निर्गतोऽथ ततो नन्दी जगाम सरितां वराम्
सनत्कुमार उवाच
निर्गतोऽथ ततो नन्दी जगाम सरितां वराम् ।
भुवनामिति विख्यातां सर्वलोकसुखावहाम्
॥१॥तां प्रविश्य ततो धीमानेकाग्रो ह्रदमास्थितः ।
स जजाप तदा रुद्रान्मृत्योर्भीतः समाहितः
॥२॥जपता तेन तत्रैव तत्परेण तदाशिषा ।
कोटिरेका यदा जप्ता तदा देवस्तुतोष ह
॥३॥तमागत्याह भगवाञ्छर्व उग्रः कपर्दिमान् ।
नन्दिंस्तुष्टोऽस्मि भद्रं ते वरं वृणु यथेप्सितम्
॥४॥उवाच प्रणतो भूत्वा प्रणतार्तिहरं हरम् ।
द्वितीयां जप्तुमिच्छामि कोटिं भगवतां विभो ।
एवमस्त्विति देवोऽपि प्रोच्यागच्छद्यथागतम्
॥५॥सनत्कुमार उवाच
सोऽवतीर्य ततो भूयः प्रयतात्मा तथैव ह ।
जजाप कोटिमन्यां तु रुद्रमेवानुचिन्तयन्
॥६॥द्वितीयायां ततः कोट्यां सम्पूर्णायां वृषध्वजः ।
अभ्याजगाम तं चैव वरदोऽस्मीत्यभाषत
॥७॥स प्राह भगवन्कोटिं तृतीयामपि कालहन् ।
जप्तुमिच्छामि देवेश त्वत्प्रसादादहं विभो
॥८॥एवमस्त्विति भूयोऽपि भगवान्प्रत्युवाच ह ।
उक्त्वा जगाम स्वं वेश्म देव्या सह महाद्युतिः
॥९॥ततस्तृतीयां रुद्राणां कोटिमन्यां जजाप ह ।
युगान्तादित्यसंकाशस्ततः समभवद्द्विजः
॥१०॥तस्य कोटीत्रये व्यास समाप्ते ज्वलनत्विषः ।
सोमः सह गणैर्देवस्तं देशमुपचक्रमे
॥११॥स तं करेण संगृह्य उद्धृत्य सलिलाच्च ह ।
सम्मृजानोऽग्रहस्तेन नन्दिनं कालहाब्रवीत्
॥१२॥देव उवाच
शैलादे वरदोऽहं ते तपसानेन तोषितः ।
साधु जप्तं त्वया धीमन्ब्रूहि यत्ते मनोगतम्
॥१३॥शैलादिरुवाच
जपेयं कोटिमन्यां तु भूयोऽपि तव तेजसा ।
वरमेतं वृणे देव यदि तुष्टोऽसि मे विभो
॥१४॥भगवानुवाच
किं ते जप्तेन भूयोऽपि तुष्टोऽस्मि तव सर्वथा ।
यद्यत्त्वं वृणुषे कामं सर्वं तत्प्रददानि ते
॥१५॥ब्रह्मत्वमथ विष्णुत्वमिन्द्रत्वमथ वायुताम् ।
आदित्यो भव रुद्रो वा ब्रूहि किं वा ददानि ते
॥१६॥सनत्कुमार उवाच
स एवमुक्तो देवेन शिरसा पादयोर्नतः ।
तुष्टाव पुरकामाङ्गक्रतुपर्वतनाशनम्
॥१७॥नन्द्युवाच
नमो देवातिदेवाय महादेवाय वै नमः ।
नमः कामाङ्गनाशाय नीलकण्ठाय वै नमः
॥१८॥नमस्तुषितनाशाय त्रैलोक्यदहनाय च ।
नमः कालोग्रदण्डाय उग्रदण्डाय वै नमः
॥१९॥नमो नीलशिखण्डाय सहस्रशिरसे नमः ।
सहस्रपाणये चैव सहस्रचरणाय च
॥२०॥सर्वतःपाणिपादाय सर्वतोक्षिमुखाय च ।
सर्वतःश्रुतये चैव सर्वमावृत्य तिष्ठते
॥२१॥नमस्ते रुक्मवर्णाय तथैवातीन्द्रियाय च ।
नमः कनकलिङ्गाय सर्वलिङ्गाय वै नमः
॥२२॥नमश्चन्द्रार्कवर्णाय योगेशायाजिताय च ।
पिनाकपाणये चैव शूलमुद्गरपाणये
॥२३॥गदिने खड्गिने चैव परश्वधधराय च ।
रथिने वर्मिणे चैव महेष्वासाय वै नमः
॥२४॥नमस्त्रिशूलहस्ताय उग्रदण्डधराय च ।
नमो गणाधिपतये रुद्राणां पतये नमः
॥२५॥नमः सहस्रनेत्राय शतनेत्राय वै नमः ।
आदित्यानां च पतये वसूनां पतये नमः
॥२६॥नमः पृथिव्याः पतये आकाशपतये नमः ।
नमः स्वर्लोकपतये उमायाः पतये नमः
॥२७॥नमो योगाधिपतये सर्वयोगप्रदाय च ।
ध्यानिने ध्यायमानाय ध्यानिभिः संस्तुताय च
॥२८॥मृत्यवे कालदण्डाय यमाय च महात्मने ।
देवाधिपतये चैव दिव्यसंहननाय च
॥२९॥यज्ञाय वसुदानाय स्वर्गायाजन्मदाय च ।
