ते दृष्ट्वा देवदेवेशं सर्वे सब्रह्मकाः सुराः
सनत्कुमार उवाच
ते दृष्ट्वा देवदेवेशं सर्वे सब्रह्मकाः सुराः ।
अस्तुवन्वाग्भिरिष्टाभिः प्रणम्य वृषवाहनम्
॥१॥पितामह उवाच
नमः शिवाय सोमाय भक्तानां भयहारिणे ।
नमः शूलाग्रहस्ताय कमण्डलुधराय च
॥२॥दण्डिने नीलकण्ठाय करालदशनाय च ।
त्रेताग्निदीप्तनेत्राय त्रिनेत्राय हराय च
॥३॥नमः पिनाकिने चैव नमोऽस्त्वशनिधारिणे ।
व्यालयज्ञोपवीताय कुण्डलाभरणाय च
॥४॥नमश्चक्रधरायैव व्याघ्रचर्मधराय च ।
कृष्णाजिनोत्तरीयाय सर्पमेखलिने तथा
॥५॥वरदात्रे च रुद्राय सरस्वतीसृजे तथा ।
सोमसूर्यर्क्षमालाय अक्षसूत्रकराय च
॥६॥ज्वालामालासहस्राय ऊर्ध्वलिङ्गाय वै नमः ।
नमः पर्वतवासाय शिरोहर्त्रे च मे पुरा
॥७॥हालाहलविनाशाय कपालवरधारिणे ।
विमानवरवाहाय जनकाय ममैव च ।
वरदाय वरिष्ठाय श्मशानरतये नमः
॥८॥नमो नरस्य कर्त्रे च स्थितिकर्त्रे नमः सदा ।
उत्पत्तिप्रलयानां च कर्त्रे सर्वसहाय च
॥९॥ऋषिदैवतनाथाय सर्वभूताधिपाय च ।
शिवः सौम्यश्च देवेश भव नो भक्तवत्सल
॥१०॥सनत्कुमार उवाच
ब्रह्मण्यथैवं स्तुवति देवदेवः स लोकपः ।
उवाच तुष्टस्तान्देवानृषींश्च तपसैधितान्
॥११॥तुष्टोऽस्म्यनेन वः सम्यक्तपसा ऋषिदेवताः ।
वरं ब्रूत प्रदास्यामि सुनिश्चिन्त्य स उच्यताम्
॥१२॥सनत्कुमार उवाच
अथ सर्वानभिप्रेक्ष्य संतुष्टांस्तपसैधितान् ।
दर्शनेनैव विप्रेन्द्र ब्रह्मा वचनमब्रवीत्
॥१३॥ब्रह्मोवाच
यदि तुष्टोऽसि देवेश यदि देयो वरश्च नः ।
तस्माच्छिवश्च सौम्यश्च दृश्यश्चैव भवस्व नः
॥१४॥सुखसंव्यवहार्यश्च नित्यं तुष्टमनास्तथा ।
सर्वकार्येषु च सदा हितः पथ्यश्च शंकरः
॥१५॥सह देव्या ससूनुश्च सह देवगणैरपि ।
एष नो दीयतां देव वरो वरसहस्रद
॥१६॥सनत्कुमार उवाच
एवमुक्तः स भगवान्ब्रह्मणा देवसत्तमः ।
स्वकं तेजो महद्दिव्यं व्यसृजत्सर्वयोगवित्
॥१७॥अर्धेन तेजसः स्वस्य मुखादुल्कां ससर्ज ह ।
तामाह भव नारीति भगवान्विश्वरूपधृक्
॥१८॥साकाशं द्यां च भूमिं च महिम्ना व्याप्य विष्ठिता ।
उपतस्थे च देवेशं दीप्यमाना यथा तडित्
॥१९॥तामाह प्रहसन्देवो देवीं कमललोचनाम् ।
ब्रह्माणं देवि वरदमाराधय शुचिस्मिते
॥२०॥सा तथेति प्रतिज्ञाय तपस्तप्तुं प्रचक्रमे ।
रुद्रश्च तानृषीनाह शृणुध्वं मम तोषणे ।
फलं फलवतां श्रेष्ठा यद्ब्रवीमि तपोधनाः
॥२१॥अमरा जरया त्यक्ता अरोगा जन्मवर्जिताः ।
मद्भक्तास्तपसा युक्ता इहैव च निवत्स्यथ
॥२२॥अयं चैवाश्रमः श्रेष्ठः स्वर्णशृङ्गोऽचलोत्तमः ।
पुण्यं पवित्रं स्थानं वै भविष्यति न संशयः
॥२३॥मैनाके पर्वते श्रेष्ठे स्वर्णोऽहमभवं यतः ।
स्वर्णाक्षीं चासृजं देवीं स्वर्णाक्षं तेन तत्स्मृतम्
॥२४॥स्वर्णाक्षे ऋषयो यूयं षट्कुलीयास्तपोधनाः ।
निवत्स्यथ मयाज्ञप्ताः स्वर्णाक्षं वै ततश्च ह ।
समन्ताद्योजनं क्षेत्रं पवित्रं तन्न संशयः
॥२५॥देवगन्धर्वचरितमप्सरोगणसेवितम् ।
सिंहेभशरभाकीर्णं शार्दूलर्क्षमृगाकुलम् ।
अनेकविहगाकीर्णं लतावृक्षक्षुपाकुलम्
॥२६॥ब्रह्मचारी नियमवाञ्जितक्रोधो जितेन्द्रियः ।
उपोष्य त्रिगुणां रात्रिं चरुं कृत्वा निवेद्य च ।
यत्र तत्र मृतः सोऽपि ब्रह्मलोके निवत्स्यति
॥२७॥योऽप्येवमेव कामात्मा पश्येत्तत्र वृषध्वजम् ।
गोसहस्रफलं सोऽपि मत्प्रसादादवाप्स्यति ।
नियमेन मृतश्चात्र मया सह चरिष्यति
॥२८॥यावत्स्थास्यन्ति लोकाश्च मैनाकश्चाप्ययं गिरिः ।
तावत्सह मया देवा मत्प्रसादाच्चरिष्यथ
॥२९॥एवं स तानृषीनुक्त्वा दृष्ट्वा सौम्येन चक्षुषा ।
पश्यतामेव सर्वेषां तत्रैवान्तरधीयत
॥३०॥सनत्कुमार उवाच
य इमं शृणुयान्मर्त्यो द्विजातीञ्छ्रावयेत वा ।
सोऽपि तत्फलमासाद्य चरेन्मृत्युविवर्जितः
॥३१॥जयति जलदवाहः सर्वभूतान्तकालः शमदमनियतानां
जननमरणहर्ता चेष्टतां धार्मिकाणां विविधकरणयुक्तः
॥३२॥मदनपुरविदारी नेत्रदन्तावपाती विगतभयविषादः
सततमभिदधानश्चेकितानात्मचित्तः करचरणललामः
॥३३॥इति स्कन्दपुराणे नवमोऽध्यायः ॥