॥तेन प्रालेयवर्षेण घनेन स हिमाचलः ।
अगाधेन तदा रेजे क्षीरोद इव सागरः
॥९४॥हिमस्थानेषु हिमवान्नाशयामास पादपान् ।
साधूपचारान्सहसा कृतार्थ इव दुर्जनः
॥९५॥प्रालेयपटलच्छन्नैः शृङ्गैः स शुशुभे नगः ।
छत्रैरिव महाभोगैः पाण्डरैः पृथिवीपतिः
॥९६॥पाण्डराणि विशालानि श्रीमन्ति सुभगानि च ।
तुङ्गानि चाद्रिशृङ्गाणि सौधानीव चकाशिरे
॥९७॥तस्याचलेन्द्रस्य दरीष्वतीव विचित्रसारङ्गकुलाकुलासु ।
प्रालेयधाराः शशिपादगौरा गोक्षीरधारा इव संनिपेतुः
॥९८॥बहुकुसुमरजोभिरुत्कराङ्गा हिमकणसङ्गसुशीतलाः समीराः ।
ववुरमरगणेश्वराम्बराणि प्रतनुतमानि शनैर्विकम्पयन्तः
॥९९॥निर्धूतरूक्षानिलशीतदोषः प्रोद्भिन्नचूताङ्कुरकर्णपूरः ।
वसन्तकालश्च तमद्रिपुत्रीसेवार्थमागाद्धिमवन्तमाशु
॥१००॥तस्मिन्नृतावद्रिसुताविवाहसिषेवया तं गिरिमभ्युपेते ।
प्रादुर्बभूवुः कुसुमावतंसाः समन्ततः पादपगुल्मषण्डाः
॥१०१॥ववुः सुगन्धाः सुभगाः सुशीता विचित्रपुष्पाग्ररजोत्कराङ्गाः ।
मनोभवोद्रेककराः सुराणां सुराङ्गनानां च मुहुः समीराः
॥१०२॥स्वच्छाम्बुपूर्णाश्च तथा नलिन्यः पद्मोत्पलानां मुकुलैरुपेताः ।
ईषत्समुद्भिन्नपयोधराग्रा नार्यो यथा रम्यतमा बभूवुः
॥१०३॥ऋतोः स्वभावाच्च मदोद्भवाच्च फुल्लासु शाखासु निलीनपक्षाः ।
चेतोभिरामं त्रिदशाङ्गनानां पुंस्कोकिलाश्चातिकलं विनेदुः
॥१०४॥नात्युष्णशीतानि सरःपयांसि किञ्जल्कचूर्णैः कपिलीकृतानि ।
चक्राह्वयुग्मैरुपनादितानि पपुः प्रहृष्टाः सुरदन्तिमुख्याः
॥१०५॥प्रियङ्गूश्चूततरवश्चूतांश्चापि प्रियङ्गवः ।
तर्जयन्त इवान्योन्यं मञ्जरीभिश्चकाशिरे
॥१०६॥हिमशुक्लेषु शृङ्गेषु तिलकाः कुसुमोत्कराः ।
शुशुभुः कार्यमुद्दिश्य वृद्धा इव समागताः
॥१०७॥फुल्लाशोकलतास्तत्र रेजिरे शालसंश्रिताः ।
कामिन्य इव कान्तानां कण्ठालम्बितमूर्तयः
॥१०८॥समदालिकुलोद्गीतलताकुसुमसंचयाः ।
परस्परं हि मालत्यो भाषन्त्य इव रेजिरे
॥१०९॥नीलानि नीलाम्बुरुहैः पयांसि गौराणि गौरैश्च सनालदण्डैः ।
रक्तैश्च रक्तानि भृशं कृतानि
॥११०॥हैमानि विस्तीर्णजलेषु केषुचिन्निरन्तरं मारकतानि केषुचित् ।
वैदूर्यनालानि सरःसु केषुचित्प्रजज्ञिरे पद्मवनानि सर्वतः
॥१११॥वाप्यस्तत्राभवन्रम्याः कमलोत्पलभूषिताः ।
नानाविहगसंघुष्टा हेमसोपानपङ्क्तयः
॥११२॥शृङ्गाणि तस्य तु गिरेः कर्णिकारैः सुपुष्पितैः ।
समुच्छ्रितान्यविरलैर्हैमानीव बभुर्मुने
॥११३॥ईषदुद्भिन्नकुसुमैः पाटलैश्चापि पाटलाः ।
सम्बभूवुर्दिशः सर्वाः पवनाकम्पिमूर्तिभिः
॥११४॥कृष्णाञ्जनाद्रिशृङ्गाभा नीलाशोकमहीरुहाः ।
गिरौ ववृधिरे फुल्लाः स्पर्धयेव परस्परम्
