उमाहरौ तु देवेशौ चक्रतुर्यच्च संगतौ
व्यास उवाच
उमाहरौ तु देवेशौ चक्रतुर्यच्च संगतौ ।
तन्मे सर्वमशेषेण कथयस्व महामुने
॥१॥सनत्कुमार उवाच
उमाहरौ तु संगम्य परस्परमनिन्दितौ ।
शालङ्कस्यान्वये विप्रं युयुजाते वरेण ह
॥२॥स चाप्ययोनिजः पुत्र आराध्य परमेश्वरम् ।
रुद्रेण समतां लब्ध्वा महागणपतिर्बभौ
॥३॥व्यास उवाच
कथं नन्दी समुत्पन्नः कथं चाराध्य शंकरम् ।
समानत्वमगाच्छम्भोः प्रतीहारत्वमेव च
॥४॥सनत्कुमार उवाच
अभूदृषिः स धर्मात्मा शिलादो नाम वीर्यवान् ।
तस्याभूच्छिलकैर्वृत्तिः शिलादस्तेन सोऽभवत्
॥५॥अपश्यल्लम्बमानांस्तु गर्तायां स पितॄन्द्विजः ।
विच्छिन्नसंततीन्घोरं निरयं वै प्रपेतुषः
॥६॥तैरुक्तोऽपत्यकामैस्तु देवं लोकेशमव्ययम् ।
आराधय महादेवं सुतार्थं द्विजसत्तम
॥७॥तस्य वर्षसहस्रेण तप्यमानस्य शूलधृक् ।
शर्वः सोमो गणवृतो वरदोऽस्मीत्यभाषत
॥८॥तं दृष्ट्वा सोममीशेशं प्रणतः पादयोर्विभोः ।
हर्षगद्गदया वाचा तुष्टाव विबुधेश्वरम्
॥९॥नमः परमदेवाय महेशाय महात्मने ।
स्रष्ट्रे सर्वसुरेशानां ब्रह्मणः पतये नमः
॥१०॥नमः कामाङ्गनाशाय योगसम्भवहेतवे ।
नमः पर्वतवासाय ध्यानगम्याय वेधसे
॥११॥ऋषीणां पतये नित्यं देवानां पतये नमः ।
वेदानां पतये चैव योगिनां पतये नमः
॥१२॥प्रधानाय नमो नित्यं तत्त्वायामरसंज्ञिणे ।
वरदाय च भक्तानां नमः सर्वगताय च
॥१३॥तन्मात्रेन्द्रियभूतानां विकाराणां गुणैः सह ।
स्रष्ट्रे च पतये चैव नमश्च प्रभविष्णवे
॥१४॥जगतः पतये चैव जगत्स्रष्ट्रे नमः सदा ।
प्रकृतेः पतये नित्यं पुरुषात्परगामिने
॥१५॥ईश्वराय नमो नित्यं योगगम्याय रंहसे ।
संसारोत्पत्तिनाशाय सर्वकामप्रदाय च
॥१६॥शरण्याय नमो नित्यं नमो भस्माङ्गरागिणे ।
नमस्तेऽयोग्रहस्ताय तेजसां पतये नमः
॥१७॥सूर्यानिलहुताशाम्बुचन्द्राकाशधराय च ।
स्थिताय सर्वदा नित्यं नमस्त्रैलोकवेधसे
॥१८॥स्तोतव्यस्य कुतो देव विश्रामस्तव विद्यते ।
यदा हेतुस्त्वमेवास्य जगतः स्थितिनाशयोः
॥१९॥अशरण्यस्य देवेश त्वत्तश्च शरणार्थिनः ।
प्रसादं परमालम्ब्य वरदो भव विश्वकृत्
॥२०॥सनत्कुमार उवाच
यः स्तोत्रमेतदखिलं पठते द्विजन्मा प्रातः
तं ब्रह्मराक्षसनिशाचरभूतयक्षा हिंसन्ति नो
॥२१॥ततः स भगवान्देवः स्तूयमानः सहोमया ।
उवाच वरदोऽस्मीति ब्रूहि यत्ते मनोगतम्
॥२२॥तमेवंवादिनं देवं शिलादोऽभ्यर्चयत्तदा ।
उवाच चेदं देवेशं स वाचा सज्जमानया
॥२३॥भगवन्यदि तुष्टोऽसि यदि देयो वरश्च मे ।
इच्छाम्यात्मसमं पुत्रं मृत्युहीनमयोनिजम्
॥२४॥एवमुक्तस्ततो देवः प्रीयमाणस्त्रिलोचनः ।
