ततस्तु देवदेवेशो भक्त्या परमया युतम्
सनत्कुमार उवाच
ततस्तु देवदेवेशो भक्त्या परमया युतम् ।
अश्रुपूर्णेक्षणं दीनं पादयोः शिरसा नतम्
॥१॥कराभ्यां सुसुखाभ्यां तु संगृह्य परमार्तिहा ।
उत्थाप्य नयने सोमः अश्रुपूर्णे ममार्ज ह
॥२॥उवाच चैनं तुष्टात्मा वचसाप्याययन्निव ।
निरीक्ष्य गणपान्सर्वान्देव्या सह तदा प्रभुः
॥३॥देव उवाच
जाने भक्तिं तव मयि जाने चार्तिं तवानघ ।
तस्य सर्वस्य शैलादे उदर्कं संनिशामय
॥४॥अमरो जरया त्यक्तो नित्यं दुःखविवर्जितः ।
अक्षयश्चाव्ययश्चैव सपिता ससुहृज्जनः
॥५॥ममेष्टो गणपश्चैव मद्वीर्यो मत्पराक्रमः ।
इष्टो मम सदा चैव मम पार्श्वगतः सदा ।
मद्रूपश्चैव भविता महायोगबलान्वितः
॥६॥ऋद्धिमच्चैव ते द्वीपं क्षीरोदममृताकरम् ।
संवासं सम्प्रयच्छामि तत्र रंस्यसि सर्वदा
॥७॥कुशेशयमयीं मालामवमुच्यात्मनस्ततः ।
आबबन्ध महातेजा नन्दिने दिव्यरूपिणीम्
॥८॥स तया मालया नन्दी बभौ कण्ठावसक्तया ।
त्र्यक्षो दशभुजः श्रीमान्द्वितीय इव शंकरः
॥९॥ततस्तं वै समादाय हस्तेन भगवान्हरः ।
उवाच ब्रूहि किं तेऽद्य ददानि वरमुत्तमम्
॥१०॥आश्रमश्चायमत्यर्थं तपसा तव भावितः ।
जप्येश्वर इति ख्यातो मम गुह्यो भविष्यति
॥११॥समन्ताद्योजनं क्षेत्रं दिव्यं देवगणैर्वृतम् ।
सिद्धचारणसंकीर्णमप्सरोगणसेवितम् ।
सिद्धिक्षेत्रं परं गुह्यं भविष्यति न संशयः
॥१२॥कर्मणा मनसा वाचा यत्किंचित्कुरुते नरः ।
शुभं वाप्यशुभं वात्र सर्वं भवितृ तच्छुभम्
॥१३॥जाप्यं मानसं तुल्यं वै रुद्राणां तद्भविष्यति ।
यत्र तत्र मृता मर्त्या यास्यन्ति तव लोकताम्
॥१४॥ततो जटास्रुतं वारि गृहीत्वा हारनिर्मलम् ।
उक्त्वा नदी भवस्वेति विससर्ज महातपाः
॥१५॥सा ततो दिव्यतोया च पुण्या मणिजला शुभा ।
हंसकारण्डवाकीर्णा चक्रवाकोपशोभिता ।
पद्मोत्पलवनोपेता प्रावर्तत महानदी
॥१६॥स्त्रीरूपधारिणी चैव प्राञ्जलिः शिरसा नता ।
पद्मोत्पलदलाभाक्षी महादेवमुपस्थिता
॥१७॥तामुवाच ततो देवो नदीं स्वयमुपस्थिताम् ।
यस्माज्जटोदकाद्देवि प्रवृत्ता त्वं शुभानने ।
तस्माज्जटोदा नाम्ना त्वं भविष्यसि सरिद्वरा
॥१८॥त्वयि स्नानं तु यः कुर्याच्छुचिः प्रयतमानसः ।
सोऽश्वमेधफलं प्राप्य रुद्रलोके महीयते
॥१९॥सनत्कुमार उवाच
ततो देव्या महादेवो नन्दीश्वरमतिप्रभम् ।
पुत्रस्तेऽयमिति प्रोच्य पादयोस्तं व्यनामयत्
॥२०॥सा तमाघ्राय शिरसि पाणिभ्यां परिमार्जती ।
पुत्रप्रेम्णाभ्यषिञ्चत्तं स्रोतोभिः स्तनजैस्त्रिभिः ।
पयसा शङ्खगौरेण देवी देवं निरीक्षती
॥२१॥तानि स्रोतांसि त्रीण्यस्याः स्रुतान्योघवती नदी ।
नदीं त्रिस्रोतसीं पुण्यां ततस्तामवदद्धरः
॥२२॥त्रिस्रोतसं नदीं दृष्ट्वा वृषः परमहर्षितः ।
ननर्द नादात्तस्माच्च सरिदन्या ततोऽभवत्
॥२३॥यस्माद्वृषभनादेन प्रवृत्ता सा महानदी ।
तस्माड्ढित्किरिकां तां वै उवाच वृषभध्वजः
॥२४॥जाम्बूनदमयं चित्रं स्वं देवः परमाद्भुतम् ।
मुकुटं चाबबन्धास्मै कुण्डले चामृतोद्भवे
॥२५॥तं तथाभ्यर्चितं व्योम्नि दृष्ट्वा मेघः प्रभाकरः ।
देवोपवाह्यः सिषिचे सनादः सतडिद्गुणः
॥२६॥तस्याभिषिक्तस्य तदा प्रवृत्ते स्रोतसी भृशम् ।
यस्मात्सुवर्णान्निःसृत्य नद्येका सम्प्रवर्तत ।
स्वर्णोदकेति नाम्ना तां महादेवोऽभ्यभाषत
॥२७॥जाम्बूनदमयाद्यस्माद्द्वितीया मुकुटाच्छुभात् ।
प्रावर्तत नदी पुण्या ऊचुर्जम्बूनदीति ताम्
॥२८॥एतत्पञ्चनदं नाम जप्येश्वरसमीपगम् ।
व्याख्यातं फलमेतासां जटोदायां महात्मना
॥२९॥तच्च पञ्चनदं दिव्यं देवं जप्येश्वरं च तम् ।
त्रिरात्रोपोषितो गत्वा स्नात्वाभ्यर्च्य च शूलिनम्
॥३०॥नन्दीश्वरस्यानुचरः क्षीरोदनिलयो भवेत्
॥३१॥यस्तु जप्येश्वरे प्राणान्परित्यजति दुस्त्यजान् ।
नियमेनान्यथा वापि स मे गणपतिर्भवेत्
॥३२॥नन्दीश्वरसमो नित्यः शाश्वतः अक्षयोऽव्ययः ।
मम पार्श्वादनपगः प्रियः सम्मत एव च
॥३३॥जप्येश्वरं पञ्चनदं च तद्वै यो मानवोऽभ्येत्य जहाति देहम् ।
स मे सदा स्याद्गणपो वरिष्ठस्त्वया समः कान्तिवपुश्च नित्यम्
॥३४॥इति स्कन्दपुराणे द्वाविंशतिमोऽध्यायः ॥