प्रविष्टे भवनं देवे सूपविष्टे वरासने
सनत्कुमार उवाच
प्रविष्टे भवनं देवे सूपविष्टे वरासने ।
स बहिर्मन्मथः क्रूरो देवं वेद्धुमनाभवत्
॥१॥तमनाचारसंयुक्तं दुरात्मानं कुलाधमम् ।
लोकान्सर्वांस्तापयानं सर्वेष्वकरुणात्मकम्
॥२॥ऋषीणां विघ्नकर्तारं नियमानां व्रतैः सह ।
चक्राह्वयस्य रूपेण रत्या सह तमागतम्
॥३॥अथाततायिनं व्यास वेद्धुकामं सुरेश्वरम् ।
नयनेन तृतीयेन सावज्ञं तमवैक्षत
॥४॥ततोऽस्य नेत्रजो वह्निर्ज्वालामालासहस्रवान् ।
संवृत्य रतिभर्तारमदहत्सपरिच्छदम्
॥५॥स दह्यमानः करुणमार्तोऽक्रोशत विस्वरम् ।
प्रसादयंश्च तं देवं पपात स महीतले
॥६॥आशु सोऽग्निपरीताङ्गो मन्मथो लोकतापनः ।
पपात भस्मसाच्चैव क्षणेन समपद्यत
॥७॥पत्नी तु करुणं तस्य विललाप सुदुःखिता ।
देवं देवीं च दुःखार्ता अयाचत्करुणायती
॥८॥तस्याश्च करुणां श्रुत्वा देवौ तौ करुणात्मकौ ।
ऊचतुस्तां समालोक्य समाश्वास्य च दुःखिताम्
॥९॥दग्ध एष ध्रुवं भद्रे नास्योत्पत्तिरिहेष्यते ।
अशरीरोऽपि ते काले कार्यं सर्वं करिष्यति
॥१०॥यदा तु विष्णुर्भविता वसुदेवसुतः शुभे ।
तदा तस्य सुतोऽयं स्यात्पतिस्ते स भविष्यति
॥११॥सनत्कुमार उवाच
ततः सा तं वरं लब्ध्वा कामपत्नी शुभानना ।
जगामेष्टं तदा देशं प्रीतियुक्ता गतक्लमा
॥१२॥सनत्कुमार उवाच
एवं दग्ध्वा स कामं तु शंकरो मूढचेतसम् ।
प्रोवाच हिमवत्पुत्रीं भक्त्या मुनिवरस्य ह
॥१३॥वसिष्ठो नाम विप्रेन्द्रो मां कृत्वा हृदि तप्यते ।
तस्याहं वरदानाय प्रयास्यामि महाव्रते
॥१४॥एवमुक्त्वा स देवीं तु भक्तिप्रीत्या तदा विभुः ।
जगाम तप्यतोऽभ्याशं वसिष्ठस्य मुनेर्विभुः
॥१५॥ततो मुनिवरश्रेष्ठं वरिष्ठं तपतां वरम् ।
वसिष्ठमृषिशार्दूलं तप्यमानं परं तपः
॥१६॥पूर्णे वर्षसहस्रे तु ज्वलमानमिवानलम् ।
उवाच भगवान्गत्वा ब्रूहि किं ते ददानि ते ।
ददामि दिव्यं चक्षुस्ते पश्य मां सगणं द्विज
॥१७॥दृष्ट्वा स तु तमीशानं प्रणम्य शिरसा प्रभुम् ।
शिरस्यञ्जलिमाधाय तुष्टाव हृषिताननः
॥१८॥वसिष्ठ उवाच
नमः कनकलिङ्गाय वेदलिङ्गाय वै नमः ।
नमः सहस्रलिङ्गाय वह्निलिङ्गाय वै नमः
॥१९॥नमः पुराणलिङ्गाय श्रुतिलिङ्गाय वै नमः ।
