मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अम्बिकाखण्डः, अध्याय ६

3
अम्बिकाखण्डः · 6

ततः स भगवान्देवः कपर्दी नीललोहितः

सनत्कुमार उवाच

ततः स भगवान्देवः कपर्दी नीललोहितः ।

आज्ञया परमेशस्य जग्राह ब्रह्मणः शिरः

॥१॥

तद्गृहीत्वा शिरो दीप्तं रूपं विकृतमास्थितः ।

योगक्रीडां समास्थाय भैक्षाय प्रचचार ह

॥२॥

स देववेश्मनि तदा भिक्षार्थमगमद्द्विजाः ।

न चास्य कश्चित्तां भिक्षामनुरूपामदाद्विभोः

॥३॥

अभ्यगात्संक्रमेणैव वेश्म विष्णोर्महात्मनः ।

तस्यातिष्ठत स द्वारि भिक्षामुच्चारयञ्छुभाम्

॥४॥

स दृष्ट्वा तदुपस्थं तु विष्णुर्वै योगचक्षुषा ।

शिरां ललाटात्सम्भिद्य रक्तधारामपातयत् ।

पपात सा च विस्तीर्णा योजनार्धशतं तदा

॥५॥

तया पतन्त्या विप्रेन्द्रा बहून्यब्दानि धारया ।

पितामहकपालस्य नार्धमप्यभिपूरितम् ।

तमुवाच ततो देवः प्रहस्य वचनं शुभम्

॥६॥

सकृत्कन्याः प्रदीयन्ते सकृदग्निश्च जायते ।

सकृद्राजानो ब्रुवते सकृद्भिक्षा प्रदीयते

॥७॥

तुष्टोऽस्मि तव दानेन युक्तेनानेन मानद ।

वरं वरय भद्रं ते वरदोऽस्मि तवाद्य वै

॥८॥

विष्णुरुवाच ।

एष एव वरः श्लाघ्यो यदहं देवताधिपम् ।

पश्यामि शंकरं देवमुग्रं शर्वं कपर्दिनम्

॥९॥

देवश्छायां ततो वीक्ष्य कपालस्थे तदा रसे ।

ससर्ज पुरुषं दीप्तं विष्णोः सदृशमूर्जितम्

॥१०॥

तमाहाथाक्षयश्चासि अजरामर एव च ।

युद्धेषु चाप्रतिद्वन्द्वी सखा विष्णोरनुत्तमः ।

देवकार्यकरः श्रीमान्सहानेन चरस्व च

॥११॥

नारासु जन्म यस्मात्ते विष्णुदेहोद्भवासु च ।

नरस्तस्माद्धि नाम्ना त्वं प्रियश्चास्य भविष्यसि

॥१२॥

वायुरुवाच

तं तदाश्वास्य निक्षिप्य नरं विष्णोः स्वयं प्रभुः ।

अगमद्ब्रह्मसदनं तौ चाविविशतुर्गृहम्

॥१३॥

य इदं नरजन्मेह शृणुयाद्वा पठेत वा ।

स कीर्त्या परया युक्तो विष्णुलोके महीयते

॥१४॥

इति स्कन्दपुराणे षष्ठोऽध्यायः ॥