सवित्रे सर्वदेवानां धर्मायानेकरूपिणे
॥३०॥अमृताय वरेण्याय सर्वदेवस्तुताय च ।
ब्रह्मणश्च शिरोहर्त्रे यज्ञस्य च महात्मनः
॥३१॥त्रिपुरघ्नाय चोग्राय सर्वाशुभहराय च ।
उमादेहार्धरूपाय ललाटनयनाय च
॥३२॥महिषान्धकभेत्ताय स्रष्ट्रे वै परमेष्ठिने ।
ब्रह्मणो गुरवे चैव ब्रह्मणो जनकाय च
॥३३॥कुमारगुरवे चैव कुमारवरदाय च ।
हलिने मुषलघ्नाय महाहासाय वै नमः
॥३४॥मृत्युपाशोग्रहस्ताय तक्षकब्रह्मसूत्रिणे ।
सविद्युद्घनवाहाय तथैव वृषयायिने
॥३५॥हिमवद्विन्ध्यवासाय मेरुपर्वतवासिने ।
कैलासवासिने चैव धनेश्वरसखाय च
॥३६॥विष्णोर्देहार्धदत्ताय तस्यैव वरदाय च ।
सर्वभूतासमज्ञाय सर्वभूतानुकम्पिने
॥३७॥अन्तर्भूताधिभूताय प्राणिनां जीवदाय च ।
मनसे मन्यमानाय अतिमानाय चैव हि
॥३८॥बुध्यमानाय बुद्धाय द्रष्ट्रे वै चक्षुषे नमः ।
नमस्ते स्पर्शयित्रे च तथैव स्पर्शनाय च
॥३९॥नमस्ते रसयित्रे च तथैव रसनाय च ।
नमो घ्राणाय घ्रात्रे च श्रोत्रे श्रोत्राय चैव हि ।
हस्तिने चैव हस्ताय तथा पादाय पादिने
॥४०॥नमोऽस्त्वानन्दकर्त्रे च आनन्दाय च वै नमः ।
वाचेऽथ वाग्मिने चैव तन्मात्राय महात्मने
॥४१॥सूक्ष्माय चैव स्थूलाय सत्त्वाय रजसे नमः ।
नमश्च तमसे नित्यं क्षेत्रज्ञायाजिताय च
॥४२॥विष्णवे लोकतन्त्राय प्रजानां पतये नमः ।
मनवे सप्तऋषये तप्यमानाय तापिने
॥४३॥ब्रह्मण्यायाथ शुद्धाय तथा दुर्वाससे नमः ।
शिल्पिने शिल्पनाथाय विदुषे विश्वकर्मणे
॥४४॥अत्रये भृगवे चैव तथैवाङ्गिरसे नमः ।
पुलहाय पुलस्त्याय क्रतुदक्षानलाय च
॥४५॥धर्माय रुचये चैव वसिष्ठाय नमोऽस्तु ते ।
भूताय भूतनाथाय कुष्माण्डपतये नमः
॥४६॥तिष्ठते द्रवते चैव गायते नृत्यतेऽपि च ।
अवश्यायाप्यवध्याय अजरायामराय च
॥४७॥अक्षयायाव्ययायैव तथाप्रतिहताय च ।
अनावेश्याय सर्वेषां दृश्यायादृश्यरूपिणे
॥४८॥सूक्ष्मेभ्यश्चापि सूक्ष्माय सर्वगाय महात्मने ।
नमस्ते भगवंस्त्र्यक्ष नमस्ते भगवञ्छिव ।
नमस्ते सर्वलोकेश नमस्ते लोकभावन
॥४९॥न मे देवाधिपत्येन ब्रह्मत्वेनाथवा पुनः ।
न विष्णुत्वेन देवेश नापीन्द्रत्वेन भूतप ।
इच्छाम्यहं तवेशान गणत्वं नित्यमव्ययम्
॥५०॥नित्यं त्वां सगणं साम्बं प्रसन्नं सपरिच्छदम् ।
द्रष्टुमिच्छामि देवेश एष मे दीयतां वरः
॥५१॥त्वं नो गतिः पुरा देव त्वं चैवार्तायनं प्रभुः ।
शरणं च त्वमेवाथ नान्यं पश्यामि कर्हिचित्
॥५२॥त्वया त्यक्तस्य चैवाशु विनाशो नात्र संशयः ।
अन्यां गतिं न पश्यामि यस्या आत्यन्तिकं शुभम्
॥५३॥अनुरक्तं च भक्तं च त्वत्परं त्वदपाश्रयम् ।
प्रतीच्छ मां सदा देव एष मे दीयतां वरः
॥५४॥सनत्कुमार उवाच
य इमं प्रातरुत्थाय पठेदविमना नरः ।
स देहभेदमासाद्य नन्दीश्वरसमो भवेत्
॥५५॥यश्चेमं शृणुयान्नित्यं श्रावयेद्वा द्विजातिषु ।
सोऽश्वमेधफलं प्राप्य रुद्रलोके महीयते
॥५६॥श्रुत्वा सकृदपि ह्येतं स्तवं पापप्रणाशनम् ।
यत्र तत्र मृतो व्यास न दुर्गतिमवाप्नुयात्
॥५७॥योऽधीत्य नित्यं स्तवमेतमग्र्यं देवं सदाभ्यर्चयते यतात्मा ।
किं तस्य यज्ञैर्विविधैश्च दानैस्तीर्थैः सुतप्तैश्च
॥५८॥इति स्कन्दपुराण एकविंशतिमोऽध्यायः ॥