वरान्स लब्ध्वा भगवान्वसिष्ठोऽस्मत्पितामहः
व्यास उवाच
वरान्स लब्ध्वा भगवान्वसिष्ठोऽस्मत्पितामहः ।
कं पुत्रं जनयामास आत्मनः सदृशद्युतिम्
॥१॥सनत्कुमार उवाच
तेनासौ वरदानेन देवदेवस्य शूलिनः ।
अरुन्धत्यामजनयत्तपोयोगबलान्वितम् ।
ब्रह्मिष्ठं शक्तिनामानं पुत्रं पुत्रशताग्रजम्
॥२॥तस्य बाल्यात्प्रभृत्येव वासिष्ठस्य महात्मनः ।
परेण चेतसा भक्तिरभवद्गोवृषध्वजे
॥३॥स कदाचिदपत्यार्थमाराधयदुमापतिम् ।
तस्य तुष्टो महादेवो वरदोऽस्मीत्यभाषत
॥४॥अथ दृष्ट्वा तमीशानमिदमाहानताननः ।
केन स्तोष्यामि ते देव यस्त्वं सर्वजगत्पतिः ।
सर्वान्धारयसे लोकानात्मना समयाद्विभो
॥५॥त्वमेव भोक्ता भोज्यं च कर्ता कार्यं तथा क्रिया ।
उत्पादकस्तथोत्पाद्य उत्पत्तिश्चैव सर्वशः
॥६॥आत्मानं पुत्रनामानं मम तुल्यं गुणैर्विभो ।
इच्छामि दत्तं देवेश एष मे दीयतां वरः
॥७॥सनत्कुमार उवाच
तमेवंवादिनं देवः प्रहस्य वदतां वरः ।
उवाच वचसा व्यास दिशः सर्वा विनादयन्
॥८॥त्वयाहं याचितः शक्ते स च ते सम्भविष्यति ।
त्वत्समः सर्ववेदज्ञस्त्वदीयो मुनिपुंगव
॥९॥बीजात्मा च तथोद्भूतः स्वयमेवाङ्कुरात्मना ।
बीजात्मना न भवति परिणामान्तरं गतः
॥१०॥एवं स आत्मनात्मा वः सम्भूतोऽपत्यसंज्ञितः ।
स्वेनात्मना न भविता परिणामान्तरं गतः
॥११॥सनत्कुमार उवाच
एवमुक्त्वा तु तं देवः प्रहस्य च निरीक्ष्य च ।
जगाम सहसा योगी अदृश्यत्वमतिद्युतिः
॥१२॥तस्मिन्गते महादेवे शक्तिस्तव पितामहः ।
वचस्तत्परिनिश्चिन्त्य एवमेवेत्यमन्यत
॥१३॥अथ कालेऽतिमहति समतीते शुभव्रते ।
तपसा भावितश्चापि महताग्निसमप्रभः ।
अदृश्यन्त्यां महाप्रज्ञ आदधे गर्भमुत्तमम्
॥१४॥तस्यामापन्नसत्त्वायां राजा कल्माषपादृषिम् ।
भक्षयामास संरब्धो रक्षसा हृतचेतनः
॥१५॥इति स्कन्दपुराणे षोडशोऽध्यायः ॥