मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अम्बिकाखण्डः, अध्याय १२

3
अम्बिकाखण्डः · 12

ततः स भगवान्देवो ब्रह्मा तामाह सुस्वरम्

सनत्कुमार उवाच

ततः स भगवान्देवो ब्रह्मा तामाह सुस्वरम् ।

देवि येनैव सृष्टासि मनसा यस्त्वया वृतः ।

स भर्ता तव देवेशो भविता मा तपः कृथाः

॥१॥

ततः प्रदक्षिणं कृत्वा ब्रह्मा व्यास गिरेः सुताम् ।

जगामादर्शनं तस्याः सा चापि विरराम ह

॥२॥

सा देवी युक्तमित्येवमुक्त्वा स्वस्याश्रमस्य ह ।

द्वारि जातमशोकं वै समुपाश्रित्य संस्थिता

॥३॥

अथागाच्चन्द्रतिलकस्त्रिदशार्तिहरो हरः ।

विकृतं रूपमास्थाय ह्रस्वो बाहुक एव च

॥४॥

विभुग्ननासिको भूत्वा कुब्जः केशान्तपिङ्गलः ।

उवाच विकृतास्यश्च देवि त्वां वरयाम्यहम्

॥५॥

अथोमा योगसंसिद्धा ज्ञात्वा शंकरमागतम् ।

अन्तर्भावविशुद्धा सा क्रियानुष्ठानलिप्सया

॥६॥

तमुवाचार्घ्यमानाय्य मधुपर्केण चैव हि ।

सम्पूज्य ससुखासीनं ब्राह्मणं ब्राह्मणप्रिया

॥७॥

देव्युवाच

भगवन्नस्वतन्त्रास्मि पिता मेऽस्त्यरणी तथा ।

तौ प्रभू मम दाने वै कन्याहं द्विजपुंगव

॥८॥

गत्वा याचस्व पितरं मम शैलेन्द्रमव्ययम् ।

स चेद्ददाति मां विप्र तुभ्यं तद्रुचितं मम

॥९॥

सनत्कुमार उवाच

ततः स भगवान्देवस्तथैव विकृतः प्रभुः ।

उवाच शैलराजं तमुमां मे यच्छ शैलराट्

॥१०॥

स तं विकृतरूपेण ज्ञात्वा रुद्रमथाव्ययम् ।

भीतः शापाच्च विमना इदं वचनमब्रवीत्

॥११॥

भगवन्नावमन्यामि ब्राह्मणान्भूमिदैवतान् ।

मनीषितं तु यत्पूर्वं तच्छृणुष्व महातपः

॥१२॥

स्वयंवरो मे दुहितुर्भविता विप्रपूजितः ।

वरयेद्यं स्वयं तत्र स भर्तास्या भवेदिति

॥१३॥

सनत्कुमार उवाच

तच्छ्रुत्वा शैलवचनं भगवान्गोवृषध्वजः ।

देव्याः समीपमागत्य इदमाह महामनाः

॥१४॥

देवि पित्रा तवाज्ञप्तः स्वयंवर इति श्रुतम् ।

तत्र त्वं वरयित्री यं स ते भर्ता किलानघे

॥१५॥

तदापृच्छे गमिष्यामि दुर्लभा त्वं वरानने ।

रूपवन्तं समुत्सृज्य वृणीथा मादृशं कथम्

॥१६॥

सनत्कुमार उवाच

तेनोक्ता सा तदा तत्र भावयन्ती तदीरितम् ।

भावं च रुद्रनिहितं प्रसादं मनसस्तथा

॥१७॥

सम्प्राप्योवाच देवेशं मा ते भूद्बुद्धिरन्यथा ।

अहं त्वां वरयिष्यामि नान्यद्भूतं कथंचन

॥१८॥

अथ वा तेऽस्ति संदेहो मयि विप्र कथंचन ।

इहैव त्वां महाभाग वरयामि मनोरथम्

॥१९॥

सनत्कुमार उवाच

गृहीत्वा स्तबकं सा तु हस्ताभ्यां तत्र संस्थितम् ।

स्कन्धे शम्भोः समादाय देवी प्राह वृतोऽसि मे

॥२०॥

ततः स भगवान्देवस्तथा देव्या वृतस्तदा ।

