मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अम्बिकाखण्डः, अध्याय २

3
अम्बिकाखण्डः · 2

प्रपद्ये देवमीशानं सर्वज्ञमपराजितम्

सनत्कुमार उवाच

प्रपद्ये देवमीशानं सर्वज्ञमपराजितम् ।

महादेवं महात्मानं विश्वस्य जगतः पतिम्

॥१॥

शक्तिरप्रतिघा यस्य ऐश्वर्यं चैव सर्वशः ।

स्वामित्वं च विभुत्वं च स्वकृतानि प्रचक्षते

॥२॥

तस्मै देवाय सोमाय प्रणम्य प्रयतः शुचिः ।

पुराणाख्यानजिज्ञासोर्वक्ष्ये स्कन्दोद्भवं शुभम्

॥३॥

देहावतारो देवस्य रुद्रस्य परमात्मनः ।

प्राजापत्याभिषेकश्च हरणं शिरसस्तथा

॥४॥

दर्शनं षट्कुलीयानां चक्रस्य च विसर्जनम् ।

नैमिशस्योद्भवश्चैव सत्त्रस्य च समापनम्

॥५॥

ब्रह्मणश्चागमस्तत्र तपसश्चरणं तथा ।

शर्वस्य दर्शनं चैव देव्याश्चैव समुद्भवः

॥६॥

सत्या विवादश्च तथा दक्षशापस्तथैव च ।

मेनायां च यथोत्पत्तिर्यथा देव्याः स्वयंवरम्

॥७॥

देवानां वरदानं च वसिष्ठस्य च धीमतः ।

पराशरस्य चोत्पत्तिर्व्यासस्य च महात्मनः

॥८॥

वसिष्ठकौशिकाभ्यां च वैरोद्भवसमापनम् ।

वाराणस्याश्च शून्यत्वं क्षेत्रमाहात्म्यवर्णनम्

॥९॥

रुद्रस्य चात्र सांनिध्यं नन्दिनश्चाप्यनुग्रहः ।

गणानां दर्शनं चैव कथनं चाप्यशेषतः

॥१०॥

कालीव्याहरणं चैव तपश्चरणमेव च ।

सोमनन्दिसमाख्यानं वरदानं तथैव च

॥११॥

गौरीत्वं पुत्रलम्भश्च देव्या उत्पत्तिरेव च ।

कौशिक्या भूतमातृत्वं सिंहाश्च रथिनस्तथा

॥१२॥

गौर्याश्च निलयो विन्ध्ये विन्ध्यसूर्यसमागमः ।

अगस्त्यस्य च माहात्म्यं वधः सुन्दनिसुन्दयोः

॥१३॥

निसुम्भसुम्भनिर्याणं महिषस्य वधस्तथा ।

अभिषेकश्च कौशिक्या वरदानमथापि च

॥१४॥

अन्धकस्य तथोत्पत्तिः पृथिव्याश्चैव बन्धनम् ।

हिरण्याक्षवधश्चैव हिरण्यकशिपोस्तथा

॥१५॥

बलिसंयमनं चैव देव्याः समय एव च ।

देवानां गमनं चैव अग्नेर्दूतत्वमेव च

॥१६॥

देवानां वरदानं च शुक्रस्य च विसर्जनम् ।

सुतस्य च तथोत्पत्तिर्देव्याश्चान्धकदर्शनम्

॥१७॥

शैलादिदैत्यसम्मर्दो देव्याश्च शतरूपता ।

आर्यावरप्रदानं च शैलादिस्तव एव च

॥१८॥

देवस्यागमनं चैव वृत्तस्य कथनं तथा ।

पतिव्रतायाश्चाख्यानं गुरुशुश्रूषणस्य च

॥१९॥

आख्यानं पञ्चचूडायास्तेजसश्चाप्यधृष्यता ।

दूतस्यागमनं चैव संवादोऽथ विसर्जनम्

॥२०॥

अन्धकासुरसंवादो मन्दरागमनं तथा ।

गणानामागमश्चैव संख्यानश्रवणं तथा

॥२१॥

निग्रहश्चान्धकस्याथ युद्धेन महता तथा ।

शरीरार्धप्रदानं च अशोकसुतसंग्रहः

॥२२॥

भस्मसोमोद्भवश्चैव श्मशानवसतिस्तथा ।

रुद्रस्य नीलकण्ठत्वं तथायतनवर्णनम्

॥२३॥

उत्पत्तिर्यक्षराजस्य कुबेरस्य च धीमतः ।

निग्रहो भुजगेन्द्राणां शिखरस्य च पातनम्

॥२४॥

त्रैलोक्यस्य सशक्रस्य वशीकरणमेव च ।

देवसेनाप्रदानं च सेनापत्याभिषेचनम्

॥२५॥

नारदस्यागमश्चैव तारकप्रेषितस्य ह ।

वधश्च तारकस्योग्रो यात्रा भद्रवटस्य च

॥२६॥

महिषस्य वधश्चैव क्रौञ्चस्य च निबर्हणम् ।

शक्तेरुद्धरणं चैव तारकस्य वधः शुभः

॥२७॥

देवासुरभयोत्पत्तिस्त्रैपुरं युद्धमेव च ।

प्रह्लादविग्रहश्चैव कृतघ्नाख्यानमेव च ।

महाभाग्यं ब्राह्मणानां विस्तरेण प्रकीर्त्यते

॥२८॥

एतज्ज्ञात्वा यथावद्धि कुमारानुचरो भवेत् ।

बलवान्मतिसम्पन्नः पुत्रं चाप्नोति सम्मतम्

॥२९॥

इति स्कन्दपुराणे द्वितीयोऽध्यायः ॥