॥११५॥चीरुवाकविघुष्टानि किंशुकानां वनानि च ।
पर्वतस्य नितम्बेषु सर्वेष्वेवाभिजज्ञिरे
॥११६॥तमालगुल्मैस्तस्यासीच्छोभा हिमवतस्तदा ।
नीलजीमूतसंघातैर्निलीनैरिव सन्धिषु
॥११७॥निकामपुष्पैः सुविशालशाखैः समुच्छ्रितैश्चम्पकपादपैश्च ।
प्रमत्तपुंस्कोकिलसम्प्रलापैर्हिमाचलोऽतीव तदा रराज
॥११८॥श्रुत्वा शब्दं ऋतुमदकलं सर्वतः कोकिलानां
चञ्चत्पक्षाः सुमधुररुतं नीलकण्ठा विनेदुः ।
तेषां शब्दैरुपचितबलः पुष्पचापेषुहस्तः
सज्जीभूतस्त्रिदशवनिता वेद्धुमङ्गेष्वनङ्गः
॥११९॥पटुसूर्यातपश्चापि प्रायः सोष्णजलाशयः ।
देवीविवाहसेवार्थं ग्रीष्म आगाद्धिमाचलम्
॥१२०॥स चापि तरुभिस्तत्र बहुभिः कुसुमोत्करैः ।
शोभयामास शृङ्गाणि प्रालेयाद्रेः समन्ततः
॥१२१॥तस्यापि च ऋतोस्तत्र वायवः सुमनोहराः ।
ववुः पाटलविस्तीर्णकदम्बार्जुनगन्धिनः
॥१२२॥वाप्यः प्रफुल्लपद्मौघाः केसरारुणमूर्तयः ।
अभवंस्तटसंघुष्टकलहंसकदम्बकाः
॥१२३॥तथा कुरवकाश्चापि कुसुमापाण्डुमूर्तयः ।
सर्वेषु जज्ञुः शृङ्गेषु भ्रमरावलिसेविताः
॥१२४॥बकुलाश्च नितम्बेषु विशालेषु महीभृतः ।
उत्ससर्जुर्मनोज्ञानि कुसुमानि समन्ततः
॥१२५॥इति कुसुमविचित्रसर्ववृक्षा विविधविहंगमनादरम्यदेशाः ।
हिमगिरितनयाविवाहभूत्यै षडुपययुरृतवो मुनिप्रवीर
॥१२६॥तत एवं प्रवृत्ते तु सर्वभूतसमागमे ।
नानावाद्यशताकीर्णे ब्रह्मा मम पिता स्वयम्
॥१२७॥शैलपुत्रीमलंकृत्य योग्याभरणसम्पदा ।
पुरं प्रवेशयामास स्वयमादाय लोकधृक्
॥१२८॥ततस्तु पुनरेवेशं ब्रह्मा व्यज्ञापयद्विभुम् ।
हविर्जुहोमि वह्नौ तु उपाध्यायपदे स्थितः ।
ददासि मह्यं यद्याज्ञां कर्तव्योऽयं क्रियाविधिः
॥१२९॥तमाह शंकरो देवं देवदेवो जगत्पतिः ।
यद्यदिष्टं सुरेशान तत्कुरुष्व यथेप्सितम् ।
कर्तास्मि वचनं सर्वं ब्रह्मंस्तव जगद्विभो
॥१३०॥ततः प्रणम्य हृष्टात्मा ब्रह्मा लोकपितामहः ।
हस्तं देवस्य देव्याश्च योगबन्धे युयोज ह
॥१३१॥ज्वलनं च स्वयं कृत्वा कृताञ्जलिमुपस्थितम् ।
श्रुतिगीतैर्महामन्त्रैर्मूर्तिमद्भिरुपस्थितैः
॥१३२॥यथोक्तविधिना हुत्वा सर्पिस्तदमृतं च हि ।
त्रिश्च तं ज्वलनं देवं कारयित्वा प्रदक्षिणम्
॥१३३॥मुक्त्वा हस्तसमायोगं सहितः सर्वदेवतैः ।
सुतैश्च मानसैः सर्वैः प्रहृष्टेनान्तरात्मना ।
वृत्ते उद्वाहकाले तु प्रणनाम वृषध्वजम्
॥१३४॥योगेनैव तयोर्व्यास तदोमापरमेशयोः ।
उद्वाहः स परो वृत्तो यं देवा न विदुः क्वचित्
॥१३५॥इति ते सर्वमाख्यातं स्वयंवरमिदं शुभम् ।
उद्वाहश्चैव देवस्य शृण्वतः परमाद्भुतम्
॥१३६॥इति स्कन्दपुराणे नाम त्रयोदशोऽध्यायः ॥