उवाच तमशोकं वै वाचा संजीवयन्निव

॥२१॥

यस्मात्तव सुपुष्पेण स्तबकेन वृतो ह्यहम् ।

तस्मात्त्वं जरया त्यक्तः अमरः सम्भविष्यसि

॥२२॥

कामरूपः कामपुष्पः कामगो दयितो मम ।

सर्वाभरणपुष्पाढ्यः सर्ववृक्षफलोपगः

॥२३॥

सर्वान्नभक्षदश्चैव अमृतस्रव एव च ।

सर्वगन्धश्च देव्यास्त्वं भविष्यसि दृढं प्रियः ।

निर्भयः सर्वलोकेषु चरिष्यसि सुनिर्वृतः

॥२४॥

आश्रमं चैवमत्यर्थं चित्रकूटेति विश्रुतम् ।

योऽभियास्यति पुण्यार्थी सोऽश्वमेधमवाप्स्यति ।

यत्र तत्र मृतश्चापि ब्रह्मलोकं गमिष्यति

॥२५॥

यश्चात्र नियमैर्युक्तः प्राणान्सम्यक्परित्यजेत् ।

स देव्यास्तपसा युक्तो महागणपतिर्भवेत्

॥२६॥

सनत्कुमार उवाच

एवमुक्त्वा तदा देव आपृच्छ्य हिमवत्सुताम् ।

अन्तर्दधे जगत्स्रष्टा सर्वभूतप ईश्वरः

॥२७॥

सापि देवी गते तस्मिन्भगवत्यमितात्मनि ।

तत एवोन्मुखी स्थित्वा शिलायां संविवेश ह

॥२८॥

उन्मुखी सा गते तस्मिन्महेष्वासे प्रजापतौ ।

निशेव चन्द्ररहिता सा बभौ विमनास्तदा

॥२९॥

अथ शुश्राव सा शब्दं बालस्यार्तस्य शैलजा ।

सरस्युदकसम्पूर्णे समीपे चाश्रमस्य ह

॥३०॥

स कृत्वा बालरूपं तु देवदेवः स्वयं शिवः ।

क्रीडाहेतोः सरोमध्ये ग्राहग्रस्तोऽभवत्तदा

॥३१॥

योगमायामथास्थाय प्रपञ्चोद्भवकारणम् ।

तद्रूपं सरसो मध्ये कृत्वेदं समभाषत ।

त्रातु मां कश्चिदेत्येह ग्राहेण हृतचेतसम्

॥३२॥

धिक्कष्टं बाल एवाहमप्राप्तार्थमनोरथः ।

यास्यामि निधनं वक्त्रे ग्राहस्यास्य दुरात्मनः

॥३३॥

शोचामि न स्वकं देहं ग्राहग्रस्तोऽपि दुःखितः ।

यथा शोचामि पितरं मातरं च तपस्विनीम्

॥३४॥

मां श्रुत्वा ग्राहवदने प्राप्तं निधनमुत्सुकौ ।

प्रियपुत्रावेकपुत्रौ प्राणान्नूनं विहास्यतः

॥३५॥

सनत्कुमार उवाच

श्रुत्वा तु देवी तं नादं विप्रस्यार्तस्य शोभना ।

उत्थाय प्रद्रुता तत्र यत्र तिष्ठत्यसौ द्विजः

॥३६॥

सापश्यदिन्दुवदना बालकं चारुरूपिणम् ।

ग्राहेण ग्रस्यमानं तं वेपमानमवस्थितम्

॥३७॥

सोऽपि ग्राहवरः श्रीमान्दृष्ट्वा देवीमुपागताम् ।

तं गृहीत्वा द्रुतं यातो मध्यं सरस एव ह

॥३८॥

स कृष्यमाणस्तेजस्वी नादमार्तं तदाकरोत् ।

अथाह देवी दुःखार्ता बालं दृष्ट्वा महाव्रता

॥३९॥

ग्राहराज महासत्त्व बालकं ह्येकपुत्रकम् ।

विसृजैनं महादंष्ट्र क्षिप्रं भीमपराक्रम

॥४०॥

ग्राह उवाच

यो देवि दिवसे षष्ठे प्रथमं समुपैति माम् ।

स आहारो मम पुरा विहितो लोककर्तृभिः

॥४१॥

सोऽयं मम महाभागे षष्ठेऽहनि गिरीन्द्रजे ।

ब्रह्मणा विहितो नूनं नैनं मोक्ष्ये कथंचन

॥४२॥

देव्युवाच