एवमस्त्विति तं प्रोच्य तत्रैवान्तरधीयत
॥२५॥गते तस्मिन्महेष्वासे ऋषिः परमपूजितः ।
स्वमाश्रममुपागम्य ऋषिभ्योऽकथयत्ततः
॥२६॥तैः प्रशस्तस्ततश्चैव कालेन मुनिसत्तम ।
यियक्षुर्यज्ञभूमिं स्वां लाङ्गलेन चकर्ष ताम्
॥२७॥तस्यां तु कृष्यमाणायां सीतायां तत्समुत्थितः ।
संवर्तकानलप्रख्यः कुमारः प्रत्यदृश्यत
॥२८॥स तं दृष्ट्वा तथोद्भूतं कुमारं दीप्ततेजसम् ।
राक्षसोऽयमिति ज्ञात्वा भयान्नोपससार तम्
॥२९॥कुमारोऽपि तथोद्भूतः पितरं दीप्ततेजसम् ।
उपासर्पत दीनात्मा तात तातेति चाब्रवीत्
॥३०॥स तातेत्युच्यमानोऽपि यदा तं नाभ्यनन्दत ।
ततो वायुस्तमाकाशे शिलादं प्राह सुस्वरम्
॥३१॥वायुरुवाच
शालङ्कायन पुत्रस्ते योऽसौ देवेन शम्भुना ।
अयोनिजः पुरा दत्तः स एष प्रतिनन्दय
॥३२॥यस्मान्नन्दीकरस्तेऽयं सदैव द्विजसत्तम ।
तस्मान्नन्दीति नाम्नायं भविष्यति सुतस्तव
॥३३॥सनत्कुमार उवाच
ततः स वायुवचनान्नन्दिनं परिषस्वजे ।
गृहीत्वा चाश्रमं स्वेन सोऽनयत्तुष्टिवर्धनम् ।
चूडोपनयनादीनि कर्माण्यस्य चकार सः
॥३४॥कृत्वा चाध्यापयामास वेदान्साङ्गानशेषतः ।
आयुर्वेदं धनुर्वेदं गान्धर्वं शब्दलक्षणम्
॥३५॥हस्तिनां चरितं यच्च नरनार्योश्च लक्षणम् ।
शिल्पानि चैव सर्वाणि निमित्तज्ञानमेव च
॥३६॥भूतग्रामचिकित्सां च मातॄणां चरितं च यत् ।
भुजंगानां च सर्वेषां यच्च किंचिद्विचेष्टितम् ।
अब्दैरधीतवान्सर्वं व्यास पञ्चभिरेव च
॥३७॥दक्षः शुचिरदीनात्मा प्रियवागनसूयकः ।
सर्वलोकप्रियो नित्यं मनोनयननन्दनः
॥३८॥तस्याथ सप्तमे वर्षे ऋषी दिव्यौ तपोधनौ ।
आश्रमं समनुप्राप्तौ शिलादस्य महौजसौ
॥३९॥तावभ्यर्च्य यथान्यायं शिलादः सुमहातपाः ।
सुखासीनौ समालक्ष्य आसने परमार्चितौ
॥४०॥मित्रावरुणनामानौ तपोयोगबलान्वितौ ।
अभिज्ञौ सर्वभूतानां त्रैलोक्ये सचराचरे
॥४१॥ताभ्यामनुज्ञातश्चैव निषसाद वरासने ।
उपविष्टस्ततः प्रीत इष्टाभिर्वाग्भिरस्तुवत्
॥४२॥ताभ्यां पृष्टश्च कच्चित्ते पुत्रस्तुष्टिप्रदः शुभः ।
स्वाध्यायनियतः कच्चित्कच्चिद्धर्मस्य संततिः
॥४३॥कच्चिन्न वृद्धान्बालो न गुरून्वाप्यवमन्यते ।
कच्चिन्नियमवांश्चैव कच्चित्तुष्टिप्रदः सताम्
॥४४॥स एवमुक्तस्तेजस्वी शिलादः पुत्रवत्सलः ।
उवाच गुणवान्सम्यक्कुलवंशविवर्धनः
॥४५॥तमाहूय स तुष्ट्या तु पुत्रं नन्दिनमच्युतम् ।
तयोः पादेषु शिरसा अपातयत नन्दिनम्
॥४६॥तौ तु तस्याशिषं देवौ प्रयुङ्क्तो धर्मनित्यताम् ।
गुरुशुश्रूषणे भावं लोकांश्चैव तथाक्षयान्
॥४७॥सनत्कुमार उवाच
शिलादस्तामथालक्ष्य आशिषं देवयोस्तदा ।