नमः पवनलिङ्गाय ब्रह्मलिङ्गाय वै नमः
॥२०॥नमस्त्रैलोक्यलिङ्गाय दाहलिङ्गाय वै नमः ।
नमः पर्वतलिङ्गाय स्थितिलिङ्गाय वै नमः
॥२१॥नमो रहस्यलिङ्गाय सप्तद्वीपोर्ध्वलिङ्गिने ।
नमः सर्वार्थलिङ्गाय सर्वलोकाङ्गलिङ्गिने
॥२२॥नमोऽस्त्वव्यक्तलिङ्गाय बुद्धिलिङ्गाय वै नमः ।
नमोऽहंकारलिङ्गाय भूतलिङ्गाय वै नमः
॥२३॥नम इन्द्रियलिङ्गाय नमस्तन्मात्रलिङ्गिने ।
नमः पुरुषलिङ्गाय भावलिङ्गाय वै नमः
॥२४॥नमः सर्वार्थलिङ्गाय तमोलिङ्गाय वै नमः ।
नमो रजोर्ध्वलिङ्गाय सत्त्वलिङ्गाय वै नमः
॥२५॥नमो गगनलिङ्गाय तेजोलिङ्गाय वै नमः ।
नमो वायूर्ध्वलिङ्गाय शब्दलिङ्गाय वै नमः
॥२६॥नमो ऋक्स्तुतलिङ्गाय यजुर्लिङ्गाय वै नमः ।
नमस्तेऽथर्वलिङ्गाय सामलिङ्गाय वै नमः
॥२७॥नमो यज्ञाङ्गलिङ्गाय यज्ञलिङ्गाय वै नमः ।
नमस्तेऽनन्तलिङ्गाय देवानुगतलिङ्गिने
॥२८॥दिश नः परमं योगमपत्यं मत्समं तथा ।
ब्रह्म चैवाक्षयं देव शमं चैव परं विभो ।
अक्षयत्वं च वंशस्य धर्मे च मतिमक्षयाम्
॥२९॥सनत्कुमार उवाच
एवं स भगवान्व्यास वसिष्ठेनामितात्मना ।
स्तूयमानस्तुतोषाथ तुष्टश्चेदं तमब्रवीत्
॥३०॥भगवानुवाच
तुष्टस्तेऽहं ददान्येतत्तव सर्वं मनोगतम् ।
योगं च परमं सूक्ष्ममक्षयं सर्वकामिकम्
॥३१॥पौत्रं च त्वत्समं दिव्यं तपोयोगबलान्वितम् ।
ददानि ते ऋषिश्रेष्ठ प्रतिभास्यन्ति चैव ते
॥३२॥दमः शमस्तथा कीर्तिस्तुष्टिरक्रोध एव च ।
नित्यं तव भविष्यन्ति अमरत्वं च सर्वशः
॥३३॥अवध्यत्वमसह्यत्वमक्षयत्वं च सर्वदा ।
वंशस्य चाक्षतिर्विप्र धर्मे च रतिरव्यया ।
ब्रूहि चान्यानपि वरान्ददामि ऋषिसत्तम
॥३४॥वसिष्ठ उवाच
भगवन्विदितं सर्वं भविष्यं देवसत्तम ।
न स्याद्धि तत्तथा देव यथा वा मन्यसे प्रभो
॥३५॥देव उवाच
भविष्यं नान्यथा कुर्यादिति मे निश्चिता मतिः ।
अहं कर्ता भविष्यस्य कथं कुर्यात्तदन्यथा
॥३६॥तथा तन्नात्र संदेहो विहितं यद्यथा मया ।
तस्मात्तेऽनुग्रहं कर्ता भूयः पुत्रस्तवाव्ययः
॥३७॥सनत्कुमार उवाच
एवमुक्त्वा ततो देवः कपर्दी नीललोहितः ।
पश्यतस्तस्य विप्रर्षेः क्षणादन्तरधीयत
॥३८॥इति स्कन्दपुराणे पञ्चदशमोऽध्यायः ॥