यन्मया हिमवच्छृङ्गे चरितं तप उत्तमम् ।

तेन बालमिमं मुञ्च ग्राहराज नमोऽस्तु ते

॥४३॥

ग्राह उवाच

मा व्ययं तपसो देवि कार्षीः शैलेन्द्रनन्दने ।

नैनं मोचयितुं शक्तो देवराजोऽपि स स्वयम्

॥४४॥

मह्यमीशेन तुष्टेन शर्वेणोग्रेण शूलिना ।

अमरत्वमवध्यत्वमक्षयं बलमेव च

॥४५॥

स्वयंग्रहणमोक्षश्च ज्ञानं चैवाव्ययं पुनः ।

दत्तं ततो ब्रवीमि त्वां नायं मोक्षमवाप्स्यति

॥४६॥

अथ वा ते कृपा देवि भृशं बाले शुभानने ।

ब्रवीमि यत्कुरु तथा ततो मोक्षमवाप्स्यति

॥४७॥

देव्युवाच

ग्राहाधिप वदस्वाशु यत्सतामविगर्हितम् ।

तत्कृतं नात्र संदेहो मान्या मे ब्राह्मणा दृढम्

॥४८॥

ग्राह उवाच

यत्कृतं वै तपः किंचिद्भवत्या स्वल्पमन्तशः ।

तत्सर्वं मे प्रयच्छस्व ततो मोक्षमवाप्स्यति

॥४९॥

देव्युवाच

जन्मप्रभृति यत्पुण्यं महाग्राह कृतं मया ।

तत्ते सर्वं मया दत्तं बालं मुञ्च ममाग्रतः

॥५०॥

सनत्कुमार उवाच

प्रजज्वाल ततो ग्राहस्तपसा तेन बृंहितः ।

आदित्य इव मध्याह्ने दुर्निरीक्ष्यस्तदाभवत्

॥५१॥

उवाच चेदं तुष्टात्मा देवीं लोकस्य धारिणीम् ।

देवि किं कृतमेतत्ते अनिश्चित्य महाव्रते ।

तपसो ह्यर्जनं दुःखं तस्य त्यागो न शस्यते

॥५२॥

गृहाण तप एतच्च बालं चेमं शुचिस्मिते ।

तुष्टोऽस्मि ते विप्रभक्त्या वरं तस्माद्ददामि ते

॥५३॥

सा त्वेवमुक्ता ग्राहेण उवाचेदं महाव्रता ।

सुनिश्चित्य महाग्राह कृतं बालस्य मोक्षणम् ।

न विप्रेभ्यस्तपः श्रेष्ठं श्रेष्ठा मे ब्राह्मणा मताः

॥५४॥

दत्त्वा चाहं न गृह्णामि ग्राहेन्द्र विदितं हि ते ।

न हि कश्चिन्नरो ग्राह प्रदत्तं पुनराहरेत्

॥५५॥

दत्तमेतन्मया तुभ्यं नाददानि हि तत्पुनः ।

त्वय्येव रमतामेतद्बालश्चायं विमुच्यताम्

॥५६॥

तथोक्तस्तां प्रशस्याथ मुक्त्वा बालं नमस्य च ।

देवीमादित्यसद्भासं तत्रैवान्तरधीयत

॥५७॥

बालोऽपि सरसस्तीरे मुक्तो ग्राहेण वै तदा ।

स्वप्नलब्ध इवार्थौघस्तत्रैवान्तरधीयत

॥५८॥

तपसोऽथ व्ययं मत्वा देवी हिमगिरीन्द्रजा ।

भूय एव तपः कर्तुमारेभे यत्नमास्थिता

॥५९॥

कर्तुकामां तपो भूयो ज्ञात्वा तां शंकरः स्वयम् ।

प्रोवाच वचनं व्यास मा कृथास्तप इत्युत

॥६०॥

मह्यमेतत्तपो देवि त्वया दत्तं महाव्रते ।

तेनैवमक्षयं तुभ्यं भविष्यति सहस्रधा

॥६१॥

इति लब्ध्वा वरं देवी तपसोऽक्षय्यमुत्तमम् ।

स्वयंवरमुदीक्षन्ती तस्थौ प्रीतिमुदायुता

॥६२॥

इदं पठेद्यो हि नरः सदैव बालानुभावाचरणं हि शम्भोः ।

स देहभेदं समवाप्य पूतो भवेद्गणस्तस्य कुमारतुल्यः

॥६३॥

इति स्कन्दपुराणे द्वादशमोऽध्यायः ॥