मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अम्बिकाखण्डः, अध्याय ४

3
अम्बिकाखण्डः · 4

प्राजापत्यं ततो लब्ध्वा प्रजाः स्रष्टुं प्रचक्रमे

सनत्कुमार उवाच

प्राजापत्यं ततो लब्ध्वा प्रजाः स्रष्टुं प्रचक्रमे ।

प्रजास्ताः सृज्यमानाश्च न विवर्धन्ति तस्य ह

॥१॥

स कुर्वाणस्तथा सृष्टिं शक्तिहीनः पितामहः ।

सृष्ट्यर्थं भूय एवाथ तपश्चर्तुं प्रचक्रमे

॥२॥

सृष्टिहेतोस्तपस्तस्य ज्ञात्वा त्रिभुवनेश्वरः ।

तेजसा जगदाविश्य आजगाम तदन्तिकम् ।

स्रष्टा तस्य जगन्नाथोऽदर्शयत्स्वतनौ जगत्

॥३॥

स्वयमागत्य देवेशो महाभूतपतिर्हरः ।

व्याप्येव हि जगत्कृत्स्नं परमेण स्वतेजसा ।

शम्भुः प्राह वरं वत्स याचस्वेति पितामहम्

॥४॥

तं ब्रह्मा लोकसृष्ट्यर्थं पुत्रस्त्वं मनसाब्रवीत् ।

स ज्ञात्वा तस्य संकल्पं ब्रह्मणः परमेश्वरः ।

मूढोऽयमिति संचिन्त्य प्रोवाच वरदः स्वयम्

॥५॥

आगतं पितरं मा त्वं यस्मात्पुत्रं समीहसे ।

मन्मूर्तिस्तनयस्तस्माद्भविष्यति ममाज्ञया

॥६॥

स च ते पुत्रतां यात्वा मदीयो गणनायकः ।

रुद्रो विग्रहवान्भूत्वा मूढ त्वां विनयिष्यति

॥७॥

सर्वविद्याधिपत्यं च योगानां चैव सर्वशः ।

बलस्याधिपतित्वं च अस्त्राणां च प्रयोक्तृता

॥८॥

मया दत्तानि तस्याशु उपस्थास्यन्ति सर्वशः ।

धनुः पिनाकं शूलं च खड्गं परशुरेव च

॥९॥

कमण्डलुस्तथा दण्डः अस्त्रं पाशुपतं तथा ।

संवर्तकाशनिश्चैव चक्रं च प्रतिसर्गिकम् ।

एवं सर्वर्द्धिसम्पन्नः सुतस्ते स भविष्यति

॥१०॥

एवमुक्त्वा गते तस्मिन्नन्तर्धानं महात्मनि ।

ब्रह्मा चक्रे तदा चेष्टिं पुत्रकामः प्रजापतिः

॥११॥

स जुह्वञ्छ्रमसंयुक्तः प्रतिघातसमन्वितः ।

समिद्युक्तेन हस्तेन ललाटं प्रममार्ज ह

॥१२॥

समित्संयोगजस्तस्य स्वेदबिन्दुर्ललाटजः ।

पपात ज्वलने तस्मिन्द्विगुणं तस्य तेजसा

॥१३॥

तद्धि माहेश्वरं तेजः संधितं ब्रह्मणि स्रुतम् ।

प्रेरितं देवदेवेन निपपात हविर्भुजि

॥१४॥

क्षणे तस्मिन्महेशेन स्मृत्वा तं वरमुत्तमम् ।

प्रेषितो गणपो रुद्रः सद्य एवाभवत्तदा

॥१५॥

तच्च संस्वेदजं तेजः पूर्वं ज्वलनयोजितम् ।

भूत्वा लोहितमाश्वेव पुनर्नीलमभूत्तदा

॥१६॥

नीललोहित इत्येव तेनासावभवत्प्रभुः ।

त्र्यक्षो दशभुजः श्रीमान्ब्रह्माणं छादयन्निव

॥१७॥

शर्वाद्यैर्नामभिर्ब्रह्मा तनूभिश्च जलादिभिः ।

स्तुत्वा तं सर्वगं देवं नीललोहितमव्ययम्

॥१८॥

ज्ञात्वा सर्वसृजं पश्चान्महाभूतप्रतिष्ठितम् ।

असृजद्विविधास्त्वन्याः प्रजाः स जगति प्रभुः

॥१९॥