विसृज्य नन्दिनं भीतः सोऽपृच्छदृषिसत्तमौ
॥४८॥शिलाद उवाच
भगवन्तावृषी सत्यौ गतिज्ञौ सर्वदेहिनाम् ।
किमर्थं मम पुत्रस्य दीर्घमायुरुभावपि ।
प्रयुक्तवन्तौ सम्यक्तु नाशिषं मुनिसत्तमौ
॥४९॥मित्रावरुणावूचतुः
तवैष तनयस्तात अल्पायुः सर्वसम्मतः ।
अतोऽन्यद्वर्षमेकं वै जीवितं धारयिष्यति
॥५०॥सनत्कुमार उवाच
ततः स शोकसंतप्तो न्यपतद्भुवि दुःखितः ।
विसृज्य ऋषिशार्दूलावेकाकी विललाप च
॥५१॥तस्य शोकाद्विलपतः स्वरं श्रुत्वा सुतः शुभः ।
नन्द्यागात्तमथापश्यत्पितरं दुःखितं भृशम्
॥५२॥नन्द्युवाच
केन त्वं तात दुःखेन दूयमानः प्ररोदिषि ।
दुःखं ते कुत उद्भूतं ज्ञातुमिच्छाम्यहं पितः
॥५३॥शिलाद उवाच
पुत्र त्वं किल वर्षेण जीवितं सम्प्रहास्यसि ।
ऊचतुस्तावृषीत्येवं ततो मां कृच्छ्रमाविशत्
॥५४॥नन्द्युवाच
सत्यं देवऋषी तात न तावनृतमूचतुः ।
तथापि तु न मृत्युर्मे प्रभविष्यति मा शुचः
॥५५॥शिलाद उवाच
किं तपः किं परिज्ञानं को योगः कः श्रमश्च ते ।
येन त्वं मृत्युमुद्युक्तं वञ्चयिष्यसि कथ्यताम्
॥५६॥नन्द्युवाच
न तात तपसा मृत्युं वञ्चयिष्ये न विद्यया ।
महादेवप्रसादेन मृत्युं जेष्यामि नान्यथा
॥५७॥द्रक्ष्यामि शंकरं देवं ततो मृत्युर्न मे भवेत् ।
नष्टे मृत्यौ त्वया सार्धं चिरं वत्स्यामि निर्वृतः
॥५८॥शिलाद उवाच
मया वर्षसहस्रेण तपस्तप्त्वा सुदुश्चरम् ।
महादेवः पुरा दृष्टो लब्धस्त्वं मे यतः सुतः
॥५९॥भवांस्तु वर्षेणैकेन तपसा नातिभावितः ।
कथं द्रष्टा महादेवमेतदिच्छामि वेदितुम्
॥६०॥नन्द्युवाच
न तात तपसा देवो दृश्यते न च विद्यया ।
शुद्धेन मनसा भक्त्या दृश्यते परमेश्वरः
॥६१॥त्वया विसृष्टो गत्वाहमचिरेण त्रिलोचनम् ।
द्रष्टा तात न संदेहो विसृजाशु ततस्तु माम्
॥६२॥तिष्ठन्तं मां यमोऽभ्येत्य पश्यतस्तेऽभिसम्मतम् ।
न हिंसति तथा तस्मादितस्तात व्रजाम्यहम्
॥६३॥तिष्ठन्तं वा शयानं वा धावन्तं पतितं तथा ।
न प्रतीक्षति वै मृत्युरिति बुद्ध्वा शमं व्रज
॥६४॥अवतीर्य जलं दिव्यं भावं शुद्धं समास्थितः ।
अभ्यस्य रौद्रमध्यायं ततो द्रक्ष्यामि शंकरम्
॥६५॥जपतश्चापि युक्तस्य रुद्रभावार्पितस्य च ।
न मृत्युकाला बहवः करिष्यन्ति मम व्यथाम्
॥६६॥सनत्कुमार उवाच
तमेवंवादिनं मत्वा ब्रुवाणं शुद्धया गिरा ।
व्यसर्जयददीनात्मा कृच्छ्रात्पुत्रं महातपाः
॥६७॥अभिवन्द्य पितुः पादौ शिरसा स महायशाः ।
प्रदक्षिणं समावृत्य सम्प्रतस्थेऽतिनिश्चितः
॥६८॥अभिवाद्य ऋषीन्सर्वान्स दिदृक्षुरुदारधीः ।
मुनिः स देवमगमत्प्रणतार्तिहरं हरम्
॥६९॥इति स्कन्दपुराणे विंशतितमोऽध्यायः ॥