मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अम्बिकाखण्डः, अध्याय १८

3
अम्बिकाखण्डः · 18

ततः स राजा स्वं राज्यमुत्सृज्य सह भार्यया

सनत्कुमार उवाच

ततः स राजा स्वं राज्यमुत्सृज्य सह भार्यया ।

वनं विवेश तत्राभूत्पुरुषादो महाबलः

॥१॥

सोऽभक्षयत तत्राग्रे शक्तिमेव महामुनिम् ।

ततो भ्रातृशतं तस्य वसिष्ठस्यैव पश्यतः

॥२॥

ततः पुत्रवधं घोरं दृष्ट्वा ब्रह्मसुतः प्रभुः ।

नोत्ससर्ज तदा क्रोधं वसिष्ठः कौशिकं प्रति ।

पुत्रशोकेन महता भृशमेवान्वकीर्यत

॥३॥

स बद्ध्वा महतीं कण्ठे शिलां ब्रह्मसुतः प्रभुः ।

नद्यामात्मानमुत्सृज्य शतधा साद्रवद्भयात् ।

शतद्रूरिति तां प्राहुर्मुनयः संशितव्रताः

॥४॥

पुनः पाशैर्दृढैर्बद्ध्वा अन्यस्यामसृजद्वशी ।

तस्यां विपाशः संवृत्तो विपाशा साभवत्ततः

॥५॥

ततोऽटवीं समासाद्य निराहारो जितेन्द्रियः ।

वायुभक्षस्तदा तस्थौ स्वं देहं परितापयन्

॥६॥

अथ शुश्राव वेदानां ध्वनिमेकस्य सुस्वरम् ।

अधीयानस्य तत्राशु ध्यानमेवान्वपद्यत

॥७॥

अथैनं चारुसर्वाङ्गी पीनोन्नतपयोधरा ।

उपतस्थेऽग्रतः पत्नी शक्तेर्दीनाननेक्षणा

॥८॥

तामुवाच कुतस्त्वं वै कस्यैष श्रूयते ध्वनिः ।

सोवाच दीनया वाचा रुदती श्वशुरं तदा

॥९॥

अदृश्यन्त्युवाच

यदैव सुतदुःखेन निर्गतोऽस्याश्रमाद्गुरो ।

तदाप्रभृत्येवादृश्या भगवन्तमनुव्रता

॥१०॥

अधीयानस्य चैवायं ध्वनिः पुत्रस्य ते विभो ।

उदरस्थस्य ते सूनोर्मा दुःखे त्वं मनः कृथाः

॥११॥

सनत्कुमार उवाच

इदानीमस्ति मे वत्से जीविताशेति सोऽब्रवीत् ।

क्षान्तिं धृतिं च संस्थित्य प्रययावाश्रमं मुनिः

॥१२॥

तदाश्रमपदं गच्छन्पथि राजानमैक्षत ।

वसारुधिरदिग्धाङ्गं सौदासं रक्तलोचनम्

॥१३॥

अभिद्रवन्तं वेगेन मन्त्रैरस्तम्भयन्मुनिः ।

ततोऽस्य निर्गतः कायाद्रक्षः परमदारुणः

॥१४॥

उवाच चैनं दुष्टात्मन्दहेयं त्वां सबान्धवम् ।

दग्धेन च त्वया किं मे गच्छ मुक्तोऽसि दुर्मते

॥१५॥

ततः स मुक्तो दीनात्मा राक्षसः क्रूरकर्मकृत् ।

प्रणम्य शिरसा भीतो जगाम कुशिकान्तिकम्

॥१६॥

गते निशाचरे राजा प्रणम्य शिरसा मुनिम् ।

प्रसादयामास तदा स चोवाचेदमर्थवत्

॥१७॥

न दोषस्तव राजेन्द्र रक्षसाधिष्ठितस्य वै ।

कृतान्तेन हताः पुत्रा निमित्तं तत्र राक्षसः

॥१८॥

प्रशाधि राज्यं राजेन्द्र पितृपैतामहं विभो ।

ब्रूहि किं वा प्रियं तेऽद्य करोमि नरपुंगव

॥१९॥

राजोवाच

इच्छामि भगवन्पुत्रं त्वयोत्पादितमच्युत ।

देव्यामस्यां महासत्त्वं तत्कुरुष्व मम प्रियम्

॥२०॥

सनत्कुमार उवाच