सोऽपि योगं समास्थाय ऐश्वर्येण समन्वितः ।

लोकान्सर्वान्समाविश्य धारयामास सर्वदा

॥२०॥

ब्रह्मणोऽपि ततः पुत्रा दक्षधर्मादयः शुभाः ।

असृजन्त प्रजाः सर्वा देवमानुषसंकुलाः

॥२१॥

अथ कालेन महता कल्पेऽतीते पुनः पुनः ।

प्रजा धारयतो योगादस्मिन्कल्प उपस्थिते

॥२२॥

प्रतिष्ठितायां वार्त्तायां प्रवृत्ते वृष्टिसर्जने ।

प्रजासु च विवृद्धासु प्रयागे यजतश्च ह

॥२३॥

ब्रह्मणः षट्कुलीयास्ते ऋषयः संशितव्रताः ।

मरीचयोऽत्रयश्चैव वसिष्ठाः क्रतवस्तथा

॥२४॥

भृगवोऽङ्गिरसश्चैव तपसा दग्धकिल्बिषाः ।

ऊचुर्ब्रह्माणमभ्येत्य सहिताः कर्मणोऽन्तरे

॥२५॥

भगवन्नन्धकारेण महता स्मः समावृताः ।

खिन्ना विवदमानाश्च न च पश्याम यत्परम्

॥२६॥

एतं नः संशयं देव चिरं हृदि समास्थितम् ।

त्वं हि वेत्थ यथातत्त्वं कारणं परमं हि नः

॥२७॥

किं परं सर्वभूतानां बलीयश्चापि सर्वतः ।

केन चाधिष्ठितं विश्वं को नित्यः कश्च शाश्वतः

॥२८॥

कः स्रष्टा सर्वभूतानां प्रकृतेश्च प्रवर्तकः ।

कोऽस्मान्सर्वेषु कार्येषु प्रयुनक्ति महामनाः

॥२९॥

कस्य भूतानि वश्यानि कः सर्वविनियोजकः ।

कथं पश्येम तं चैव एतन्नः शंस सर्वशः

॥३०॥

एवमुक्तस्ततो ब्रह्मा सर्वेषामेव संनिधौ ।

देवानां च ऋषीणां च गन्धर्वोरगरक्षसाम्

॥३१॥

यक्षाणामसुराणां च ये च कुत्र प्रवर्तकाः ।

पक्षिणां सपिशाचानां ये चान्ये तत्समीपगाः ।

उत्थाय प्राञ्जलिः प्राह रुद्रेति त्रिः प्लुतं वचः

॥३२॥

स चापि तपसा शक्यो द्रष्टुं नान्येन केनचित् ।

स स्रष्टा सर्वभूतानां बलवांस्तन्मयं जगत् ।

तस्य वश्यानि भूतानि तेनेदं धार्यते जगत्

॥३३॥

ततस्ते सर्वलोकेशा नमश्चक्रुर्महात्मने

॥३४॥

ऋषय ऊचुः

किं तन्महत्तपो देव येन दृश्येत स प्रभुः ।

तन्नो वदस्व देवेश वरदं चाभिधत्स्व नः

॥३५॥

पितामह उवाच

सत्त्रं महत्समासध्वं वाश्ण्मनोदोषवर्जिताः ।

देशं च वः प्रवक्ष्यामि यस्मिन्देशे चरिष्यथ

॥३६॥

ततो मनोमयं चक्रं स सृष्ट्वा तानुवाच ह ।

क्षिप्तमेतन्मया चक्रमनुव्रजत मा चिरम्

॥३७॥

यत्रास्य नेमिः शीर्येत स देशस्तपसः शुभः ।

ततो मुमोच तच्चक्रं ते च तत्समनुव्रजन्

॥३८॥

तस्य वै व्रजतः क्षिप्रं यत्र नेमिरशीर्यत ।

नैमिशं तत्स्मृतं नाम्ना पुण्यं सर्वत्र पूजितम्

॥३९॥

तत्पूजितं देवमनुष्यसिद्धै रक्षोभिरुग्रैरुरगैश्च दिव्यैः ।

यक्षैः सगन्धर्वपिशाचसंघैः सर्वाप्सरोभिश्च

॥४०॥

विप्रैश्च दान्तैः शमयोगयुक्तैस्तीर्थैश्च सर्वैरपि

गन्धर्वविद्याधरचारणैश्च साध्यैश्च विश्वैः

॥४१॥

इति स्कन्दपुराणे चतुर्थोऽध्यायः ॥