अथ वृत्ते विवाहे तु भवस्यामिततेजसः
सनत्कुमार उवाच
अथ वृत्ते विवाहे तु भवस्यामिततेजसः ।
प्रहर्षमतुलं गत्वा देवाः सहपितामहाः ।
तुष्टुवुर्वाग्भिरिष्टाभिः प्रणमन्तो महेश्वरम्
॥१॥नमः पर्वतलिङ्गाय पर्वतेशाय वै नमः ।
नमः पवनवेगाय विरूपायाजिताय च
॥२॥नमः क्लेशविनाशाय दात्रे च शुभसम्पदाम् ।
नमो नीलशिखण्डाय अम्बिकापतये नमः
॥३॥नमः पवनरूपाय शतरूपाय वै नमः ।
नमो भैरवरूपाय विरूपनयनाय च
॥४॥नमः सहस्रनेत्राय सहस्रचरणाय च ।
नमो वेदरहस्याय वेदाङ्गाय नमो नमः
॥५॥विष्टम्भनाय शक्रस्य बाहोर्वेदाङ्कुराय च ।
चराचराधिपतये शमनाय नमो नमः
॥६॥सलिलेशयलिङ्गाय युगान्तायतलिङ्गिने ।
नमः कपालमालाय कपालस्रग्मिणे नमः
॥७॥नमः कपालहस्ताय दंष्ट्रिणे गदिने नमः ।
नमस्त्रैलोक्यवाहाय सप्तलोकरथाय च
॥८॥नमः खट्वाङ्गहस्ताय प्रमथार्तिहराय च ।
नमो यज्ञशिरोहर्त्रे कृष्णकेशापहारिणे
॥९॥भगनेत्रनिपाताय पूष्णो दन्तहराय च ।
नमः पिनाकशूलासिखड्गमुद्गरधारिणे
॥१०॥नमोऽस्तु कालकालाय तृतीयनयनाय च ।
अन्तकान्तकृते चैव नमः पर्वतवासिने
॥११॥सुवर्णरेतसे चैव सर्पकुण्डलधारिणे ।
वाड्वलेर्योगनाशाय योगिनां गुरवे नमः
॥१२॥शशाङ्कादित्यनेत्राय ललाटनयनाय च ।
नमः श्मशानरतये श्मशानवरदाय च
॥१३॥नमो दैवतनाथाय त्र्यम्बकाय नमो नमः ।
अशनीशतहासाय ब्रह्मण्यायाजिताय च
॥१४॥गृहस्थसाधवे नित्यं जटिने ब्रह्मचारिणे ।
नमो मुण्डार्धमुण्डाय पशूनां पतये नमः
॥१५॥सलिले तप्यमानाय योगैश्वर्यप्रदाय च ।
नमः शान्ताय दान्ताय प्रलयोत्पत्तिकारिणे
॥१६॥नमोऽनुग्रहकर्त्रे च स्थितिकर्त्रे नमो नमः ।
नमो रुद्राय वसवे आदित्यायाश्विने नमः
॥१७॥नमः पित्रेऽथ साध्याय विश्वेदेवाय वै नमः ।
नमः शर्वाय सर्वाय उग्राय वरदाय च
॥१८॥नमो भीमाय सेनान्ये पशूनां पतये नमः ।
शुचये रेरिहाणाय सद्योजाताय वै नमः
॥१९॥महादेवाय चित्राय नमश्चित्ररथाय च ।
प्रधानाय प्रमेयाय कार्याय करणाय च
॥२०॥पुरुषाय नमस्तेऽस्तु पुरुषेच्छाकराय च ।
नमः पुरुषसंयोगप्रधानगुणकारिणे
॥२१॥प्रवर्तकाय प्रकृतेः पुरुषस्य च सर्वशः ।
कृताकृतस्य संवेत्त्रे फलसंयोगदाय च
॥२२॥कालज्ञाय च सर्वत्र नमो नियमकारिणे ।
नमो वैषम्यकर्त्रे च गुणानां वृत्तिदाय च
॥२३॥नमस्ते देवदेवेश नमस्ते भूतभावन ।
शिवः सौम्यः सुखो द्रष्टुं भव सोमो हि नः प्रभो
॥२४॥सनत्कुमार उवाच
एवं स भगवान्देवो जगत्पतिरुमापतिः ।
स्तूयमानः सुरैः सर्वैरमरानिदमब्रवीत्
॥२५॥द्रष्टुं सुखश्च सौम्यश्च देवानामस्मि भो सुराः ।
वरं ब्रूत यथेष्टं च दातास्मि वदतानघाः
॥२६॥ततस्ते प्रणताः सर्वे ऊचुः सब्रह्मकाः सुराः ।
तवैव भगवन्हस्ते वर एषोऽवतिष्ठताम् ।
यदा कार्यं तदा नस्त्वं दास्यसे वरमीप्सितम्
॥२७॥एवमस्त्विति तानुक्त्वा विसृज्य च सुरान्हरः ।
लोकांश्च प्रमथैः सार्धं विवेश भवनं ततः
॥२८॥यस्तु हरोत्सवमद्भुतमेतं गायति दैवतविप्रसमक्षम् ।
सोऽप्रतिरूपगणेशसमानो देहविपर्ययमेत्य सुखी स्यात्
॥२९॥सनत्कुमार उवाच
पाराशर्य स्तवं हीदं शृणुयाद्यः पठेत वा ।
स स्वर्गलोकगो देवैः पूज्यतेऽमरराडिव
॥३०॥इति स्कन्दपुराणे चतुर्दशमोऽध्यायः ॥