एवमस्त्वित्यथोक्त्वासौ तस्यां पत्न्यां महाव्रतः ।

पुत्रं च शोणकं नाम जनयामास निर्वृतः

॥२१॥

तं शोणकं ततो राज्ये स्वं पुत्रमभिषिच्य सः ।

जगाम वनमेवाशु सभार्यस्तपसि स्थितः

॥२२॥

वसिष्ठस्यापि कालेन शक्तेः पुत्रः प्रतापवान् ।

अदृश्यन्त्यां समभवत्पुत्रो नाम्ना पराशरः

॥२३॥

वसिष्ठं तु तदा धीमांस्तातमेवाभ्यमन्यत ।

तात तातेति च मुहुर्व्याजहार पितुर्गुरुम्

॥२४॥

ततः कदाचिद्विज्ञाय भक्षितं रक्षसा शुचिम् ।

पितरं तपसा मन्त्रैरीजे रक्षःक्रतौ तदा

॥२५॥

तत्र कोटीः स पञ्चाशद्रक्षसां क्रूरकर्मणाम् ।

जुहावाग्नौ महातेजास्ततो ब्रह्माभ्यगाद्द्रुतम्

॥२६॥

सुतमभ्येत्य सम्पूज्य वसिष्ठसहितः प्रभुः ।

ऋषिभिर्दैवतैश्चैव इदमाह पराशरम्

॥२७॥

ब्रह्मोवाच

देवतास्ते पतन्ति स्म यज्ञैर्मन्त्रपुरस्कृतैः ।

अष्टमं स्थानमेतद्धि देवानामाद्यमीदृशम्

॥२८॥

पराशर उवाच

सह देवैरहं सर्वा/ल्लोकान्धक्ष्यामि पावकैः ।

दग्ध्वान्यान्प्रथयिष्यामि तत्र लोकान्न संशयः

॥२९॥

सनत्कुमार उवाच

तस्यैवं गर्वितं वाक्यं श्रुत्वा देवः पितामहः ।

उवाच श्लक्ष्णया वाचा सान्त्वयंस्तमिदं वचः

॥३०॥

पितामह उवाच

कृतमेतन्न संदेहो यथा ब्रूषे महामते ।

क्षन्तव्यं सर्वमेतत्तु अस्मत्प्रियचिकीर्षया

॥३१॥

यैस्ते पिता महाभाग भक्षितः सह सोदरैः ।

त एवाग्नौ च होतव्या विश्वामित्रस्य पश्यतः ।

अन्येषां स्वस्ति सर्वत्र देवानां सह राक्षसैः

॥३२॥

तस्य संकल्पसंतप्तो मन्युमूलमुदाहरत् ।

वसिष्ठस्य महाभाग त्वं निवारय पुत्रक

॥३३॥

देवाः प्राञ्जलयः सर्वे प्रणेमुस्ते महामुनिम् ।

ऋषयश्चैव ते सर्वे वाग्भिस्तुष्टुविरे तदा

॥३४॥

ततस्तेषां महातेजा वचांसि प्रत्यपूजयत् ।

विश्वामित्रस्य मिषत इदं प्रोवाच सुस्वरम्

॥३५॥

य एषां ब्राह्मणो वापि क्षत्रियो वा दुरात्मवान् ।

रक्षसां पक्षमास्थाय प्रतीकारं करिष्यति

॥३६॥

तमप्यत्रापि संक्रुद्धस्तपोयोगबलान्वितः ।

विहत्य तपसो योगाद्धोष्ये दीप्ते विभावसौ

॥३७॥

सनत्कुमार उवाच

ततो देवाः सगन्धर्वाः पितामहपुरःसराः ।

प्रभावं तस्य तं ज्ञात्वा पराशरमपूजयन्

॥३८॥

हुतेषु च ततस्तेषु राक्षसेषु दुरात्मसु ।

संजहार ततः सत्त्रं ब्रह्मणोऽनुमते तदा

॥३९॥

सनत्कुमार उवाच

य इमं श्राद्धकाले वा दैवे कर्मणि वा द्विजान् ।

श्रावयीत शुचिर्भूत्वा न तं हिंसन्ति राक्षसाः

॥४०॥

पराशरस्येदमदीनसम्भवं विशुद्धवाक्कर्मविधानसम्भवम् ।

निशाम्य विप्रः कुलसिद्धिसम्भवं न राक्षसं गच्छति

॥४१॥

इति स्कन्दपुराणेऽष्टादशमोऽध्यायः ॥