शृणुष्वेमां कथां दिव्यां सर्वपापप्रणाशनीम्
सनत्कुमार उवाच
शृणुष्वेमां कथां दिव्यां सर्वपापप्रणाशनीम् ।
कथ्यमानां मया चित्रां बह्वर्थां श्रुतिसम्मिताम् ।
यां श्रुत्वा पापकर्मापि गच्छेच्च परमां गतिम्
॥१॥न नास्तिकाश्रद्दधाने शठे चापि कथंचन ।
इमां कथामनुब्रूयात्तथा चासूयके नरे
॥२॥इदं पुत्राय शिष्याय धार्मिकायानसूयवे ।
कथनीयं महाब्रह्मन्देवभक्ताय वा भवेत् ।
कुमारभक्ताय तथा श्रद्दधानाय चैव हि
॥३॥पुरा ब्रह्मा प्रजाध्यक्षः अण्डेऽस्मिन्सम्प्रसूयते ।
सोऽज्ञानात्पितरं ब्रह्मा न वेद तमसावृतः
॥४॥अहमेक इति ज्ञात्वा सर्वा/ल्लोकानवैक्षत ।
न चापश्यत तत्रान्यं तपोयोगबलान्वितः
॥५॥पुत्र पुत्रेति चाप्युक्तो ब्रह्मा शर्वेण धीमता ।
प्रणतः प्राञ्जलिर्भूत्वा तमेव शरणं गतः
॥६॥स दत्त्वा ब्रह्मणे शम्भुः स्रष्टृत्वं ज्ञानसंहितम् ।
विभुत्वं चैव लोकानामन्तर्धे परमेश्वरः
॥७॥तदेषोपनिषत्प्रोक्ता मया व्यास सनातना ।
यां श्रुत्वा योगिनो ध्यानात्प्रपद्यन्ते महेश्वरम्
॥८॥ब्रह्मं च यो विदधे पुत्रमग्रे ज्ञानं च
तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां
॥९॥स व्यास पितरं दृष्ट्वा स्वदीप्त्या परया युतम् ।
पुत्रकामः प्रजाहेतोस्तपस्तीव्रं चकार ह
॥१०॥महता योगतपसा युक्तस्य सुमहात्मनः ।
अचिरेणैव कालेन पिता सम्प्रतुतोष ह
॥११॥दर्शनं चागमत्तस्य वरदोऽस्मीत्युवाच ह ।
स तुष्टाव नतो भूत्वा कृत्वा शिरसि चाञ्जलिम्
॥१२॥नमः परमदेवाय देवानामपि वेधसे ।
स्रष्ट्रे वै लोकतन्त्राय ब्रह्मणः पतये नमः
॥१३॥एकस्मै शक्तियुक्ताय अशक्तिरहिताय च ।
अनन्तायाप्रमेयाय इन्द्रियाविषयाय च
॥१४॥व्यापिने व्याप्तपूर्वाय अधिष्ठात्रे प्रचोदिने ।
कृतप्रचेतनायैव तत्त्वविन्यासकारिणे
॥१५॥प्रधानचोदकायैव गुणिनां शान्तिदाय च ।
दृष्टिदाय च सर्वेषां स्वयं वै दर्शनाय च
॥१६॥विषयग्राहिणे चैव नियमस्य च कारिणे ।
मनसः करणानां च तत्रैव नियमस्य च
॥१७॥भूतानां गुणकर्त्रे च शक्तिदाय तथैव च ।
कर्त्रे ह्यण्डस्य मह्यं च अचिन्त्यायाग्रजाय च ।
अप्रमेय पितर्नित्यं प्रीतो नो दिश शक्वरीम्
॥१८॥तस्यैवं स्तुवतो व्यास देवदेवो महेश्वरः ।
तुष्टोऽब्रवीत्स्वयं पुत्रं ब्रह्माणं प्रणतं तथा
॥१९॥यस्मात्ते विदितं वत्स सूक्ष्ममेतन्महाद्युते ।
तस्माद्ब्रह्मेति लोकेषु नाम्ना ख्यातिं गमिष्यसि
॥२०॥यस्माच्चाहं पितेत्युक्तस्त्वया बुद्धिमतां वर ।
तस्मात्पितामहत्वं ते लोके ख्यातिं गमिष्यति
॥२१॥प्रजार्थं यच्च ते तप्तं तप उग्रं सुदुश्चरम् ।
तस्मात्प्रजापतित्वं ते ददानि प्रयतात्मने
॥२२॥एवमुक्त्वा स देवेशो मूर्तिमत्योऽसृजत्स्त्रियः ।
यास्ताः प्रकृतयस्त्वष्टौ विशेषाश्चेन्द्रियैः सह ।
भावाश्च सर्वे ते देवमुपतस्थुः स्वरूपिणः
॥२३॥तानुवाच ततो देवः पतिर्युक्तः स्वतेजसा ।
एतमद्याभिषेकेण सम्पादयत मा चिरम्
॥२४॥ताभिः स्वं स्वं समादाय भावं दिव्यमतर्कितम् ।
अभिषिक्तो बभूवेति प्रजापतिरतिद्युतिः
॥२५॥तत्रैवं योगिनः सूक्ष्मं दृष्ट्वा दिव्येन चक्षुषा ।
पुराणं योगतत्त्वज्ञा गायन्ति त्रिगुणान्वितम्
॥२६॥रुद्रः स्रष्टा हि सर्वेषां भूतानां तव च प्रभो ।
अस्माभिश्च भवान्सार्धं जगतः सम्प्रवर्तकः
॥२७॥स देवस्तोषितः सम्यक्परमैश्वर्ययोगधृक् ।
ब्रह्माणमग्रजं पुत्रं प्राजापत्येऽभ्यषेचयत्
॥२८॥यः कृत्वा बहुविधमार्गयोगयुक्तं तत्त्वाख्यं
देवानां परममनन्तयोगयुक्तं
॥२९॥सर्वेषां मनसि सदावतिष्ठमानो जानानः शुभमशुभं
तं देवं प्रमथपतिं प्रणम्य भक्त्या नित्यं वै
॥३०॥इति स्कन्दपुराणे तृतीयोऽध्यायः ॥